SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ५२ योगशास्त्रे तत्र दृष्ट्वाऽह्हर्म्येषु रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं तते रोहणाचलः ॥ १ ॥ जलकेलिरतस्त्रीणां त्रुटितैरमौक्तिकैः । ताम्रपर्णीश्रियं तत्र दधते गृहदीर्घिकाः ॥ २ ॥ तत्त्रेभ्याः सन्ति ते येषां कस्याप्येकतमस्य सः । व्यवहर्त्तु ं गतो मन्ये वणिक्पुत्रो धनाधिपः ॥ ३ ॥ नक्तमिन्दुदृषद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपांशवो रथ्याः क्रियन्ते तत्र सर्व्वतः ॥ ४ ॥ वापीकूपसरोलक्षैः सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिबभूव सा ॥ ५ ॥ नगरौं तामलङ्कुर्व्वन्नरेन्द्रो वृषभध्वजः । अपत्यानि निजानीव प्रजाश्विरमपालयत् ॥ ६ ॥ तत उत्पादयामास लोकानुग्रहकाम्यया । एकैकशो विंशतिधा पञ्च शिल्पानि नाभिभूः ॥ ७ ॥ राज्यस्थितिनिमित्तं चाऽग्रहोद्गास्तुरगान् गजान् । सामाद्युपायसारां च नौतिरीतिमदर्शयत् ॥ ८॥ द्वासप्ततिकलाकाण्डं भरतं चाध्यजोगपत् । भरतोऽपि निजान् भ्रातॄंस्तनयानितरानपि ॥ ८॥ नाभेयो बाहुबलिनं भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ १० ॥ अष्टादशलिपोर्ब्राह्मया अपसव्येन पाणिना । दर्शयामास सव्येन सुन्दर्या गणितं पुनः ॥ ११ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy