________________
प्रथमः प्रकाशः ।
५८
स्त्यानोऽनुस्तम्भितोऽन्वासीद् व्योनि लग्नशिखो रसः । अन्जली स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥ ७५ ॥ ततो भगवता तेन रसेनाकारि पारणम् । मुरासुरनृणां नेत्रैः पुनस्तद्दर्शनामृतैः ॥ ७६ ॥ कुर्वद्भिर्दुन्दुभिध्वानं देवैर्दिवि घनैरिव । वृष्टयो रत्नपुष्पाणां चक्रिरे वारिदृष्टिवत् ॥ ७७ ॥ अथ तक्षशिला स्वामी ययौ बाहुबलेः पुरीम् । बायोद्याने प्रपेदे च प्रतिमामेकरात्रिकीम् ॥ ७८ ॥ • प्रभाते पावयिष्यामि खं लोकं खामिदर्शनात् । ..
इतीच्छतो बाहुबलेः साभून्मासोपमा निशा ॥ ७९ ॥ स प्रात: प्रययौ यावत्तावत्वाम्यन्यतोऽगमत् ।। तच्चास्वामिकमुद्यानं व्योमेवाचन्द्रमैक्षत ॥ ८० ॥ मनोरथो विलीनो मे हृदि बीजमिवोषरे । हा धिक् प्रमहरोऽस्मोति बह्वात्मानं निनिन्द सः ॥ ८१.. यत्रास्थातां प्रभोः पादौ रत्नस्तवार्षभियंधात् । . धम्मचक्र सहस्रारं सहस्रांशुमिवापरम् ॥ २ ॥ विवधाभिग्रहः स्वामी म्लेच्छदेशष्वधर्मसु ।। .. विजहार यथार्येषु समभावा हि योगिनः ॥ ८३ ॥ तदा प्रभृत्यनार्याणामपि पापैककर्मणाम् । धर्मास्तिक्यधिया जन्ने दृढानुष्ठानचेष्टितम् ॥ ८४ ॥ एवं विहरमाणस्तु सहस्रे शरदां गते । पुरं पुरिमतालाख्यमाजगाम जगद्गुरुः ॥ ८५॥