Page #1
--------------------------------------------------------------------------
________________
श्रेष्ठिदेवचन्द्रलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्कः १ कलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यकृतम्
श्रीवीतरागस्तोत्रम् श्रीप्रभानन्दकृतविवरण-श्रीविशालराजकृतावचूरिसमेतम्
प्रसिद्धकर्ता-नगीनभाई-घेलाभाई-जव्हेरी-एकः कार्यवाहका इदं पुस्तकं मुम्बय्यां शाह नगीनभाई-घेलाभाई-जव्हेरीबजार इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां २३ तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् ।
प्रति ५... वीर सव्वत् २४३७. विक्रम संवत् १९६७. ईस्वी १९९९.
वेतनम् ८ आणकाः
Page #2
--------------------------------------------------------------------------
________________
वी. स्तोत्र
॥ १ ॥
Jain Education
श्रीवीतराग स्तोत्रस्योपक्रमः ॥
सकलैहिकामुष्मिकहितकृद्धितकारकपुन्नागनिर्मितास्तोक श्लोकास्पदातीन्द्रियेतरपदार्थसार्थस्वरूपाविर्भावक लोकोत्तरीयग्रन्थतत्यवधारणपीनबुद्धिप्राग्भाराणाम् सकर्णानां नासमाकर्णितमेतद्यदुत यस्य कस्यापि मतस्य सौष्ठवमितरच्च तदीयागमस्तोमावगमेनैवागम्यते, तत एव यतोऽभिमन्तव्यपदार्थानां तथ्येतरत्वविचारणासरण्यवतारोऽत एव चावाप्ताखिललोकालोकगताशेषपदार्थसार्थावलोकनप्रत्यलसमस्तज्ञानावरणीय समूलकार्षकपणप्रभवप्रभूतप्रभुतास्पद केवला अपि श्रीमदकलङ्काराध्यपादाः श्रीसर्वज्ञाः प्रकटयामासुः प्रकटप्रभावात्यस्तमित कुमतततातनु कर्मप्रवेक विस्तारकप्रवादैः श्रीमद्गणधरैरुदयप्रक्षिप्तगणभृत्कर्मभिर्ज्ञानचतुष्टयपीयूष पूरान्तःकरणैरुपपन्ने इवा विगमे इवा धुवे इवेत्यनन्यसाधारण निश्शेषवस्तुत्रजावस्थिताबाध्यधर्मदर्शनपटीयोवच स्त्रितयरत्नत्रय समाखण्डज्योतिद्वारेण द्वादशाङ्गीतीर्थ सकलसुरासुरनरेश्वरगणोपकारक्षमं विद्वद्वृन्दनमस्यम् । तच्च यावदपश्चिमपूर्वभृच्छ्रीमद्देवर्द्धिगणिक्षमाश्रमणमपश्चिमानुपमातिशयसाम्राज्य सार्वभौमहिमवदाविर्भूतभागीरथीद्वादशाङ्गीतीर्थान्तरगतमपूर्वचमत्कार चिन्तामणिरोहणायमानमासीदसाधारण मनीषाधारणलब्ध्युपेतमुनिगणधौरेयघृतं पुस्तकगणमृत एव परं प्रेक्ष्यावसर्पिणी प्रभावहसद्धीगणम्
उपक्रमः
॥ १ ॥
jainelibrary.org
Page #3
--------------------------------------------------------------------------
________________
ROSASARAMIRECRUCIROMC0
मुनिगणमुपकारकरणपटवः पूज्यपादाः सम्मील्याचार्यपञ्चशतीं वर्तमानागमरत्नरत्नाकरोपमां सौराष्ट्रराष्ट्रराजमानायां तत्त्वज्ञानश्रीवलभ्यां वलभ्या-15 मुद्भावयामासुः शासनं विशसितप्रबलकर्मबलकेतनं पुस्तकारूढं सिद्धान्ततया सर्वसम्मताविसंवादमतीयम्; तदारत एव चासंयममयासंयतसंसारपारावारवर्धनमपि संयमवर्धनतयोपकरोति पुस्तकवृन्दमर्हाणामहमहच्छासननभोङ्गणतारारूपाणां मुनिवराणाम् ; स्पष्टितं च स्पष्टमेतत्स्पष्टतमबोधकिरणैर्युगप्रधानप्रवरैः श्रीमत्तत्त्वार्थदीपनप्रदीप्रप्रदीपोषमतत्त्वार्थसार्वदिकसाधुकल्पकल्पनकल्पबृहत्कल्पप्रभृतिषु परमार्थपथप्रधानावधारणैरन्यथा तु नाभविष्यदेव सकलजन्तुजातासाधारणसातवितरणविज्ञपारमार्थिकतत्त्वप्रधानासाधारणाचरणावगमनज्योतिरन्तरा विवेकचक्षुरुद्घाटनमैदंयुगीनानां दुप्पमासमयोद्भूतानेकवाचालकुतीर्थिकवाचालितदिगन्तरालानुपलभ्यदिगवलोकानाम् , तदन्तरेण च कथङ्कारमभविष्यत्सदाचारसौ|धसोपानारोहोऽप्यारूढानार्यजनप्रबलासङ्गजातप्रबलानार्याचारप्रभावेऽत्र युगे धर्मजिघृक्षाप्यास्तां तावद्दूरादेवानवगतद्रव्यभावानुकम्पाप्रथनप्रत्यलधर्ममार्गकामस्नेहदृष्टिरागमदिरोन्मत्त विहितानेकदुर्गमविघ्नसरित्प्लवोत्तरणाधिगतशमसाम्राज्यसाधनसावधानसर्वसङ्गपरित्यागमहावताङ्गीकारादिवि
धानं स्याद्भवेयुश्चारम्भपरिग्रहासक्तपबलमिथ्यात्वमोहमदिराविह्वलान्तःकरणाविरतिराक्षसीजग्धजीवस्वरूपरमणतासत्तत्त्वा एव मुनय इति शासहनोन्मूलनमित्यलम् प्रसक्तानुप्रसङ्गेन; विरचिताश्च वीतरागचरणसरोजकिञ्जल्कमधुकराभैः श्रीवस्तुपाल, कुमारपाल, साधुपेथडादि
भिरनेके कोशा ज्ञानयुतिद्युतिकोशा इव भव्याजोद्बोधिनो वीतरागमतानूनमहिमासरिच्छ्रोतःप्रभवपृथ्वीधरायमानाः, परञ्च हुण्डाव| सर्पिणीपञ्चमाररजनीरजनीचरायमाणदुष्टम्लेच्छादिभूमिपैरज्ञानतत्यवष्टब्धहृदयैर्यत्याभासैः श्रावकामासैश्च, तत्त्वातत्त्वविवेचनविमुखताखीकृत
पुस्तकद्रव्यविनाशिता ज्वालिताः, क्षिप्ता जलेऽतनुप्रवाहे, चिता भित्तौ, हीनाचारैर्नीताश्च हानिम् स्खीयानाचारोपद्रवरक्षणबद्धबुद्धिभिस्तथाच |शेषाः शेषीभूता एवोद्भावयन्ति शासनोद्भावनामसमप्रभावनाम्, तत्रापि निःस्सत्त्वाद्देशस्य, अतिहसीयस्त्वाद्धर्मबुद्धेः, परायणत्वान्मानगिर्यारोहे,
भव्याजोद्बोधिनो वीतरागमतः श्रावकामासैश्च, तत्त्वातत्त्वावरणबद्धबुद्धिभिस्तथाच
KASASSASSASSIC
Jan Education
For Private
Personel Use Only
Page #4
--------------------------------------------------------------------------
________________
C
उपक्रमः
वी.स्तोत्र
॥२॥
अनवबुद्धत्वात्तत्त्वातत्त्वमार्गस्य, पलायितप्रायत्वाज्ज्ञानस्य, व्याप्तत्वादनार्यभाषारुचेः, तुन्दपरिमृजबहुलत्वाल्लोकानाम्, संस्कारहीनत्वान्मतेः, अरुचेः संस्कृतभाषायाः, पूत्कारप्रायत्वगणनावतारित्वात्प्राकृतग्रन्थानामराजभाषात्वादार्यभाषाया अनार्यभाषाया अविरतत्वान्नराणाम् , जेमनवारविस्तारितजयपताकित्वाज्जनानाम्, वायशब्दवाचालितत्वाद्यशसः, चन्द्रोदयाद्युपकरणकरणमात्रोत्तीर्णमतिप्राम्भारत्वाद्रुचिमताम्, गौर्ज- यद्यपभ्रंशभाषाप्रधानत्वात्पूजाकारणप्रवणोपदेशकानाम् , विरलतमीभूतान्येवाधुना सिद्धान्तसाधनसिद्धान्तपुस्तकानि, नातःपरं विज्ञानामस्ति विषादपदमन्यजगत्रयेपि परमवलोक्यैतद्विवेकविलोचनेन स्थापयामास गुर्जरदेशीयश्रीसुरतपत्तनीयगुलाबचन्द्राख्यो देवचन्द्रतनुजोऽविगीतसिद्धान्तप्रसाधनपटुप्रसाधितज्ञानदिवाकरश्रीमद्गणभृत्प्रभृतिसकलवाङ्मयवितानविस्तारणलब्धावतारः, खवतृदेवचन्द्रपादव्यवस्थापितसप्ततिसहस्रमानम्मव्यवस्थायां पुस्तकप्रसारणप्रवणान् शेषानपराँस्तत्कार्यवाहकाञ् जीवनचन्द्र, नगीनचन्द्रादीन्पुरस्कृत्य व्यवस्थाम् , तत्र चानेकतरगूढतत्त्वप्रकाशनप्रभाकरसिद्धान्तलेखनव्यवस्थां सतीमप्यनादृत्याल्पपुस्तकप्रसारमात्रजायमानबहुद्रव्यव्ययां शटिति पुस्तकप्रसरणप्रगुणां मुद्रणकलां | मुख्यतयाधिचकार; भगिन्याश्च खीयाया विद्युन्मत्या द्रव्यं तत्र सम्मील्य समानीय च कलान्तरोपार्जितं चान्यविणजातं पूरितं लक्षोन्मितं लक्ष्यं लक्षणविदा, तत्र चादितो मङ्गलाचरणमिव शिष्टानां परममङ्गलभूतमिदमुपचक्रमे मुदितुम् , ज्ञानधनैः साधुभिः संशोध्येति प्रस्ताव्य व्यवस्थाम् प्रस्ताव्यतेऽधुना प्रक्रान्तो ग्रन्थः, कर्तृश्रोत्रधिकारप्रमाणादिभिः । ___ तत्रावधीयतां तावदवधारणाधीधनैरिदम् , यदुत विधातारोऽस्य विहितनिर्वीराधनमोचनाष्टादशदेशामारिपटहलब्धाकल्पस्थायियशःशरीराः, सार्धत्रिकोटिग्रन्थप्रथनलक्षितसर्वज्ञावतारत्ववितीर्णकलिकालसर्वज्ञविरुदाः, अनवद्यचातुर्विद्यविधानख्यातब्रह्मातिगप्रभावाऽष्टादशदेशाधिपतिकुमारपालक्ष्मापालबोधनस्मारितसातिशयमुनिगणाः श्रीमन्तो भगवन्तो हेमचन्द्राचार्याः, तुच्छं चेदं यद्यागृणन्त्यलब्धतन्माहात्म्याब्धिमध्याः
ACARECORRECOREOGARCANESCR
Jan Education
For Private
Personal use only
Page #5
--------------------------------------------------------------------------
________________
Jain Education In
| सार्वत्रिकोटिग्रन्थग्रथनासम्भवमिति पाठमात्रग्रन्थग्रथनपटीयस्त्वात्तेषाम् श्रूयत उपलक्ष्यते लेखककुण्डस्थानादिविलोकनेन स्पष्टतरं विदुषामरक्तद्विष्टानां चैतत् सूरिप्रवराश्चैते कदा कतमं भूमण्डलं मण्डयामासुः, कदा च सूर्यास्तमयेनेव रजनीप्रचारमवाप सूरिवरास्तमयेन कुमतध्वान्तततिविस्तृतिम्, कस्मै च योग्यतमाय पुरुषोत्तमाय विधायैनमर्पयामासुः कश्चाधिकारोऽत्र विद्वद्वृन्दवेद्य आत्मकल्याणजनक इति प्रवृत्तायां विचारणायाम्, निर्णीयते तावत्स्पष्टं स्पष्टितत्वात्कुमारपाल भूपालः प्राप्नोतु फलमीप्सितमिति श्रीमद्विहितादेवैतदीयश्लोकात्कुमारपाल - क्ष्मापालसमकालीनत्वम् । कुमारपाल भूपालानेहाश्च गुर्जरभूपपट्टावल्यादिविलोकनतो निश्चीयते वैक्रमीयद्वादशशतीयो यतो विक्रमसंवत्न्नवनवत्यधिकैकादशशतमिते राज्याभिषेकस्त्रिंशदधिकद्वादशशतके च तस्य खर्गम इति । तथाच सूरिपादसमयोऽप्येष एव । खचरणन्यासपावितभूमण्डलनिर्णयोप्यत एव सम्यक्तया जायत एव, यतः पुण्यतमजननिवास तिरस्कृतविबुधालयविबुधालयं श्रीमत्पत्तनपुरमणहिलोपपदमभूत्परमा| र्हतानां राजर्षिपदव्यलङ्कृतानां श्रीकुमारपालभूपानाम् राज्यस्थानम्, तथा च प्रायेण श्रीमतां गुर्जरधरित्र्यामेव विहारस्तत्रत्यागण्यपुण्यपूरप्लावितान्तःकरणानामेव च परस्परविरोधदुर्गन्धभृद्वाणीवाचकसुरगुरुतिरस्कारि भारतीप्राग्भारभूषितवदनमलयनिःसृताविरुद्धपरमागमोदितिश्रवणभाग्यमभूदिति, वास्तव्याश्चैते तत्रभवन्तो भगवन्तो गार्हस्थ्ये गुर्जरीयधन्धुकाख्य एव ग्रामे, एतत्प्रभृतिकं सविस्तरं वृत्तान्तमुपलभ्य श्रीमतां कुमारपालप्रबन्धादिति स्पष्टमेव चोपरिष्टान्निःशङ्कित श्लोकोत्तरार्धविचारणेन प्रकटीभविष्यति यदुत श्रीकुमारपालपावनप्राधान्येन प्रणीतिरस्य, किंवदन्ती 'चेयं तत्र तदनुसारिण्येव च भणितिरवचूर्णिकाराणामपि वीतरागस्तोत्राणां श्रीविशालराजप्रभ्रूणामवचूर्णै; यदुतार्हतधर्मप्राप्तिकालादर्वाक् राजर्षिभिः कृतमभूत् यन्मांसभक्षणं, समयसद्भावे चावगतेऽवबुद्धम् "चउहिं ठाणेहिं नेरइयाउत्ताए कम्मं पगरे" इत्याद्यवगमाद्यवसरे जाताश्चासमप्रगुणपश्चात्तापभाजनं भूपालमौलिमणिलालितपादपीठा राजर्षयो याचितवन्तश्च परमगुरवे प्रायश्चित्तप्रतिपत्तिम्, श्रीमद्गुरुभि
inelibrary.org
Page #6
--------------------------------------------------------------------------
________________
वी. स्तोत्र
॥३॥
Jain Education
श्वावसरोचितं द्वात्रिंशद्दशन भक्षितत्वान्मांसस्य तच्छुद्धये तावन्मिता एवान्वर्थाः समर्पिताः प्रकाशास्तत्र द्वादश तावद्योगशास्त्रीया विंशतिश्चैतदीयाः प्रतिदिनमभ्यस्यैव च ते दन्तान्तःकरणशोधनं प्रकाशानां द्वात्रिंशं व्यधासीषुर्भोजनं चक्रुश्चैतेषां यथार्थमभिधां प्रकाशानां, सन्ति चैत एतद्विधा एव, यथावज्ज्ञानं चैषामेतद्विधत्वस्य भवेद्यथावत्परिशीलनादेव, परं तत्सिद्धय एवाधिकारदर्शनं निदर्शनमात्रमेव विधीयतेऽस्माभिस्तथा चान्तिमं केऽत्राधिकारा इति प्रश्ननिर्वचनमपि भविष्यति स्पष्टं तत्र ।
प्रथमेतावत्प्रस्तावनास्तवे श्रीमद्वीतरागलक्षणमालक्षयन्तः प्रथमादिसप्तम्यन्तविभक्त्यन्तान्योन्य सम्बद्ध श्लोक कदम्बकदर्शनेन परमदेवानामाराध्यताहेतुभूतं परात्मत्वं परंज्योतिष्मत्त्वं परमपरमेष्ठित्वं तमोविनाश विभाकरत्वं सर्वक्लेशमूलोन्मूलकत्वं सुरासुरनमस्यत्वं पुरुषार्थप्रसाधकाखिलविद्याविर्भावकत्वमतीतानागतवर्त्तमानकालवृत्तिपदार्थसार्थसंविद्धारित्वं विज्ञानानन्दब्रह्मैकात्म्यं च निष्टङ्कय श्रद्धेयध्येयशरण्यनाथवत्स्पृहाकृतार्थकिङ्करवाणीपवित्रतादि च निश्चिक्युर्निर्णयचणाः, दर्शयामासुश्च वीतरागस्तवानां मनुष्य भवफलतां, श्रद्धालूनां विशृङ्खलवाणीवादिनामपि रुचिरताम् ॥ १ ॥ द्वितीयस्मिन्सहजातिशयस्तवे, श्रीमज्जिनानामतिशयचतुष्कं निरदेशि निर्देशप्रधानैर्देहस्य तेषां नैर्मल्यसौगन्ध्यनीरोगताखेदराहित्यानि, रुधिरामिषश्चैत्यं, श्वाससौरभ्यमाहारनीहारविध्यदृश्यत्वं चेति निबन्धनेन ॥ २ ॥
तृतीये च सर्वाभिमुख्यं पर्पत्समावेशं वचनैक्यं साम्रयोजनशतगत गदनाशकत्वमीतिविद्रावकत्वं वैरविलापकत्वं निर्मारित्वमतिवृष्टचनावृष्टिखपरचक्रभीदुर्भिक्षभेत्तृत्वं भामण्डलवत्त्वमित्येवं कर्मकक्षोन्मूलन जातैकादशातिशयवर्णनम् ॥ ३ ॥
चतुर्थे तु सुरकृतामेकोनविंशतिमतिशयानां व्यावर्णयन्तः पुरतश्चक्राभिसरणमिन्द्रध्वजोच्छ्रयं पङ्कजपादन्यासं चतुरास्यत्वं प्राकारत्रितयपरिंग| तत्वं कण्टकार्वाङ्मुख्यमवस्थितकेशरोमनखश्मश्रुतां विषयाप्रातिकूल्यं समकालमशेषर्त्तुसद्भावं सुगन्ध्युदकवृष्टिं पक्षिमादक्षिण्यं वाय्वानुकूल्यं
66
उपक्रमः
॥ ३ ॥
jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
GLISSEASOPISY
वृक्षाग्राभिनति कोटिसुरासुरसेव्यत्वं प्रकटयामासुश्छत्रत्रयं सपादपीठं मृगेन्द्रासनं पुप्पवृष्टिं दुन्दुभि चैत्यद्रुमं चमरवीज्यमानतां चाग्रतः प्रातिहार्यस्तवे आविर्भावयिष्यन्तीत्युपेक्षितमिदं षटुमिति मन्ये ॥ ४ ॥ ___पञ्चमे प्रातिहार्यस्तवेऽशोकवृक्षसुरपुष्पवृष्टिदिव्यध्वनिदुन्दुभ्यातपत्रत्रयीचामरसिंहासनभामण्डलान्याख्यन् ख्यातकीर्तयो भावार्हन्त्यचिह्न| भूतानि ॥५॥ । षष्ठे प्रतिपक्षनिरासस्तवे परमदेवे माध्यस्थ्यमपि दौःस्थ्यनिबन्धनतया निवेद्य प्रतिपक्षस्य रागादिमत्त्वं, परेषां योगमुद्रारहितानां त्रातृत्वाभावं मलीमसाचारमुपस्थादिविकारवत्तां चाख्याय रागादिनियुक्तानां देवत्वासम्भवं समाचचक्षिरे विचक्षणाः ॥ ६॥ ___ सप्तमे जगत्कर्तृत्वनिरासस्तवे निष्कर्मत्वेनाङ्गवदनवक्तृत्वशास्तृत्वाभाव ईश्वरस्य, सदेहत्वेऽपि च न विधाता क्रीडाकृपान्यतराभावाहुःखादि|विधानादकृपता कर्मजन्ये वैचित्र्ये च नार्थवत्ता, खभावस्तु निःसत्ताक एवोत्तरे, ज्ञातृत्वरूपकर्तृत्वे च केवलिनां सयोगायोगभिन्नत्वाद्भगवतां न विवादः, शासनसाम्राज्यान्तर्वर्तिनां च नेयं व्याबाधा लेशतोऽपीति प्रतिपादितं सुनिर्णीतसिद्धान्ततत्त्वप्रतिपादनपरैः ॥ ७ ॥
अष्टमेऽनेकान्तप्रकरणस्तवे वस्तुजातस्यानेकान्तमुद्रान्तर्वतित्वं तदभावे कृतनाशाकृतागमौ अनिवायौं समवतरतः, आत्मनि तु सर्वथा नित्यानित्यतया खीक्रियमाणे पुण्यपापयोरभोगो बन्धमोक्षयोरनुपपत्तिश्च, घटादेरपि क्षणिकाक्षणिकैकान्तेऽर्थक्रियाभावो वस्तुसत्ताबाधकः क्रमयोगपद्याभ्यामभिमतोनेकान्तश्चानुभवसिद्धो वस्तुखरूपस्थापको निराबाध इति प्रदर्श्य निरदेशि योगसाङ्ख्यबौद्धलक्षणवादिनाम् शकुन्तपोतन्यायादने-15 कान्ताभ्युपगन्तृत्वं यथास्थितागमनिदेशप्रधानरुन्मत्तगदितो विरोधश्चानेकान्तीयो यस्तं गुडनागरभेषजमेचकादिसकलविश्वविदितवस्तुदृष्टान्तबले-1 न निराकृत्य दुग्धदधिगोरसदृष्टान्तेन वस्तुव्रजस्य निरणैपुरुत्पादव्ययध्रौव्यरूपतां निरूपिताकलङ्कितज्ञानपुरुषसकलितागमाः ॥ ८॥ ___ नवमे कलिप्रशंसास्तवेऽल्पकाललभ्यफलत्वाद्दुर्लभकृपालाभात् श्राद्धश्रोतृसुधीवक्तृसंयोगायुगान्तरस्यापि बहूच्छृङ्खलकत्वात्कल्याणपरीक्षाप्रव
SALAAMGADCOMSAROSAROKAR
Jain Educat
i
onal
For Private & Personel Use Only
Silmww.jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
वी.स्तोत्र
उपक्रमः
॥४॥
ANSARAMGARLSAROKAR
णत्वात् निशादिषु दीपादिवढुर्लभत्वत्पादाजसेवालब्धेरपरयुगाप्राप्तत्वदर्शनाधिगतेर्विषहरत्वच्छासनमणिप्राप्तेः कल्याणकरः कालरुपश्लोकित इति | कलिविद्वद्वन्दवन्द्यैः ॥९॥ | दशमेऽद्भुतस्तवे सप्रकाशं प्रकाशयामासुः शासनसतत्त्वप्रकाशका वीतरागाणां भगवतां खेश्वरप्रसत्यन्योन्याश्रयभिदां सहस्राक्षानिरीक्ष्यरूप
वत्तां सहस्रजिह्वावर्णनीयगुणवत्तां लवसप्तमादिनिर्जरसन्देहापहारितामानन्दसुखसक्तिविरक्क्योरुपेक्षोपकारित्वयोः परमनिर्ग्रन्थसार्वभौमत्वयोरेका|धिकरणनिवेशं नारकामोदकत्वं शमरूपकृपाद्भुतत्वं चेत्यधिप्रकाशम् ॥ १०॥ | एकादशेऽचिन्त्यमहिमस्तवेऽचिन्त्यबुद्धिप्राग्भारा अचिन्त्यगुणगणवतां निजगदुररागे मुक्तिभोगमद्वेषे द्विषद्घातं, निर्जिगीषभीतभीतत्वे जगत्रयजयं, दानादानाभावेपि प्रभुतामौदासीन्येऽपि देहदानानुपाय॑सुकृतसङ्गति, भीमकान्तगुणवत्त्वेन साम्राज्यसाधनेऽपि विगतरागद्वेषतां, देवत्वेपि सकलगुणनिलयतां, महीयसां महत्तां महनीयतां महात्मनां गुणावहां यथार्थतया ॥ ११ ॥ ___ द्वादशे वैराग्यस्तवे आजन्मवैराग्यवत्तां सुखकारणविषयकवैराग्यवत्तां विवेकशातनिबन्धनमोक्षस्थितवैराग्यतां नित्यविरक्ततां मरुन्नरेन्द्रश्युप-18 भोगकालरत्यभावं सुखदुःखभवमोक्षविषयकौदासीन्यं परतीर्थिकाभ्युपगताराध्याङ्गीकृतदुःखगर्भमोहगर्भानालीढज्ञानगर्भसगर्भतां सततसम्यगौदासीन्येपि विश्वविश्वोपकारितां चाविश्चक्रुः कोविदचक्रचूडामणयः ॥ १२ ॥ । त्रयोदशे हेतुनिरासस्तवे (विरोधस्तवे) अनाहूतः सहायोऽकारणो वत्सलोऽनभ्यर्थितः साधुरसम्बन्धो बान्धवोऽनक्तःखिग्धोऽमृष्ट उज्ज्वलोऽ-81 धौतोऽमलशीलोऽचण्डो वीरवृत्तिः, शमी समवृत्तिः कर्मकुटिलकण्टककुट्टकोऽभवो महेशोऽगदो नारायणोऽराजसो ब्रह्मानुक्षितः फलोदग्रोऽनिपातो गरीयानसङ्कल्पितः कल्पद्रुरसङ्गो जनेशो, निर्ममः कृपात्मा, मध्यस्थो जगत्राताऽगोपितो रत्ननिधिरवृतः कल्पोऽचिन्त्यश्चिन्तामणिनिखिलेपि जगति नान्यो वीतरागाद्भवतोऽपर इति प्राचख्युः प्रख्यातख्यातयो महात्मानः ॥ १३ ॥
For Private & Personel Use Only
ainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
चतुर्दशे योगसिद्धिस्तवे श्वथत्वेन मनोवाकायचेष्टासमाहारान्मनःशल्यवियोगः, करणानां संवरप्रचाराभावेन जयोऽष्टाङ्गयोगस बाल्यात्सात्मीभावश्चिरपरिचितेषु विषयेषु विरागः, योगेऽदृष्टेपि लोलीभावो हिंसकानामुपकार आश्रितानामुपेक्षापकारिणि तथा रागो यथा न परेषामुपकारिणि सुख्यहं दुःख्यहं वेति ज्ञानाभावकृत्समाधिर्ध्याता ध्यानं ध्येयमित्येतत्रयस्यैक्यमिति च विलक्षणमहिमा जगद्गुरूणामेवेति जगदुः सूरयः ॥१४॥ ___ पञ्चदशे भक्तिस्तवे उदात्तशान्तमुद्रया जगत्रयीजयस्त्वदनङ्गीकारः चिन्तामणिच्यवं सुधावैयर्थं करोति विपर्यस्तमतीनां, त्वयि यो धारयति 8| रूक्षा दृष्टिं तं न चेदन्तरा तत्रभवदुपदिष्टा कृपा स्यादवक्ष्यत् साक्षाद्भूय कृशानुः भस्मसात्करोत्विति, त्वदविरुद्धशासनापरहिंसाद्यहितकर्मप
थोपदेशप्रवणशासनयोः साम्यं स्यात्तेषामेव येषाममृतविषयोस्तत् , त्वदपलापिनामनेडमूकता श्रेयस्करी, मन्दयायिताया उन्मार्गप्रवृत्तस्य श्रेयस्त्वात् , तत्रभवच्छासनामृतरससिक्तानां नमस्कार्यता, त्वच्चरणपूता भूरपि भव्यभावुकलम्भयित्रीति नमोऽस्तु तस्यायपि, त्वद्गुणमकरन्दपानल-2 म्पटत्वेन प्रशस्तं मे जनुर्ज्ञानादिधनलब्धा कृतकृत्यश्चास्म्यहमिति भक्तिविस्मितमानसा मीमांसितवन्तो मीमांसामांसलम् ॥ १५ ॥ ___ पोडशे आत्मगर्हास्तवेऽविगर्हितात्मानः समाहितात्मनां स्मरणीयां समाचख्युरेकतः परमगुरुप्रणीतप्रवचनपीयूषपानोद्गता परमपथप्रवीणतान्य| तश्चानादिकालीना रागद्वेषावेगजाता मूर्छा, रागगरलमूर्छितानामवाच्यकर्मकारिता, क्षणं सक्तो मुक्तः क्रुद्धः क्षमीत्यसाधारणा कारिता कपिचेष्टा मोहमदिरया, प्राप्यापि बोधि मनोवाकायदुश्चेष्टान्वितः, त्वच्छरणगतोऽप्यभिभूये मोहादिभिरपहारेण दुर्लभलाभरत्नत्रितयस्य, त्वमेव तारको मम इति लमोऽस्मि भवत्पादयोस्त्वत्प्रसादलब्धेयती भूमिर्मयेदानी मोपेक्षिष्ठाः, कृपापरस्त्वं पात्रं चासाधारणं कृपाया अहं, त्वमतो भव युक्तानुष्ठानप्रेरक इति ॥ १६ ॥ ___ सप्तदशे शरणस्तवे कृतखकृतदुष्कृतगर्हासुकृतानुमोदनः शरणं यामि, भवतु मिथ्यादुष्कृतं मनोवाकायजानां कृतादिभेदानां दुष्कृतानामपुनः
AARRRRRRRR
in Education
na
jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
वी.स्तोत्र
उपक्रमः
॥
५
| क्रियान्वितं रत्नत्रितयगोचरमनुमन्येऽहं सुकृतमर्हदादीनामहत्त्वादिकमनुमोदयामि, त्वां त्वत्फलभूतान्सिद्धाँस्त्वच्छासनरतान्मुनींस्त्वच्छासनं च
शरणं प्रपद्ये, सर्वान्सत्त्वान्क्षमयामि क्षाम्यन्तु च तेऽस्तु च मैत्री तेषु आपरमपदावाप्तेर्भव शरणं ममेति तेनुः शरणक्रियामतथामवितथवादाः॥१७॥ ____ अष्टादशे कठोरस्तवे शेषापरदेवलक्षण्यं क्रोधलोभभयाक्रान्तजगद्वैलक्षण्यमेव प्रभोर्लक्षणं कृतलक्षणा निरचैषुः कृतलक्षणतया परं नैतत्संसा| रकाचकामलिपरिगतानामसुमतामायाति यथार्ह श्रद्धानगोचरे विना सम्यक्त्वाञ्जनम् ॥ १८ ॥ ___ एकोनविंशे आज्ञास्तवे पालनमेवाज्ञाया भगवड्यानं निःश्रेयसकर निग्रहानुग्रहकर्तृणां परेषां वर्धिन्येव संसारारण्यस्याज्ञा, विगतरागाणामारा
धनम् अचिन्त्यमण्यादितो भवत्येवाभीष्टदं, सपर्याया अपि पराज्ञाराधना, तदाराधनविराधननिबन्धनत्वान्निर्वाणानिर्वाणयोः, सा चाश्रवसंवरयोहे| योपादेयतारूपैव, तदाराधकाश्च निर्वाणपथनिभृता अभूवन्भवन्ति भविष्यन्ति ॥ १९॥
विंशे आशीःस्तवे च त्वत्पादरजःकणा निवसन्तां मूर्ध्नि, मम दृशौ क्षालयेतां मलमनहेक्षणभवं, लुठनैरस्तु किणावलिः प्रायश्चित्तमसेव्यप्रणामस्य, रोमाञ्चकण्टका असद्दर्शनवासनां तुदन्तु, त्वदास्यपीयूषपानादस्तु मदीयलोचनाम्भोजानां निर्निमेषता, नेत्रे त्वदीयवदनलासिनी, करौ त्वदुपा| स्तितत्परौ, श्रोत्रे त्वद्गुणग्रहणपरे भवतः सदा, खस्त्यस्त्वेतस्यै वाण्यै या तत्रभवद्गुणावगाहप्रत्यग्रोमिति खीक्रियख यद्दासः प्रेष्यः सेवकः किङ्करोऽहन्ते इति, इत्येवमनूनप्रतिभाप्राग्भारवर्णनातिगं जगद्गुरुं वर्णयामासुस्तत्रभवन्तोऽत्रेति विज्ञायते ॥ २० ॥
एतत्पर्यवसाने यदुत न लब्धचरा आदर्शा अस्यानेके न च शुद्धाः परमावश्यकं श्रद्धापीयूषपीनानां श्राद्धानामेतस्य पठनमिति मुद्रणोपक्रमोद्भव आगसि मिथ्यादुष्कृतं प्रार्थयते सकलश्रमणसङ्घसेवकः आनन्दाब्धिरस्तु च लेखकपाठकमुद्रापकाध्येतृणां श्रेयो निःश्रेयसपर्यवसानं |बोधिबीजावाप्तिद्वारेति । सिन्ध्वृत्वकेन्दुमानेऽब्दे, (१९६७) पौषे मास्यसिते दले । पञ्चम्यां सुरतद्रङ्गे, श्रेयसेऽस्तु लिपीकृतः ।
Jain Education S
eal
For Private & Personel Use Only
ainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
वीतरागस्तोत्रस्यानुक्रमः।
....
....
विषयाङ्कः श्रीवीतरागस्तोत्रस्योपक्रमः १. प्रस्तावनास्तवः ..... .... २. सहजातिशयवर्णनस्तवः .... ३. कर्मक्षयजातिशयवर्णनस्तवः ४. सुरकृतातिशयवर्णनप्रकाशः । ५. प्रातिहार्यस्तवः .... .... ६. विपक्षनिरासप्रकाशः ... ७. जगत्कर्तृत्वनिरासप्रकाशः .... ८. एकान्तनिरासस्तवः .... ९. कलि प्रशंसास्तवः.... १०. अद्भुतस्तवः
पृष्ठाकः | विषयाङ्कः ११. अचिन्त्यमहिमस्तवः
सपा ... १२. वैराग्यस्तवः १३. विरोध ( हेतुनिरास ) स्तवः १४. योगसिद्धिस्तवः .... १५. भक्तिस्तवः .... १६. आत्मगस्तिवः १७. शरणस्तवः १८. कठोरस्तवः
१९. आज्ञास्तवः । २०. आशीःस्तवः .... ३८ २१. प्रथमप्रकाशावचूर्णिः
CASSAGARAAAACKS
....
१४
jainelibrary.org
Jain Education
For Private & Personal use only
Cultional
Page #12
--------------------------------------------------------------------------
________________
वी. स्तोत्र
॥ १ ॥
Jain Education
विषयाइः २२. द्वितीयप्रकाशावचूर्णिः
२३. तृतीयप्रकाशावचूर्णि २४. चतुर्थप्रकाशावचूर्णिः २५. पञ्चमप्रकाशावचूर्णिः
२६. षष्ठप्रकाशावचूर्णिः
२७. सप्तमप्रकाशावचूर्णिः
२८. अष्टमप्रकाशावचूर्णि: २९. नवमप्रकाशावचूर्णि :
३०. दशमप्रकाशावचूर्णिः ३१. एकादशप्रकाशावचूर्णिः
....
....
....
....
....
....
****
www.
....
....
....
....
....
www.
....
....
....
....
....
....
....
****
****
....
.....
www.
....
....
....
....
****
....
****
....
....
****
पृष्ठाङ्क:
६५
६६
६८
७०
७१
૭૨
७४
७६
७७
७८
विषयाङ्कः
३२. द्वादशप्रकाशावचूर्णिः
३३. त्रयोदशप्रकाशावचूर्णिः
३४. चतुर्दशप्रकाशावचूर्णिः
....
....
....
३५. पञ्चदशप्रकाशावचूर्णि :
३६. षोडशप्रकाशावचूर्णिः
३७. सप्तदशप्रकाशावचूर्णिः
३८. अष्टादशप्रकाशावचूर्णिः
३९. एकोनविंशतिप्रकाशावचूर्णिः
४०. विंशतितमप्रकाशावचूर्णिः .....
....
....
....
....
****
****
....
****
....
....
....
....
....
****
....
....
....
....
....
....
....
....
....
....
....
....
****
....
पृष्ठाङ्कः अनुक्रमः
७९
८०
८१
८३
८४
८५
८६
८७
८८
jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
Page #14
--------------------------------------------------------------------------
________________
श्रेष्ठी देवचन्द लालभाई जव्हेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रामाब्दे कार्तिक शुक्लैकादश्यां सूर्यपुरे पौषकृष्णतृतीयायाम् मुंबय्याम्
The Late Seth Devchand Lalbhai Javeri.
Born 1853 A D. Surat.
Died 1906 A. D. Bombay.
Jan Education Internal
For Private Personal use only
Page #15
--------------------------------------------------------------------------
________________
श्रीवीतरागस्तोत्रं सविवरणम्। ॐ नमः सर्वज्ञाय ॥ अनंतदर्शनज्ञानवीर्यानंदचतुष्टयं । संस्मृत्य परमात्मानमनाहतमहाश्रियं ॥१॥ अनल्पमतिभिः सा-18 ध्यमल्पधीरपि भक्तितः॥ ब्रुवे विवरणं किंचिद्वीतरागस्तवानुगं ॥२॥ इह हि तथाभव्यत्ववैचित्र्यवशप्रशांतदुरताज्ञानावृतितमःसमुल्लसिताद्भुतप्रतिभात्मदर्शसंक्रांतसमस्तशास्त्रोपनिषद्भिनिरवधिनयविक्रमप्रसिद्धसिद्धाधिपश्रीजयसिंहदेवप्रणय- | प्रपंचिताभिनवशब्दानुशासनैर्विकस्वरविवेकनिस्तंद्रचौलुक्यचंद्रपरमाहतश्रीकुमारपालभूपालमौलिलालितनखमयूखैः प्रवर्ति-| ताद्भुतश्रीजिनराजशासनोन्नतिगलहस्तितातिकलुषदुःषमाकालविलसितैरनन्यसामान्यागण्यप्रभावभूरिभिः श्रीहेमचंद्रसूरिभिर्विरचितेषु समस्तस्तुतिरसरहस्यनिस्पंदपात्रेषु श्रीवीतरागस्तोत्रेषु तावत्प्रथमस्य प्रस्तावनास्तवस्य पदयोजनामात्रमुपक्रम्यते॥
यः परात्मा परंज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥ १॥ सर्वे येनोदमूल्यंत समूलाः क्लेशपादपाः । मूर्धा यस्मै नमस्यंति सुरासुरनरेश्वराः ॥ २॥ प्रावर्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥ ३॥ यस्मिन्विज्ञानमानन्दं ब्रह्म चैकाङ्गतां गतं । स श्रद्धेयः स च ध्येयः प्रपद्ये शरणं च तम् ॥ ४॥ तेन स्यां नाथवाँस्तस्मै स्पृहयेयं समाहितः । ततः कृतार्थो भूयासं भवेयं तस्य किङ्करः ॥ ५॥
Jain Educagar
lona
For Private & Personel Use Only
SONrjainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
वीतराग.
सविवर,
CAMERESCAR
PASARA
॥१॥
तत्र स्तोत्रेण कुर्यां च पवित्रां खां सरस्वतीम् । इदं हि भवकान्तारे जन्मिनां जन्मनः फलम् ॥६॥
अत्राद्यसार्द्धश्लोकत्रयस्य पदानां प्रथमादिसप्तम्यंतविभक्तिप्रथमवचनांतानामुत्तरश्लोकद्वयस्य तदंतैरेव पदैर्यथाक्रम कर्तृकर्मविवक्षया योजनं कार्य । तथाहि ॥परात्मेतिविशेष्यम् पदमतो यः किल परमात्मा परंज्योतिः स श्रद्धेयः। यश्च परमेष्ठिनां परमः स ध्येयः, यं चादित्यवर्ण तमसः परस्तादामनंति तं शरणं प्रपद्ये । येन च समूलाः क्लेशपादपाः समुदमूल्यंत तेन नाथवान् स्यां। यस्मै च सुरासुरनरेश्वराः सरभसं नमस्यंति तस्मै समाहितः स्पृहयेयं । यतश्च पुरुषार्थप्रसाधिका | विद्याः प्रावर्त्तत ततः कृतार्थों भूयासं। यस्य च भवद्भाविभूतभावावभासकृत् ज्ञानं तस्य किंकरो भवेयं । यस्मिंश्च विज्ञानमानंदं ब्रह्म चैकात्मतामुपगतं तस्मिन् स्तोत्रेण स्वां सरस्वतीं पवित्रां कुर्यामिति पदानां परस्परसंबंधः॥
सांप्रतमेतदेव प्रतिपदं व्याख्यायते तत्र परश्चासावात्मा च परात्मा परत्वं चास्य देहात्मांतरात्मापेक्षं, यतः कैश्चिदुपयोगलक्षणमनादिनिधनपौद्गलिकत्वेन रूपातीतं तथाविधसामग्रीसाकल्यात् शुभाशुभरूपस्य कर्मणः कारभुदयप्राप्तस्य तस्यैव च भोक्तारमत एवैतल्लक्षणविलक्षणादेहादर्थांतरभूतमविसंवादिप्रमाणप्रतिष्ठितमप्यात्मतत्त्वं महामोहोपहतमतित्वेनामन्यमानैः पिष्टादिद्रव्ययोगान्मदशक्तिमिवाचेतनमहद्भूतसंपर्काच्चेतनत्वमुद्भाव्य देहस्यैवात्मत्वमुपकल्प्यते अतः स देहात्मा । यथा च देहातिरिक्तस्यात्मनः सत्प्रमाणप्रतिष्ठितत्वं तथा पुरस्तादष्टमप्रकाशे प्रकाशयिष्यते । अंतरात्मा च ज्ञानावरणादिकर्मनिर्मथितमाहात्म्यः शरीरी संसारिजीवः । एतयोश्च वक्ष्यमाणविशेषणगणासहत्वेन प्रकृतानुपयोगित्वमतः परशब्दोपादानं । परात्मा च विगलितसकलकर्मपटलः सम्यसिद्धज्ञानदर्शनानंदवीर्यलक्षणानंतचतुष्टयः शिवमचलमपुनर्भवं परम
R
Cरल.
