________________
योगशास्त्रे
वर्ष मौनी निराहारो विहरन् भगवानपि । पुरं गजपुरं नाम प्रययौ पारणेच्छया ॥ ६४ ॥ तदा च सोमयशसः श्रेयांस: स्वप्नमैक्षत । मेरं श्यामं सुधाकुम्भैः क्षालयित्वोज्वलं व्यधात् ॥ ६५ ॥ सुबुद्धिवेष्ठिनाप्यैक्षि गोसहस्रं रवेथुवतम् । श्रेयांसेनाहितं तत्र ततोऽसौ भासुरोऽभवत् ॥ ६ ॥ अदशि सोमयशसा राजैको बहुभिः परैः । रुद्धः समन्ताच्छ्रेयांससाहाय्याज्जयमौयिवान् ॥ १७ ॥ त्रयस्ते सदसि स्वप्नानान्योऽन्यस्य न्यवीविदन् । ते निर्णयमजानन्तः खं खं स्थानं पुनययुः ॥ ६८ ॥ प्रादुर्भावयितुमिव तदा तत्स्वप्ननिर्णयम् । श्रेयांसस्य ययौ वेश्म भिक्षार्थी भगवानपि ॥ ६८ ॥ भगवन्तं समायान्तं शशाङ्कमिव सागरः । पालोक्य श्रेयसां पात्रं श्रेयांस: शिश्रिये मुदम् ॥ ७० ॥ जहापोहं वितन्वान: श्रेयांसः स्वामिदर्शनात् । .. अवाप जातिस्मरणं पूर्वनष्टनिधानवत् ॥ ७१ ॥ चक्रभृहज्जनाभोऽसौ प्राग्भवेऽस्यास्मि सारथिः । अनुप्रवजितश्चामुं तदेत्यादि विवेद सः ॥ ७२ ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः सुधीः । स्वामिने प्रासुकायातक्षुरसं मुदितो ददौ ॥ ७३ ॥ भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये ममुनहि मुदस्तदा ॥ ७४ ॥