________________
प्रथमः प्रकाशः ।
37
.
निवेश्यशानशकाके सौधर्मेन्द्रोऽप्यथ प्रभुम् । .... सपयित्वा'ऽर्चयित्वारात्रिकं त्वेति तुष्टुवे ॥ १८ ॥ नमोऽईते भगवते स्वयम्बुद्धाय वेधसे । तीर्थङ्करायादिवते पुरुषेषूत्तमाय ते ॥ १८ ॥ नमो लोकप्रदीपाय लोकप्रद्योतकारिण। लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥ २० ॥ नमस्ते पुरुषवरपुण्डरीकाय शम्भवे । -००० पुरुषसिंहाय पुरुषैकगन्धद्दिपाय ते ॥ २१ ॥ चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदाय ते ॥ २२ ॥ . धर्मसारथये धम्मनेत्रे धर्मेकचक्रिण । .. व्यावृत्तच्छद्मने सम्यक्ज्ञानदर्शनधारिणे ॥ २३ ॥ जिनाय ते जापकाय तीर्णाय तारकाय च। विमुक्ताय मोचकाय नमो बुद्धाय बोधिने ॥ २४ ॥ सर्वज्ञाय नमस्तुभ्यं खामिने सर्वदर्शिने । स । सातिशयपात्राय कम्माष्टकनिषूदिने ॥ २५ ॥ तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्थाहादवादिने वीतरागाय मुनये नमः ॥ २६ ॥ पूज्यानामपि पूज्याय महदभ्योऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ॥ २७ ॥ +
U9
(१) क ख ग अर्चयित्वाथ कृत्वाराविकमस्त वीत् ।