SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १८४ .. योगशास्त्रे विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपवफल: परलोकेऽप्यतिकटकनरकतिर्यग. मनुष्यजन्मफलप्रदः । अतो न किञ्चिदनेन । उझितव्य एवायमिति । एवंविधनिदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति । अनुकम्मा कपा यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च । ततो नैषामल्पापि पीडा मया कार्येत्यनयापि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति। सन्ति खलु जिनेन्द्रप्रवचनोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणाम आस्तिक्यम् । अनेनापि - लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति ॥ १५ ॥ सम्यवलिङ्गान्युजा भूषणान्याह-- स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १६ ॥ अस्य सम्यक्त्वस्य पञ्च भूषणानि भूष्यते अलतियते यैस्तानि भूषणानि जिनशासने जिनशासनविषये। एतच्च सर्वत्र सम्बध्यते। स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकड़िदर्शनेऽपि जिनशासनं प्रति निष्पकम्पता। प्रभवति जैनेन्द्रशासनं तस्य प्रभवतः प्रयोजकत्वं प्रभावना। सा चाष्टधा प्रभावकभेदेन । यदाह. 'पावयणी धम्मकही वाई नैमित्तिो तवस्मी य । विज्जा सिद्धो अ कई य अड्डेव पभावगा भणिया ॥ १ ॥ (१) प्रवचनी धर्मकथी वादी नैमित्तकः तपस्वी च । विद्यावान् सिद्धय कविश्व अष्टैव प्रभावका भणिताः ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy