________________
प्रथम प्रकाशः ।
पन्नगे च सुरेन्द्र च कौशिक पादसपशि ।
निर्विशेषमनस्काय श्रीवीरखामिने नमः ॥ २ ॥ पन्नगस्य कौशिकत्वं पूर्वभव स्थितकौशिकगोत्रत्वेन। बुध्यस्त्र कौशिकेति भगवता तथैव भाषितत्वेन च सुरेन्द्रस्य तु कौशिकत्वं कौशिकाभिधानात् । पादस्पर्शश्च पन्नगस्य दशनबुद्धया सुरेन्द्रस्य च भक्त्यतिशयेन। निर्विशेषमनस्कत्वं च भगवतो हेषरागविशेषरहितत्वेन माध्यस्थ्यात् । सम्प्रदायगम्यश्चायमर्थस्तथाहि
श्रीवीरः प्राणतस्वर्गपुष्योत्तरविमानतः । पूर्वजन्माज्जितौजस्वितीर्थक्कनामकम्मकः ॥ १ ॥ ज्ञानत्रयपवित्रात्मा सिद्धार्थनृपवेश्मनि । त्रिशलाकुक्षौ सरस्यां राजहंस इवागमत् ॥ २ ॥ (युग्म) सिंहो गजो वषः साभिषेक श्रीः स्रक शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः ॥ ३ ॥ विमानं रत्नपुञ्जश्च नि माग्निरिति क्रमात् । देवी चतुर्दशस्वप्नानपश्यत्तत्र गर्भगे ॥ ४ ॥ त्रैलोक्योद्योतकहेवदानवासनकम्पलत् । अपि नारकजन्तूनां क्षणदत्तसुखासिकम् ॥ ५ ॥ प्रभुः सुखं सुखेनैव जन्म प्राप शुभे दिने । तत्कालं दिक्कुमार्यश्च सूतिकम्माणि चक्रिरे ॥ ६ ॥
(१) ख ग -भूत-1