॥
१
॥
En
For Private 3 Personal Use Only
jainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
Jain Education
पदमध्यासीनो ज्ञानदर्शनोपयुक्तः केवलात्मैव । सांप्रतं स एवं विशिष्यते किंविशिष्टः परात्मेत्याह । परंज्योतिः । अप्रति| पातित्वेन लोकालोकप्रकाशकत्वेन (च) परं सर्वोत्कृष्टं चित्स्वरूपं ज्योतिर्यस्येति ज्योतिज्र्ज्योतिष्मतोरभेदात्स एव परंज्योतिः, परत्वं चास्य मतिश्रुतावधिमनःपर्यायलक्षणचिदंशचतुष्टयापेक्षं प्रतिपातित्वेनाल्पविषयत्वेन मत्यादीनामनीदृशत्वात् । यदि वा रवींदुविद्युन्मणिप्रमुखे निखिलेऽपि ज्योतिर्वर्गे यः परमुत्कृष्टं ज्योतिरिति । यश्चैवंविधः परात्मा स श्रद्धेयः श्रद्धाविषयमवतारणीय इत्युत्तरपदेन योगः । किमुक्तंभवति । किल यद्यप्यघातितघातिकर्मणां भवस्थितानां परज्योतीरूपस्यात्मनः साक्षात्करणमनुपपन्नं तथापि प्रक्षीणघातिकर्मणामर्हदादीनामध्यक्षे तस्मिंस्तत्प्रत्ययेनैव श्रद्धा विधेयैव । नचानुपकृतपरानुग्रहकृतां क्षीणरागद्वेपमोहानामर्हदादीनां वितथवादित्वमतः किमश्रद्धेयं परमात्मनः । पुनः परमरहस्यभूतं परमात्मानमेव विशिनष्टि । परमः परमेष्ठिनां । परमे चिदानंदरूपे ब्रह्मणि तिष्ठतीति परमेष्ठिनस्ते चार्हदाचार्योपाध्यायसाधव एव तेषां मध्ये परमः प्रकृष्टः सिद्धरूपो यः परमेष्ठी अर्हदादिपरमेष्ठिचतुष्टयस्य चामुक्ततावस्थामधिकृत्य सिद्धस्य पंचपरमेष्ठिनः परमत्वं । मुक्तास्तु सर्वेऽप्येकरूपा एव । सचैवंविधः परमात्मा भगवांस्तदेकतानमनोभिर्थ्येयस्तत्स्वरूपाप्तये । सततमनुस्मरणीय इति उत्तरपदेन संबंधः । प्रथमांतं पदमभिधाय द्वितीयांतमाह ॥
यं च परमात्मानमणिमाद्यष्टमहासिद्धिप्रसिद्धमहसो मुनयोऽध्यामनंति तत्स्वरूपोपलब्धये संततमभ्यस्यंति । किंभूतं तमसः परस्ताद्वर्त्तमानं तमांसि निकाचितानि कर्माणि विमलकेवलालोकेन च तेषां पारे प्रतिष्ठितं सत्वरजस्तमोगुणत्रया| तीतमित्यर्थः । तमहमेवंरूपं परमात्मानं दुर्वारांतरारिपरित्याजितात्मशक्तिः शरणं प्रपद्ये इत्युत्तरेण योगः । पुनः किंविशि
1
tional
jainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
वीतराग.
॥ २ ॥
Jain Education
।
ष्टमादित्यवर्ण आदित्यस्य प्रभापतेरिव वर्णः शोभा यस्य स तथा तं । अत्राह परः । ननु परिमितक्षेत्र प्रकाशनमहसा मिहिरेण लोकालोकप्रकाशनप्रवणपरमज्योतीरूपस्य परमात्मनः साम्यमनुपपन्नं । तथाचागमः । चंदाइच्चगहाणं पहा पयासेइ परिमियं खेत्तं । केवलियनाणलंभो लोयालोयं पयासेइ इति । आचार्यः । साधु भो सहृदय हृदयंगममभिदधासि | केवलं सकलेऽपि कलावत्प्रमुखे तेजस्विवर्गे विगणयद्भिरस्माभिर्भानोरेव किमपि तदुपमानलवलाभ संभावनास्पदत्वमुप| लब्धं इत्यादित्यवर्णमित्यभिहितं तत्त्वतस्तु सुमेरुपरमाण्वोरिव महदंतरं परमात्मद्वादशात्ममहसोरिति । आदित्योऽपि निरस्ततमस्त्वेन तमसः परस्ताद्भवति । तृतीयांतं पदमाह ॥
येन च भगवता परमात्मना क्लेशपादपाः सर्वेप्युदमूल्यंत । “अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः” । तत्र “ अनित्याशुचिदुःखानात्मसु मिथ्याज्ञानमविद्या” “दुर्धराहंकारवशात्सर्वत्रास्मीति भावोऽस्मिता” “मनोज्ञेषु शब्दादिष्वात्मनो गाढाभिष्वंगो रागः " । " तेष्वेवामनोज्ञेषु भृशमप्रीतिविशेषो द्वेषः” । “अतस्त्वेऽपीदमित्थमेवेत्येकांताग्रहग्रहिलताभिनिवेशः " । उपलक्षणं चैतदन्यासामपि घातिकर्मोत्तरप्रकृतीनां । एते च संसृत्यामात्मनोऽनादिसंबंधवशाद्बद्धमूलाः प्रदर्शिततत्तद्विकारप्ररोहसंहतयः, स्फुरदाध्यात्मिकाधिभौतिकाधिदैविकवेदनोदयप्रसूनसंततयः, प्रकाशितामुष्मिक दुर्गदुर्गतिदुःखफलपटलाः,
१ पातञ्जले त्वेवं सूत्राणि ( अविद्यास्मितारागद्वेषाभिनिवेशा: पंच क्लेशाः । २-३ । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर| विद्या । २-५ दृग्दर्शनशक्तयोरेकात्मतेवास्मिता । २-६ । सुखानुशयी रागः । २-७ । दुःखानुशयी द्वेषः । २-८ । खरसवाही विदुषोऽपि तथाऽऽरूढोऽभिनिवेशः । २-९ । २ अध्यात्ममधिभूतमधिदैवञ्च । ७ । ( त्रिविधं दुःखम् ) ।
सविवर.
॥ २ ॥
jainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
Jain Education In
पादपा इव पादपाः । ते च संगत्यागादा केवलोत्पत्ति त्रिजगदप्रतिमलहस्तिमल्लेन येन भगवता दुस्तपतपोंदोलनेन चलाचलतामापाद्य शुक्लध्यानसमुदंड शुंडाम्रेडनेन समूला: सहेलमुन्मूलितास्तेन त्रिजगन्नाथेनाहमपि नाथवान् स्यां भवेयमित्युत्तरेण योगः । येनासौ ममालब्धानां ज्ञानादिगुणानां लंभनेन तेषामेव लब्धानां परिपालनात्ताननुगृह्णाति ॥ चतुर्थ्यतं पदमाह ॥ मूर्ध्ना यस्मै नमस्यंति सुरासुरनरेश्वराः ।
यस्मै समूलोन्मूलितक्लेशपादपाय भगवते सुरासुरनरेश्वरा देवदानवमानवपतयः सकलक्लेशजालोच्छित्तिनिमित्तं मूर्ध्ना उत्तमांगेन सरभसं नमस्यति । तस्मै त्रिभुवनसनातनगुरवे समाहितस्तदेकतानमानसोऽहमपि स्पृहयेयं स्पृहामावहामीत्युत्तरेण संबंधः । इदमुक्तं भवति । किल यद्यपि सुरासुरेश्वरादिवत् प्रत्यक्षार्हत्प्रणामादिसामग्री दुःषमासमयसमुद्भूतस्य ममासंभाविनी तथापि " मनोरथानामगतिर्न विद्यते " इति न्यायात् स्पृहामात्रमपि तावद्धारयामि येन सदभ्यस्ततया भवांतरेऽपि संस्कारोऽयमनुवर्त्तत इति । पंचम्यतं पदमाह ॥ प्रावर्तत यतो विद्याः पुरुषार्थप्रसाधिकाः ॥
यतो यस्मात्सर्वविदः परमपुरुषात्पुरुषार्थानां धर्मार्थकाममोक्षलक्षणानां प्रसाधिकास्तदुपायोपदर्शिन्यो विद्याः शब्दविद्यादिकाः प्रावर्त्तत प्रादुरासन् । यतो द्वादशांगीमूलनीवीमुत्पादादित्रिपदीं तदुचितेषु भगवान् स्वयमुदीरयति । नच द्वादशांगीव्यतिरिक्तमन्यदपि विद्यांगमस्तीत्यतः समस्तविद्यानां भगवानेव प्रभवः । अत एव ततस्तस्मात्परमपुरुषानुध्यानादहमपि पुमर्थोपलब्ध्या कृतार्थः कृतकृत्यो भूयासमित्युत्तरेण योगः । पुरुषार्थोपायोपलब्ध्या च कृतकृत्यता समीचीनैवेति । षष्ठयंतं पदमाह ॥ यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥
ainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
SUSHOROSCORRECASION
यस्य भगवतः परमात्मनो घातिकर्मणामात्यंतिकक्षयादुत्पन्नं ज्ञानं देशकालस्वभावविप्रक(रनंतमत एव भवद्भाविभूतभावावभासकृत् वर्तमानानागतातीतपदार्थसार्थप्रकटनपटिष्ठं । तस्यैवंभूतस्याहं किंकरो भवेयमित्युत्तरेण योगः। अत्रायमाशयः। किलास्मिन् जगति यस्य विसंवादित्वेनानैकांतिकोऽष्टांगनिमित्तमात्रावभासनपरो ज्ञानांशः स्यात् सोऽपि तदर्थ-13. भिः प्रेष्यैरिव प्रतिक्षणमुपास्यते । यस्य च भगवतः प्रागुपवर्णितस्वरूपं ज्ञानं तस्य किंकरत्वमनुत्तरसुरा अपि कुर्युः किमंग मादृशोऽगभागिति । सप्तम्यंतं पदमाह ॥ यस्मिन् विज्ञानमानन्दं ब्रह्म चैकांगतां गतं ॥
