________________
द्वितीयः प्रकाशः ।
१८१
यदाह'पईईए कम्माणं नाऊणं वा विवागमसुहंति । .
अवरडेवि न कुप्पइ उवसमो सव्वकालंपि ॥ १ ॥ अन्ये तु क्रोधकण्डूविषयष्णोपशम: शम इत्याहुः अधिगत सम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्डा विषयटष्णया च तरलोक्रियेत। ननु क्रोधकण्डूविषयवृष्णोपशमश्चेच्छमस्तहि कृष्ण श्रेणिकादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयष्णातरलितमनसां च कथं शमः । तदभावे च सम्यकं न गम्येत । नैवम्। लिङ्गिनि सम्यक्ते सति लिङ्गैरवश्यभाव्यमिति नायं नियमः। दृश्यते हि धूमरहितोऽप्ययस्कारग्रहेषु वहि: भस्मच्छवस्य वा वर्न धूमलेशोपीति अयं तु नियमः सुपरीक्षिते लिङ्गे सति लिङ्गी भवत्येव । यदाह
लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत्युनः ।
नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥ १ ॥ सङ्घलनकषायोदयाहा कृष्णादीनां क्रोधकण्डूविषयटष्णे सञ्जुलना अपि केचन कषायास्तोव्रतया अनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमवदातम् । संवेगो मोक्षाभिलाषः । सम्यग्
(१) प्रकृत्याः कर्मणां ज्ञात्वा वा विपाकमशुभमिति ।
अपराधेऽपि न कुप्यति उपशमतः सर्वकालमपि ॥
(२) क छ प्रशमः ।