SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ :: योगशास्त्रे तत्पूर्वोत्तरदिग्भागे कानने शकटानने। - वटस्थाधोऽष्टमभक्तनास्थाप्रतिमया प्रभुः ॥ ८६ ॥ आरुह्य क्षपकणिमपूर्वकरणक्रमात् । शुक्लध्यानान्तरं शुधमध्यासीच्च जगत्पतिः ॥ ८७॥ ततश्च धातिकर्माणि व्यलोयन्त घना इव । खामिन: केवलज्ञानरविराविबभूव च ॥ ८८ ॥ विमानान्यतिसम्मर्दाद घड्यन्तः परस्परम् । एयुरिन्द्राश्चतुःषष्टिः समं देवगणैस्तदा ॥ ८८॥ त्रैलोक्यभर्तुः समवसरणस्थानभूतलम् । अमृजधायुकुमाराः स्वयं मार्जितमानिनः ॥ १० ॥ गन्धाम्बुदृष्टिभिर्मेधकुमाराः सिषिचुः क्षितिम् । : सुगन्धिबाष्य : सोत्क्षिप्तधूपाधैवैष्यतः प्रभोः ॥ ८१ ॥ पुष्पोपहारमृतवो जानुदघ्नं व्यधुर्भुवि । अप्येषत्पूज्यसंसर्गः पूजायै खलु जायते ॥ ८ ॥ निग्धधूमशिखास्तोमवासितव्योममण्डलाः। : चक्रुधूपघटीस्तत्र तत्र वह्निकुमारकाः ॥ ८३ ॥ इन्द्रचापशतालीढमिव नानामणिविषा । ततः समवसरणं चक्रे शक्रादिभिः सुरैः ॥ ८४ ॥ रजतवर्णमाणिक्यवप्रास्तत्र त्रयो बभुः। भुवनाधिपतिज्योतिर्वैमानिकसुरैः कृताः ॥ ५ ॥ असौ स्वर्गमसौ मोक्षं गच्छत्यध्वेति देहिनाम् ।। शंसन्स्य इव वलान्यः पताकास्तेषु रेजिरे ॥ ८ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy