________________
१८६
योगशास्त्रे
`रिव संसारस्य तरणे सुखावतारो मार्गः । तच्च द्विधा द्रव्यतीर्थं भावतोर्थं च । द्रव्यतीर्थं तीर्थकृतां जन्मदीक्षाज्ञाननिर्व्वाणस्थानम् । यदाह
जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं ।
जत्थ य किर निव्वाणं श्रगाढं दंसणं होइ ॥ १ ॥ भावतोर्थं तु चतुर्विधः श्रमणसङ्घः प्रथमगणधरो वा ।
यदाह
"तित्यं भन्ते तित्यं तित्थयरे तित्थं गोयमा अरिहा ताव नियमा तित्यं करे तित्थं पुणचाउव्वणे समणसंघे पढमगणहरे वा । तीर्थस्य सेवा तीर्थसेवा ॥ १६ ॥
-
. अस्य सम्यक्त्वस्य भूषणान्युक्त्वा दूषणान्याह - शङ्काकाङ्गाविचिकित्सामिध्यादृष्टिप्रशंसनम् ।
तत्संस्तवश्च पञ्चापि सम्यक्त दूषयन्त्यलम् ॥ १७ ॥ पञ्चापि शङ्कादयो निर्दोषमपि सम्यक्त्वां दूषयन्ति अलमतिशयेन | शङ्का सन्देहः सा च सर्वविषया देशविषया च । सर्वविषया अस्ति वा नास्ति वा धम्मं इत्यादि । देशशङ्का एकैकव वस्तुध मंगोचरा ।
(१) ख छ द्वेधा |
(२) जन्मं दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् ।
यत्र च किल निर्वाणं श्रागाढं दर्शनं भवति ॥
(३) ग छ चतुर्वर्णः ।
: (8) तीर्थं भगवन् तीर्थं तीर्थकर तीर्थं गौतमा बर्हन् तावन्नियमेन तीर्थकरस्तीर्थं पुनश्च'तुर्वर्ण्यं श्रमणसङ्घ प्रथमगणधरे वा ।