________________
योगशास्त्रे चरणाङ्गुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितमरित्पतिक्षोभशशितब्रह्माण्डभाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोष्पतिना नाम निर्ममे महावीरोऽयमिति । तत्पुनरनादिप्रभवप्ररूढप्रौढकम्म'समुन्मूलनबलेन यथार्थीकतञ्च भगवता । वईमान इति तु नाम मातरपितराभ्यां कृतम्। श्रमणो. देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः । शेषाणि विशेषणानि । तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते तत्र पूर्वाई नापायापगमातिशयः। अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः । १। अर्हते इत्यनेन च सकलसुरासुरमनुजजनितपूजाप्रकर्षवाचिना पूजातिशयः । २ । योगिनाथायेत्यनेन तु ज्ञानातिशयः योगिनोऽवधिजिनादयस्तेषां नाथो विमलकेवलबलावलोकितलोकालोकस्वभावो भगवानेव ।। तायिने इत्यनेन तु वचनातिशयः । ४ । तायी सकलसुरासुरमनुजतिरश्चां पालकः। पालकत्वं च सकलभुवनाभयदानसमर्थसमग्रभाषापरिणामिधर्मदेशनाद्वारेण भगवत एव । पालकत्वमात्रं तु स्वापत्यार्थ्याघ्रादीनामपि सम्भवति । तदेवं चतुरतिशयप्रतिपादनबारेण भगवतो महावीरस्य पारमार्थिको स्तुतिरभिहितेति ॥ १॥
पुनर्योगगभी स्तुतिमाह
(१) ख -अपनयन-।
___(२) ख म -सर्व-।