यस्मिंश्च भगवति परमपरमेष्ठिनि । विज्ञानमानंदं ब्रह्म चैकात्मतां गतं ॥ तत्र मत्यादिज्ञानेभ्यः क्षायिकत्वेनाप्रतिपातित्वेनानंतद्रव्यपर्यायगोचरत्वेन च विशिष्टं केवलालोकलक्षणं ज्ञानम्, आनंदं चात्मनः कदाप्यलब्धपूर्वस्वरूपलाभसमुद्भवमित|रकारणकलापनिरपेक्षमनुपाधिमधुरमक्षयमात्यंतिकं सुखमेव, ब्रह्म च परमं पदं, यदा च भवोपग्राहिकर्मपारवश्यादद्यापि है भवस्थः केवली भवति तदास्मिन् भगवति केवलिनि विज्ञानमानंदं च वर्त्तते । अयं च परमपदं गमिष्यतीत्यात्मविज्ञानानंदब्रह्मणां मिथः पृथग्भावःस्यादेव । शैलेश्यनंतरं च सकलकर्माशप्रक्षयादक्षयं पदमुपेयुष्यस्मिन् विज्ञानमानंदं ब्रह्म चैकात्मतां याति स एव परमात्मा स एव विज्ञानं स एवानंदः स एव परमब्रह्मत्यभिन्नभावतां भजते । अतस्तत्र तस्मिन् पूर्वोपवर्णितस्वरूपे परमात्मनि स्तोत्रेण यथार्थवादेनाहं स्वामात्मीयां सरस्वती वाणी पवित्रां पावनी कुर्या विदध्यामित्युत्तरेण |संबंधः । ननु किमस्याः प्रथमं किमप्यपूतत्वमस्तीत्युच्यते । स्वकर्मपरिणामेनाभ्यावृत्त्या भवे बंभ्रम्यमाणानां प्रबलज्ञानावरणोदयाद्विशिष्टचित्तचैतन्यशून्यानामसुलभैव कवित्ववक्तृत्वसरसा सरस्वती, यदा च तथाभव्यत्ववैचित्र्यात्संघटितापि
॥३॥
Jain Education le
For Private
Personal Use Only
Kirainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
भवाभिनंदिनां सुरनरादीनामसद्भूतगुणोद्भावनेनात्मानं मलिनयति, तदा परमात्मप्रभृतिस्तुत्यवर्गस्तुतिप्रयोगमंतरेण किमन्यदघमर्षणमस्यास्ततः स्तोत्रेणेत्युक्तं । किं चास्मिन् भवकांतारे संसारारण्ये जन्मिनां सत्क्षेत्राोकादशागीसंगतस्य जन्मनोऽवतारस्यापीदं सद्भूतं वस्तुतत्त्वोद्भावनमेव फलं ॥ सांप्रतं स्तुतिकृद्वीतरागस्तवविधानेऽसमर्थताप्रथनेनात्मनो निरहंकारता-* मुद्भावयन्नाह ॥
वाहं पशोरपि पशुर्वीतरागस्तवः क्व च ॥ उत्तितीर्घररण्यानी पद्भ्यां पंगुरिवारम्यतः ॥ ७॥ क्वशब्दो महदंतरे क्वतावदहं । किंविशिष्टः पशोरपि पशुः। किल यथावस्थितवीतरागत्वस्वरूपोद्भावनपरस्तुतिसंदर्भ छद्मस्थाः सकलवाङ्मयपारावारपारदृश्वानोऽपि पशव इव पशवः । अहं त्वैदंयुगीनकतिपयग्रंथार्थमात्रव्यापृतमतिस्तेभ्योऽप्यतिहीनत्वेन पशोरपि पशुः।कच कायवाङ्मनसामगोचरचरित्रस्यात एव वास्तोष्पतिस्तोमैरपि यथावत् स्तोतुमशक्यस्य भगवतः श्रीवीतरागस्य स्तवः । अतो यत्पशोरपि पशुरहं वीतरागस्तोत्रं चिकीर्षुस्तत्पंगुरिव महदरण्यं पद्भ्यामुत्तरीतुमिच्छुरस्मि ।
किमुक्तं भवति-यथा पंगोः पद्भ्यामरण्यानीपरपारगमनमसुकरमेवं ममापि परमात्मस्तुतिग्रथनमिति ॥ यद्येवं किमात्मशत्तयहननुरूपेणानेनैवोपक्रमेणेत्याह ।
तथापि श्रद्धामुग्धोहं नोपालभ्यः स्खलन्नपि ॥ विशृंखलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥ ८॥ तथाप्येवं सत्यहमस्मिन् वीतरागस्तवाध्वन्यध्वनीनतामाकलयन्नविकलसामर्थ्यशून्यः स्थाने २ स्खलन्नपि विमलमतिभिनोंपालभ्यः। यतः परमात्मप्रतिबद्धस्तुतिश्रद्धया मुग्धः शक्याशक्यार्थविचारचातुर्यवर्जितः, एवंविधस्य च श्रद्दधानस्य
Jain Education !
Kamldana
For Private & Personel Use Only
jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
वीतराग.
निरुपाधिश्रद्धावंधबंधुरांतःकरणस्य वाग्वृत्तिर्वचनपद्धतिर्विशृंखलापि पूर्वापरविसंवादविसंस्थुलापि भक्तिव्यक्तरेकात्मतया
कासविवर. शोभते बालालापचापलमिव कौतुकं च जनयतीति समंजसं ॥
इति वीतरागस्तोत्रे प्रथमस्य प्रस्तावनास्तवस्य पदद्योजना ॥
सांप्रतं स्तुतिकृत्प्रस्तावनास्तवोपवर्णितस्य परमात्मनो भावाहल्लक्षणां प्रागवस्थामधिकृत्य चतुस्त्रिंशदतिशयान् प्रकाशचतुष्टयेन विभणिषुर्द्धितीयप्रकाशे चतुरः सहजातिशयान प्रस्तावयन्नादौ सकलनरशरीरविलक्षणं भगवतः शरीरातिशयं श्लोकचतुष्टयेनाह ॥ | प्रियंगुस्फटिकस्वर्णपद्मरागांजनप्रभः। प्रभो तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥ १॥
हे प्रभो विश्वस्वामिन्नासतां तावत्तव शरच्छशधरकरनिकरानुकारिणो गुणास्त्रिजगद्विलक्षणाहलक्षणापास्तसमस्तप्रत्यपायः कायोऽपि कमिव नाक्षिपेत् अविज्ञाततत्त्वस्यापि प्रथममक्षिसंनिपातेनैव कस्य नाम नाद्भुतरसवासितमंतःकरणं कुर्यादपि तु सर्वस्यापि विदध्यादेव । किंविशिष्टः प्रियंगुस्फटिकस्वर्णपद्मरागांजनप्रभः प्रियंगुश्च स्फटिकं च स्वर्णं च पद्म
रागश्चांजनं चेत्यादिद्वंद्वः । तत्र प्रियंगुः फलिनीलता । स्फटिक रवींदुकांत। स्वर्ण चामीकरं। पद्मरागः शोणमणिः । अंजनं द कज्जलं । तस्येव प्रभा यस्य स तथा । भवंति हि तथाविधनामकर्मवैचिच्याद्भगवतामहतामंगेषु पंचापि वर्णास्ततः सर्वेषा
Jain Education
For Private Personal Use Only
Kirainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
मुपादानं । पुनः किंविशिष्टः अधौतशुचिरप्रक्षालितनिर्मलः किल सलिलादिप्रक्षालनेनाशुचीन्यपि वपूंषि क्षणमालोक(कल)| 18 यति शुचितां । भगवतस्त्वंगे निसर्गसिद्धं नर्मल्यं । एवंविधस्य कायः । कस्य नाम न लोचनलोभनं विदध्यादिति ॥ | मंदारदामवन्नित्यमवासितसुगंधिनि ॥ तवांगे गतां यांति नेत्राणि सुरयोषितां ॥२॥
हे भुवनभूषण सुरयोषितां नेत्राणि गतां यांति त्वच्छरीरेऽमरकुरंगलोचनालोचनानि भ्रमरविभ्रमं धारयति । कथंभूते नित्यमवासितसुगंधिनि घनसारागरुमृगमदमलयजादिगंधद्रव्यैरवासितेऽपि स्वभावसुरभिण्यत एव नित्यपदोपादानं। ४ (उपाधिजनितो हि वासः कतिपयकालकलावसाने विलीयत एव, भगवदंगं तु निसर्गतः सौरभ्यसुभगं। अत्रोपमामाह । मंदाशारदामवत् अंगे कस्मिन्निव मंदारदामनीव । एतदुक्तं भवति। सुरतरुसुमनःस्रजि पुष्पंधयधोरणयः संसृजते । एवमर्हच्छरीरे | |सुरसीमंतिनीनयनानि । अमररमणीनयनक्षोभभणनाच्च मर्त्यपातालललनालोचनक्षोभः सामर्थ्यलभ्य एव भगवद्देह इति ॥
दिव्यामृतरसास्वादपोषप्रतिहता इव ॥ समाविशंति ते नाथ नांगे रोगोरुगबजाः ॥३॥ | हेविहितदुतमन्मथप्रमाथ नाथ तवांगे रोगोरुगनजान समाविशंति। तत्र रोगा राजयक्ष्मादयस्त एव निर्झरहेतुत्वेन दुर्वा
रदारुणवेदनोत्पादकत्वेन च उरगा इव उरगास्तेषां व्रजाः समूहा अष्टोत्तरशतसंख्यत्वादामयानामतस्ते तवांगे तव वपुषि न द समाविशति न प्रविशति। किंविशिष्टा इव दिव्यत्यादि दिव्योऽमानवो योऽसावमृतरसः पीयूषद्वस्तस्यास्वादः पानं तस्मात्पोषः
सीहित्यं तेन प्रतिहता इव गलहस्तिता इव । इदमत्रहृदयं। तथास्वभावादेव भवे भगवतामहेतामंगान्यशेषव्याधिवैधुयस्थिते स्तुतिकृदुत्प्रेक्षते । किल बाल्ये जननीस्तन्यपानानधिकारित्वेन यत्तेषां करांगुष्ठे अमर्त्यपतयः पीयूषरसं संचारयति । तत्पान-18
SCIEOCOCCCCCESCECAUSEOCECA
SCRED
Jain Education
For Private Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
वीतराग.
