________________
१९२
योगशास्त्रे
मगारिण: । तच्च श्रुतीतत्वादनवद्यमेव तत्कस्मात्रीच्यते । उच्यते । तस्य विशेषविषयत्वात्। तथाहि यः किल प्रविवजिपुरव प्रतिमाः प्रतिपद्यते । पुत्रादिसन्ततिपालनाय यो वा विशेषं वयंभूरमणादिगतं मत्स्यादिमांसं स्थूलहिंसादिकं वा क्वचिदवस्थाविशेषे प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति । इत्यल्पविषयत्वात्रोच्यते। बाहुल्येन तु हिविधं त्रिविधेनेति । विविधविविध आदिर्यस्य विविधत्रिविधादेर्भङ्गजालस्य तेन ॥
विविधं दिविधेनेति द्वितीयो भङ्गः विविधमिति स्थू लहिंसा न करोति न कारयति हिविधेनेति मनसा वचसा यहा मनमा कायेन यहा वाचा कायेनेति । तत्र यदा मनमा वाचा न करोति न कारयति। तदा मनसा अभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना असंजिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरनेवानाभीगाहाचैव हन्मि घातयामि वेति ब्रूते । यदा तु वाचा कायेन न करोति न कारयति । तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च। अनुमतिस्तु विभिरपि सर्वत्रवास्ति । एवं शेषविकल्पा अपि भावनीयाः।
हिविधमेकविधेनेति टतीयः विविधं करणं कारणं च एकविधन मनसा यहा वचसा यहा कायेन ।
एकविधं त्रिविधनेति चतुर्थः एकविधं करणं यहा कारणं मनसा वाचा कायेन च।