________________
यदाह
द्वितीयः प्रकाशः ।
'दट्ठूण पाणिनिवहं भोमे भवसायरम्मि दुक्खन्तं । अविसेसओणुकंपं 'दुविहावि सामच्छओ कुणइ ॥ १ ॥ अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यम् । तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः । आस्तिक्येन हि जीवधर्मतया अप्रत्यक्षं सम्यक्वं लक्ष्यते । तद्दान् हि आस्तिक इत्युच्यते ।
यदाह
१८३
मन्त्र तमेव सञ्चं नोसंकं जं जिणेहिं पनत्तं । सुहपरिणामो सम्मं कखाइविसुत्तिआरहिओ ॥ १ ॥ अन्ये तु शमादीनि लिङ्गान्यन्यथा व्याचक्षते सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवेशोपशमः शमः । स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनवानिति । संवेगो भयं जिनप्रवचनानुसारिणो हि नरकेषु शरीरं मानसं च शीतोष्णादिजनितं च संक्लिष्टासुरोदीरितं च परस्परोदीरितं च तिर्यक्षु भारारोपणाद्यनेकविधं मनुजेषु दारिद्रादौर्भाग्यादि च दुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यग्दर्शनमिति । निर्वेदो
(१) दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्त्तम् । विशेषतोऽनुकम्पां द्विविधामपि सामर्थ्यातः करोति ॥
(२) ख ग चठ दुहावि ।
(३) मन्यते तदेव सत्यं निःशङ्कं यजिनैः प्रज्ञापितम् । शुभपरिणामः सम्यक् काङ्खादिविविकारहितः ॥