SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । १३५ 'पुष्पिच्छासंथवविज्जामन्ते अ तुमजोए य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥ २ ॥ बालस्य क्षौरमज्जनमण्डनक्रीडनाशारोपणकर्मकारिण्यः पञ्चधानाः एतासां कर्म भिक्षार्थं कुर्वतो मुनेर्धात्रीपिण्डः ॥ १ ॥ मिथः सन्देशकथनं दूतीत्वं तत्कुर्वतो भिक्षार्थं दूती. पिण्डः ॥ २॥ ___ प्रतीतानागतवर्तमानकालेषु लाभालाभादिकथनं निमित्तं तद्भिक्षार्थं कुर्वतो निमित्तपिण्डः ॥ ३ ॥ ' जातिकुलगणकम्मंशिल्पादिप्रधानन्य पात्मनस्तत्तगुणत्वारोपणं भिक्षार्थमाजीवपिण्डः ॥ ४ ॥ श्रमणब्राह्मणक्षपणातिथिश्वानादिभक्तानां पुरत: पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनोपकपिण्डः ॥ ५ ॥ वमनविरेचनबस्तिकम्मादि कारयतो वैद्यभैषज्यादि सूचयतो .. वा पिण्डाथं चिकित्सापिण्डः ॥ ६ ॥ विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थ कुर्वत: क्रोधपिण्डः ॥ ७ ॥ लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ॥ ८ ॥ नानावेषभाषापरिवर्तनं भिक्षार्थं कुर्वतो मायापिण्डः ॥ ८ ॥ (१) पूर्वपञ्चात्यंस्तवविद्यामन्त्रं च चर्णयोग । उत्पादनाया दोषा षोडशो मूल कर्म च ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy