________________
योगशास्त्रे
जिग्ये भगवता तत्र कृतश्चासीदयं पणः |
जयेद्यइह स ह्यन्यान् पृष्ठमारुह्य वाहयेत् ॥ ४८ ॥ आरुह्यावाहयद्दाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठं पृष्ठो महौजसाम् ॥ ४८ ॥ ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्द्धितुं सुरः ॥ ५० ॥ वक्त्रे पातालकल्पेऽस्य जिह्वया तक्षकायितम् । पिङ्गैस्तुङ्गे शिरःशैले केशैर्दावानलायितम् ॥ ५१ ॥ तस्यातिदारुणे दंष्ट्रे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकट्याविव लोचने ॥ ५२ ॥ घोणारन्ध्रे महाघोरे महोधरगुहे इव | भृकुटीभङ्गुरे भीमे महोरग्याविव भ्रुवौ ॥ ५३ ॥ व्यरंसोद्दर्द्धनान्नासौ यावत्तावन्महौजसा ।
आहत्य मुष्टिना पृष्ठे स्वामिना वामनौक्कतः ॥ ५४ ॥ एवं च भगवद्धैर्यं' साक्षात् क्वत्येन्द्रवर्णितम् । प्रभुं नत्वात्मरूपेण निजं धाम जगाम सः ॥ ५५ ॥ मातापितृभ्यामन्येद्युः प्रारब्धेऽध्यापनोत्सवे ।
सर्व्वज्ञस्य शिष्यत्व मितोन्द्र स्तमुपास्थितः ॥ ५६ ॥ उपाध्यायासने तस्मिन्वासवेनोपवेशितः ।
प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥ ५७ ॥
(१) क घ ङ वीर्यं ।
(२) क घ ङ -त्वे ।