________________
५०
योगशास्त्रे
ततः सुमङ्गलादेवी देवैः प्रक्कतमङ्गला ।
अपत्ये भरतब्राह्मौ युग्मरूपे अजीजनत् ॥ ७८ ॥ त्रैलोक्यजनितानन्दा सुनन्दा सुषुवे युगम् । सुबाहुं बाहुबलिनं सुन्दरीं चातिसुन्दरीम् ॥ ८० ॥ पुनरेकोनपञ्चाशत्पुंयुगानि सुमङ्गला ।
असूत बलिनो मूर्त्तान् द्वैरूप्येणेव मारुतान् ॥ ८१ ॥ अन्येद्युरन्याय इति पूत्कारोद्धृतबाहुभिः । नाभिर्व्यज्ञपि सम्भूय सर्व्वेर्मिथुनकैरिदम् ॥ ८२ ॥ तिस्रो हकारमकारधिक्काराख्याः सुनीतयः । न गण्यन्तेऽधुना पुग्भिः कुर्व्वद्भिरसमञ्जसम् ॥ ८३ ॥ ततः कुलकरोऽप्यूचे त्रातास्मादसमञ्जसात् । एष वो वृषभः स्वामी तद्दर्त्तध्वं तदाज्ञया ॥ ८४ ॥ तदा कुलकराज्ञातः कर्त्तुं राज्यस्थितिं स्फुटाम् । प्रभुर्ज्ञानत्त्रयमयो मिथुनान्येवमन्वशात् ॥ ८५ ॥ राजा भवति मर्यादाव्यतिक्रमनिरोधकः । तस्योच्चासनदानेनाभिषेकः क्रियते जलैः ॥ ८६ ॥ आकर्ण्य वचनं भर्त्तुस्ते सर्व्वे युग्मधम्मिंणः । तच्छिनया ययुः पत्रपुटैर्जलजिघृक्षया ॥ ८७ ॥ तदा चासनकम्पेनावधिज्ञानप्रयोगतः । विज्ञातभगवद्राज्य समयः शक्र श्रययौ ॥ ८८ ॥
रत्नसिंहासनेऽध्यास्य वासवः परमेश्वरम् । साम्राज्येऽभिषिषेचालञ्चक्रे च मुकुटादिभिः ॥ ८ ॥