________________
१७८
योगशास्त्रे
सतोऽप्यदर्शनमिति वक्तुं युक्तं प्रमाणाभावात् । अभिव्यञ्जकवशाच्छन्दश्रवणमेव प्रमाणमिति चेत् न। तस्य जन्यत्वेऽप्युपपत्तेः । अभिव्यङ्ग्यत्वे प्रत्युत दोषसम्भवः । एकशब्दाभिव्यक्त्यर्थ स्थानकरणा-, भिघाते शब्दान्तराणामपि तद्देश्यानामभिव्यक्तिप्रसङ्गः। न च प्रतिनियतव्यञ्जकव्यङ्गयता शब्दानां भवति व्यङ्गयान्तरेषु तददर्शनात् ।
तथाच
रहे दधिघटीं द्रष्टुमाहितो रहमधिना ।
अपूपानपि तद्देश्यान् प्रकाशयति दीपकः ॥ १ ॥ तदेवं वचनस्यापौरुषेयता न सम्भवति। अथाप्यप्रामाणिकहेवाकबलादाकाशादिवच्छब्दस्यापौरुषेयता यदि भवेत् तथापि प्रामाण्यं न सम्भवति। हि यस्मादाप्तवक्तृकत्वेन वाचां प्रामाण्यं नान्यथा ।
यत:
शब्दे गुणोद्भवस्तावद्दत्रधीन इति स्थितम् । तदभावः कचित्तावहोषवद्दतकत्वतः ॥ १ ॥ तहोषैरपक्वष्टानां शब्दे संक्रान्त्यसम्भवात् ।
यहा वक्तुरभावेन गुणा न स्युनिराश्रयाः ॥ २ ॥ किच्च
गुणाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेटे कर्तुरभावाच्च गुणाशङ्खव नास्ति नः ॥ ३ ॥ १२ ॥