________________
१६०
योगशास्त्रे ग्रहणं वा मानः । कुलबलेखर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन स्वस्य धूतपापाद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः। एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह
दाण्ड क्यो नाम भोजः कामाद्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश करालश्च वैदेहः १ क्रोधाज्जनमेजयो ब्राह्मणेषु विक्रान्तस्तालजङ्घश्च भृगुषु २ लोभादैलश्चातुर्वर्ण्यमभ्या. हारयमाणः सौवीरश्चाजबिन्दुः ३ मानाद्रावण: परदारानप्रयच्छन् दुर्योधनी राज्यादद्मशं च ४ मदादम्भोद्भवो भूतावमानो हैहयश्चार्जुन: ५ हर्षाहातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्व हैपायन ६ मिति ॥ ३४ ॥
तथा वशीकत: स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्ताशक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः। इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति ।
यदाह
आपदां कथितः पन्या इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥ १ ॥ इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ २ ॥