________________
द्वितीयः प्रकाश: । एवं तावदपौरुषेयवचनाभिहितस्यासम्भवादिना । अभावमभिधायासर्वज्ञपुरुषवक्तृकस्य
धम्मस्याप्रामाणिकत्वमाह
मिथ्यादृष्टिभिरामातो हिंसाद्यैः कलुषीकृतः । . स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१३॥
मियादृष्टिभिर्हरिहरहिरण्यगर्भकपिलबुद्धादिभिराम्नात आत्मोपज्ञतया प्रतिपादितः । यत्तदोनित्याभिसम्बन्धाद्यो मिथ्यादृष्टिभिरामातः स धर्मत्वेन मुग्धबुद्धीनां प्रसिद्धोऽपि भवनमणकारणमधर्म एवेत्यर्थः । कुत इत्याह । हिंसाद्यैः कलुषोलत इति । मिथ्यादृष्टिप्रणीता ह्यागमा हिंसादिदोषदूषिताः ॥ १३ ॥
इदानीमदेवागुर्वधर्माणां साक्षेपं प्रतिक्षेपमाह
सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात्कष्टं नष्टं हहा जगत् ॥१४॥
रागग्रहणमुपलक्षणं देषमोहयोः । अब्रह्मचारित्वमुपलक्षणं प्राणातिपातादीनाम् । कपाहीनत्वमुपलक्षणं मूलीत्तरगुणहीनत्वस्य । चेच्छन्दः प्रत्येकमभिसम्बध्यते। आक्षेपं प्रकटयति। कष्टमिति खेदे नष्टं जगत् देवगुरुधर्मशून्यत्वेन विनष्टं दुर्गतिगमनात् । हहा निपातः खेदातिशयसूचकः ।