॥ ५ ॥
Jain Education
प्रतिहता इव न तदंगे रोगभुजंगमाः समाविशंति । समुचितश्चामृतपानादामयाशीविषविषविकारविश्लेष इति ॥ तथा ॥ त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके ॥ क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ॥ ४ ॥
हे भगवंस्त्वद्वपुषस्तवातुल्यकल्याणगेहस्य देहस्य क्षरत्स्वेदविलीनत्वकथापि कुतः। तथाविधतरणितापादिसंपर्कतः क्षरत्स्यंदमानो यः स्वेदो घर्मजलं तस्माद्विलीनत्वं पिच्छलत्वं तस्यास्तां तावदनुभवः कथापि वार्त्तापि कुतः सर्वथैवासंभविनीत्यर्थः ॥ कथंभूते त्वयीत्याह । आदर्शतलालीनप्रतिमाप्रतिरूपके आदर्शो दर्पणस्तस्य तलं मध्यं तस्मिन्नालीना प्रतिबिंबिता या प्रतिमा देहच्छंदस्तत्प्रतिरूपके तदनुकारिणि । किमुक्तं भवति । यथा मुकुरसंक्रांतस्य रूपस्य भीष्मग्रीष्मादिसानिध्येपि स्वेदविलीनत्वं न स्यादेवं निसर्गत एव भगवदंग इति । एवं च प्रियंगुस्फटिकेत्यादिना निरुपचिताद्भुतरूपत्वं, मंदारदामेत्यनेन स्वभावसुरभित्वं दिव्यामृतेत्यनेन निसर्गनीरोगत्वं त्वय्यादर्शेत्यनेन स्वाभाविकस्वेदमलोन्मुक्तत्वमभिदधानेन स्तुतिकृता श्लोकचतुष्टयेन भगवतः सहजातिशयेषु प्रथमो देहातिशयः प्रोक्तः । सांप्रतं श्लोकद्वयेन द्वितीयं सहजातिशयमाह ॥
न केवलं रागमुक्तं वीतराग मनस्तव ॥ वपुः स्थितं रक्तमपि क्षीरधारासहोदरं ॥ ५ ॥
हे वीतराग भगवंस्तत्र वीतराग इत्यन्वर्थेन नाम्नैव यशः पटहघोषेणेव सर्वत्र निरंकुशं प्रसर्पता मनसो गतरागत्वं सुप्रसिद्धमेव केवलं न खलु तव मनोऽतःकरणमेव रागमुक्तं विषयाभिष्वंगरहितं किंतु वपुः स्थितं देहांतर्गतं रक्तं शोणितमपि रागमुक्तं लौहित्योज्झितमत एव क्षीरधारासहोदरं मुग्धदुग्धप्लवप्रतिमं । इयमत्रभावना । सहजातिशयमहिम्नैव भगवद्वपुषि क्षीरधाराघवलं शोणितं, परं रागनिग्रहाग्रहिणं विगणय्यैव भगवंतमंतश्चकितेनेव किल रक्तेन रागस्तत्यज इति ॥
सविवर. =
॥ ५ ॥
ainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
Jain Education
जगद्विलक्षणं किंवा तवान्यद्वक्तुमीश्महे ॥ यदविश्रमवीभत्सं शुभ्रं मांसमपि प्रभो ॥ ६ ॥
प्रभो भुवनाधिनाथ भगवंस्तव जगद्विलक्षणं जगदसामान्यमन्यद्रूपलवणिमबल कला कौशलदानध्यानज्ञानादिकं गुणगणं वयं स्तोतारः संभूयोपि किं कियन्मात्रं वा वक्तुं वर्णयितुमीश्महे समर्था भवामः । यद्यस्मात्त्वदेहधातुषु यन्मांसं पिशितं तदपि जगद्विलक्षणं । तथाहि मांसं विश्रं बीभत्सं लोहितं च भवति । तव तु तदप्यविश्रमदुर्गंधि परमपरिमलाढ्यमवीभत्सम जुगुप्सनीयं शुभ्रं डिंडीरपिंडपांडुरमतस्तव देहधातवोऽपि यदि जगदसामान्यास्तत्किमिवान्यलोकोत्तरं (न) भविष्यतीतिभावः ॥ तृतीयं सहजातिशयमाह ॥
जलस्थलसमुद्भूताः संत्यज्य सुमनःस्रजः ॥ तव निःश्वाससौरभ्यमनुयांति मधुत्रताः ॥ ७ ॥
जगदप्रमेयमहिमन् स्वामिंस्तव निःश्वाससौरभ्यं मुखानिलपरिमलं मधुव्रताः षट्पदाः समंततोऽनुयांति सरभसमनुसरंति । यदि पुनस्तत्र प्रसृत्वरपरिमलललितमन्यद्वस्तु जातं भविष्यतीत्याह । संत्यज्य विहाय । काः सुमनः स्रजः प्रसूनमालाः । किंविशिष्टा जलस्थलसमुद्भूता जले स्थले च प्रादुर्भूताः, तत्र पुंडरीककमलकुवलयकुमुदाद्याः सलिलसमुद्भूतास्तिलकचंपकाशोक केतकवकुलमालतीपाटलाद्याश्च स्थलसमुत्थाः । नच परिमलविशेष विचारे चंचरीकेभ्योप्यपरे चंचुरास्ततस्तेपि यदि सुमनःस्रजः संत्यज्य त्वन्मुखामोदमनुसरति ततस्तस्यैव समस्त परिमलाढ्य वस्तुषु परभाग इति । अत्र च ग्रथितान्येव कुसुमानि पृथग्शब्दाभिधेयानि तथाप्यत्यंतसंहतत्वेन सुमनसां स्रज इव स्रज इत्यदोषः ॥ चतुर्थ सहजातिशयमाह ॥
jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
वीतराग.
॥ ६ ॥
Jain Education
लोकोत्तरचमत्कारकरी तव भवस्थितिः ॥ यतो नाहारनीहारौ गोचरश्चर्मचक्षुषां ॥ ८ ॥
सर्वाद्भुतनिधान भगवंस्तवाखिलकर्मक्लेशजालसमूलोन्मूलनादपुनर्भवस्थितिस्तावच्चमत्कारकारिण्येव किंतु सकललोकसाधारणी भवस्थितिरपि लोकोत्तरचमत्कारकरी अलौकिकाश्चर्यकारिणी, यतो जन्मनः प्रभृति निर्वृतिपदप्राप्तिपर्यंतं तवाहारनीहारौ चर्मचक्षुषां विशिष्टज्ञानलोचनशून्यानां न गोचरो न विषयः न केनापि चर्मचक्षुषा तवाहारनीहारौ | दृश्येते इति । अत्र च नाहारनीहारौ गोचरौ चर्मचक्षुषामितिप्राप्ते विशिष्टबंध चारुत्वनिमित्तमाविष्टलिंगत्वात् विभिन्नवच| नतेत्यदोषः । इयता च "देहं विमलसुअंधं आमयपस्सेयवज्जियं रूवं । रुहिरं गोखीराभं निव्विस्सं पंडुरं मंसं । आहारानीहारा। अदिस्सा मंसचक्खुणो सययं । नीसासो अ सुअंधो जम्मप्पभिई गुणा ए " ॥ इत्यादिऋषिभाषितस्य संवादः ॥ वीतरागस्तोत्रे द्वितीयस्य सहजातिशयवर्णनस्तवस्य पदयोजना |
एवं स्तुतिकृत् स्वामिनः सहजातिशयानभिधाय सांप्रतं तस्यैव सर्वविरतिप्रतिपत्तेरनंतरं तीव्रतरतपः पवनप्रवृद्धदुर्द्धरशुक्रुध्यानधनंजय भस्मीकृताशेषघातिकर्मे धनस्य सद्यः समुद्भूतानेकादशातिशयांस्तृतीयप्रकाशेनाह ॥
सर्वाभिमुख्यतो नाथ तीर्थकृन्नामकर्मजात् । सर्वथा संमुखीनस्त्वमानंदयसि यत्प्रजाः ॥ १ ॥ प्रणयप्रणमदमरनाथ नाथ यदेतदेतद्वक्तुमुपक्रांतं स एप सकलोऽपि तवैव योगसाम्राज्यमहिमेति कुलकप्रांत्येन श्लोकेन संबंधः । किं तदित्याह ॥ यत्त्वं सर्वथा संमुखीनो विश्वविसृत्वरेण केवलालोकरोचिषा सर्वतो मुखस्तिर्यगून रामरादि
सविवर.
॥ ६॥
jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
लक्षणाः प्रजाः प्रतिक्षणमानंदयसि परमानंदमेदुरांतःकरणाः करोषि । कुतःपुनरिदं सर्वतोमुखत्वं प्रभोरित्याह । तीर्थकृन्नामकर्मजात् परमाहत्यसहचरितात्सर्वाभिमुख्यतः सर्वाभिमुख्यत्वातिशयात् । अयमाशयः । किल सुप्रभूणां स्वाभिमुख्यमगण्यपुण्यप्राप्यं, तच्च तथाविधशुभसंभारवशोद्भवमपि द्वित्राणां पंचषाणां वा भवति । त्वं तु युगपत्कोटिसंख्याः अपि तिर्यगनरामरादिकाः पितेव स्वाः प्रजाः समदृष्टया शश्वदानंदयसीत्यहो तव योगसाम्राज्यमहिमेति । अत्र केचित्सर्वाभिमुख्यतां भगवतो देशनावसरचतुर्मुखतामाहुस्तस्याश्च सुरकृतातिशयेषु पुरस्ताद्भणिष्यमाणत्वात् कर्मक्षयातिशयेष्वमीषु भणनं न संगतिमंगति ॥ तथा ॥ | यद्योजनप्रमाणेऽपि धर्मदेशनसद्मनि ॥ संमांति कोटिशस्तिर्यग्नदेवाः सपरिच्छदाः ॥२॥
धर्मः सर्वदेशसंयमलक्षणो दशद्वादशभेदः सम्यग् दिश्यते यत्र तद्धर्मदेशनसा । तच्च भगवतः सुरासुरजनितं त्रिभुवनाभरणं समवसरणमेव, तस्मिंश्च यत्तिर्यक्नरामरा युगपत्संमांति परस्पराबाधेन सुखं निषीदंति, यदि पुनस्ते स्वल्पा एव भविष्यतीत्याह कोटिशः कोटिसंख्याः। तावतोऽपि कदाचिदेहमात्रसहाया एव स्युरित्याह । सपरिच्छदाः सपरीवाराः स्वस्वपरीवारोपेताः, तर्हि देशनासझ योजनशतादिविस्तीर्ण भविष्यतीत्याह । योजनप्रमाणेऽपि गव्यूतिद्वयमात्रविस्तारे । यच्चैतावत्यपि कोटिसंख्याः सपरीवाराश्च तिर्यग्नरामरा युगपन्निरावाधं संमांति । स सकलोऽपि तवैव योगसमृद्धिसमुदय इति । किंच॥
Jain Educat
Page #28
--------------------------------------------------------------------------
________________
सविवर.
