________________
प्रथमः प्रकाशः । इतथाम्भोजिनीपत्रपुटैरञ्जलिधारितैः। .. निजं मन इव स्वच्छमानिन्ये मिथुनर्जलम् ॥ ४० ॥ उदयाद्रिमिवाण मुकुटेनोपशोभितम् । अत्यन्तविमलैर्वस्त्रोमेव शरदम्बुदैः ॥ ८१ ॥ हंसैरिव शरत्कालं सञ्चरच्चारुचामरैः। कताभिषेकं नाभयं ददृशुस्तानि विस्मयात् ॥ ८२ ॥ (युग्मं) नैतद्युक्तं प्रभोर्मू क्षेप्तुमेवंविमर्शिभिः । विनीतैमिथुनैर्वारि निदधे पादपद्मयोः ॥ ८३. योजनान्यथ विस्तीणां नव द्वादश चायताम् ।। विनीताख्यां पुरौं कत्तुं श्रीदमुक्ता हरिययौ ॥ २४ ॥ सोऽपि रत्नमयों भूमर्माणिक्यमुकुटोपमाम् । व्यधात् हिषामयोध्येति तामयोध्यापराभिधाम् ॥ ८५ ॥ तां च निर्माय निर्मायः पूरयामास यक्षराट । अक्षय्यरत्नवसनधनधान्यनिरन्तरम् ॥ ८६ ॥ वब्वेन्द्रनीलवैडूर्यहर्यकिर्भीररश्मिभिः । भित्तिं विनापि खे तत्र चित्रकर्म विरच्यते ॥ १७ ॥ तहप्रे दीप्रमाणिक्यकपिशौर्षपरम्पराः। प्रयत्नादर्शतां यान्ति चिरं खेचरयोषिताम् ॥ ८ ॥ तस्यां ग्रहाङ्गणभुवि स्वस्तिकन्यस्तमौक्तिकैः ।। खैरं कर्करकक्रीडां कुरुते बालिकाजनः ॥ ८ ॥ तत्रोद्यानोच्चवृक्षाग्रस्वल्यमानान्यहर्बिशम् । खेचरीणां विमानानि क्षणं यान्ति कुलायताम् ॥.१०० ॥