________________
प्रथमः प्रकाशः ।
सोऽहंपूर्विकया भक्तैः सेव्यमान: सुरासुरैः । दृशा पीयूषवर्षिण्या सिञ्चत्रिव वसुन्धराम् ॥ ३८ ॥ अष्टोत्तरसहस्रेण लक्षणरुपलक्षितः । निसर्गेण गुणैर्वृद्धो वयसा वधे क्रमात् ॥ ३८ ॥ राजपुत्रः सवयोभिः समं नि:सीमविक्रमः । वयोऽनुरूपकोडाभिः कदाचित्क्रीडितुं ययौ ॥ ४० ॥ तदा ज्ञात्वावधिज्ञानान्मध्ये सुरसभं हरिः। . 'धौरा अनुमहावीरमिति वीरमवर्णयत् ॥ ४१ ॥ क्षोभयिष्यामि तं धौरमेषोऽहमिति मत्सरौ। आजगामामरः कोऽपि यत्र क्रीडवभूविभुः ॥ ४२ ॥ कुत्यामलकोक्रोडां राजपुत्रैः सह प्रभो। सोऽववेष्टविटपिनं भुजगीभूय मायया ॥ ४३ ॥ तत्कालं राजपुत्रषु वित्रस्तेषु दिशोदिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥ ४४ ॥ सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात्सर्वेऽप्यारुरुहुस्तरम् ॥ ४५ ॥ . पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्दा कियदमुष्थेदं यो लोकाग्रं गमिष्यति ॥ ४६ ॥ शुशुभे भगवांस्तत्र मेरुशृङ्ग इवायैमा । लम्बमाना बभुः शाखाखन्ये शाखामृगा इव ॥ ४७ ॥
(१) क ख वीरा।
(२) व वीरम् ।
(३) ख अविवेष्टत् ।