वीतराग.
तेषामेव स्वस्वभाषापरिणाममनोहरं ॥ अप्येकरूपं वचनं यत्ते धर्मावबोधकृत् ॥ ३॥ हेविश्वजनीन यत्ते तव वचनं धर्मावबोधकृत् धर्मसंबोधकारणं, केषां तेषामेव समवसरणोपनतानां तिर्यग्नरामराणां । किंविशिष्टं स्वस्वभाषापरिणाममनोहरं तेषां तिर्यग्नरादीनां या स्वा स्वा आत्मीयात्मीया भाषा जात्यनुगुणा तद्रूपेण यत्परिणमनं परिणामस्तेन मनोहरं हृदयहारि । पठति। "देवा दैवीं नरा नारी शवराश्चापि शाबरी। तिर्यंचोऽपि हि तैरश्चीं मेनिरे भगवगिरमिति"। यद्येवं भगवद्वचनमपि तावद्रूपं भविष्यतीत्याह । अप्येकरूपं एकरूपं पंचत्रिंशद्गुणोपेतमर्धमागधस्वरूपमपि । यच्चैवंविधनायोजनविसर्पिणा सर्वभाषापरिणतेनैकरूपेणापि वचनेन युगपत्सर्वतिर्यग्नरामराणां धर्मावबोधकृत्तत्तवैव योगसमृद्धिविलसितमिति ॥ अन्यच्च ॥
साग्रेऽपि योजनशते पूर्वोत्पन्ना गदांबुदाः॥ यदंजसा विलीयंते त्वद्विहारानिलोमिभिः॥४॥ ___ गदा रोगास्त एव प्रथममणवोऽपि तथाविधसामग्रीसंघटनात्मसमरा अंबुदा इवांबुदास्ते तव विहारस्त्वद्विहारः स एवाहा प्रतिबद्धत्वेनानिल इवानिलस्तदुर्मिभिरंजसा सामस्त्येन यद्विलीयंते विलयं यांति । कालावधिमाह । किंविशिष्टा गदांबुदाः
पूर्वोत्पन्ना भगवद्विहारात्प्रथममुद्भूताः । इदमुक्तं भवति । भगवद्विहारेण वर्षार्द्धात्प्रथमोत्पन्ना व्याधयो विधूयंते वर्षार्द्ध दूच यावन्नवीना न प्रभवंति । क्षेत्रावधिमाह ॥ साग्रेऽपि योजनशत इति सह अग्रेण वर्तत इति सायं तच्च तद्योजनशतं|च पंचविंशत्यधिक योजनशत इत्यैदंपर्यात् । समुचितश्चानिलोमिभिरंबुदविलयो यच्चैतदेवं तत्तवैव योगसमृद्धिविनँ-18 भितमिति ॥ किंच॥
AURRECRUARRECRUGRECRUCHC
॥
७
॥
Jain Education
a
l
For Private & Personel Use Only
Hellainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
SHOCALCRECIRCREAMICROSOSong
81 नाविर्भवंति यद्भूमौ मूषकाः शलभाः शुकाः ॥ क्षणेन क्षितिपक्षिप्ता अनीतय इवेतयः ॥ ५॥
साग्रेऽपि योजनशते इत्यनुवर्तते। यच्चैतावति क्षेत्रे त्वयि विहरति भूमावीतयो नाविर्भवंति न प्रादुर्भवंति । किंरूपा इत्याह । मूषकाः शलभाः शुकाः मूषकशलभशुकरूपाः सकलशस्यसंपद्विलोपनप्रवणाः।का इव अनीतय इव। यथा क्षितिपेन धर्मविजयिना राज्ञा क्षणेनोत्पत्तिसमनंतरमेव क्षिप्ताः पर्यस्ता अनीतयोऽधर्माचरणानि भूमौ नाविर्भवंति तद्वद्भुवनबांधवविहारादीतय इत्यहो त्वद्योगगरिमा ॥
स्त्रीक्षेत्रपद्रादिभवो यद्वैराग्निः प्रशाम्यति ॥ तत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले॥६॥ __यच्चास्मिन् भुवस्तले त्वयि विहरति योजनशतांतर्वैराग्निः प्रशाम्यति वैरं विरोधः स एव स्वपरयोरुपतापकारित्वेना|ग्निः, किंविशिष्टः स्त्रीक्षेत्रपद्रादिभवः स्त्रियः कामिन्यः क्षेत्राणि शस्योत्पत्तिभूमयः पद्राणि ग्रामनगरादीनां संनिवेशवसुमत्यः आदिशब्दात् कौटुंबिकादिपरिग्रह एभ्यो भव उत्पत्तिर्यस्य स तथा । भवत्येव स्त्रीप्रभृतिभ्यो रामरावणपांडवकौरवादीनामिव कुलोच्छित्तिनिवंधनो वैरानुबंधः स चैवंविधोऽपि प्रशाम्यति । प्रशमहेतुमाह । त्वत्कृपेत्यादि तव संबंधिनी कृपा त्वत्कृपा सर्वसत्वसाधारणी कारणनिरपेक्षा करुणा सैव जगजंतुजातजीवातुत्वेन पुष्करावर्त इव तस्य वर्षस्तस्मादिव । इदमत्र हृदयं किल काष्ठादिसंघर्षसमुद्भवो ह्यग्निः सामान्यपर्जन्यधारासारमात्रणेवोपशाम्यति । अस्य च दुर्धरवैरानुबंधधनंजयस्य त्वत्कृपापुष्करावर्ताहते क इवान्यः प्रशमोपाय इति । यच्चैतदेवं स तवैव योगसंपत्परभागः॥ अन्यच्च ॥3
Jain Education
a
l
For Private Personel Use Only
Olainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. त्वत्प्रसादे भुवि भ्राम्यत्यशिवोच्छेदडिंडिमे । संभवंति न यन्नाथ नारयो भुवनारयः॥७॥
__हे कृपापाथो नाथ यच्चास्यां भुवि योजनशतं मारयः क्रूरग्रहदुष्टभूतमुद्गलशाकिन्यामयादिजनितान्यकालमरणानि न ॥८॥
संभवंति संभावनामात्रमपि तदीयं नोत्पद्यते । किंविशिष्टा मारयो भुवनारयः भुवनजननिर्निमित्तशत्रवः । क्व सति तव | जगद्विलक्षणाक्षीणशुभलक्षणखनेः प्रभावे माहात्म्ये भ्राम्यति निरंकुशं प्रसरति । कथंभूते अशिवोच्छेदडिंडिमे अकल्या
णनिर्वासनपटुपटहेऽशिवरूपाश्च मारयः इत्ययमपि निरवग्रहस्तवैव योगसमृद्धिगरिमेति ॥ अपरं च ॥ | कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा भवेद्यन्नोपतापकृत् ॥८॥
___ यच्च विमलकेवलालोकभास्वति त्वयि स्वपादप्रचारेणावनितलं पुनाने योजनशतांतरतिवृष्टिर्मात्रातिक्रांतवर्षणमकालवकर्षणं चानावृष्टिः कालेऽप्यवर्षणं वाशब्दादरिष्टवृष्टिश्च न भवेन्न जायेत । किंविशिष्टा उपतापकृत् शस्यौषधिप्रबंधविध्वं-12
सकत्वेन विश्वसंतापकारिणी । व सति त्वयि त्रिजगद्गुरौ लोकानां तदा तु सत्वानां कामवर्षिणि कामानभिलाषान् वर्षतीत्ये-18 वंशीलः कामवर्षी तस्मिन् प्रणयिजनमनःसंकल्पितार्थप्रथनपटीयसि । तथात्वे हेतुमाह । विश्वकवत्सले जगतोऽप्यनुपकृतोपकारिणि । तदेतदतिवृष्ट्यादिस्खलनमपि त्वद्वियोगर्द्धिविलसितमेव ॥ तथा ॥
खराष्ट्रपरराष्ट्रेभ्यो यद् क्षुद्रोपद्रवा द्रुतं ॥ विद्रवंति त्वत्प्रभावात्सिंहनादादिव द्विपाः ॥ ९॥ यच्च सकलमंगलमूलनिलये त्वयि भव्यानुग्रहाय महीं विहरति । योजनशतांतः क्षुद्रोपद्रवाः स्थानभ्रंशधनमित्रप्राणना
RECECORECAUGURUCROCE
॥
८
॥
Jain Education
jainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
Jain Education
| शादयो द्रुतमविलंबितं विद्रवंति त्रस्यति । कुतः पुनस्तेषामुद्भव इत्याह । स्वराष्ट्रपरराष्ट्रेभ्यः स्वं च तद्राष्ट्रं च स्वराष्ट्रं | तस्मादितरत्परराष्ट्रं तेभ्यः अयुक्तलोभसंज्ञेभ्यो भुवि लुप्तमर्यादेभ्यः स्वदेशाधिपतिभ्यो बलाहंकृतिचलितेभ्यः प्रतिबलभूपेभ्य श्वपदे पदे सुलभा एव क्षुद्रोपद्रवाः प्राणिनां । ते च त्वत्प्रभावात्तवाचिंत्यमहिम्नो माहात्म्यात्सत्वरं विलीयंते । अत्रोपमामा| ह । सिंहनादादिव द्विपाः समदमदकलाः सिंहनादाद्विनिंद्रपारींद्ररुद्धगुंजितात्क्षणाद्दिशोदिशतामुपयति तद्वदिति । नचैतदपि त्वद्योगसमृद्धेरपरस्य व्यवसितमिति ॥ अन्यच्च ॥
यत्क्षीयते च दुर्भिक्षं क्षितौ विहरति त्वयि ॥ सर्वाद्भुतप्रभावाढ्ये जंगमे कल्पपादपे ॥ १० ॥
हेजगत्प्रतीक्ष्य क्षितौ क्षोणिमंडले गव्यूतिशतद्वयांतर्यदशेष दुर्गतगणग्रसनराक्षसं दुर्लभा भिक्षाप्यत्रेति व्युत्पत्त्या श्विताभिक्षं दुर्भिक्षं क्षीयते सकलपरगृहपिंडाददुष्कृतैः सह क्षयमुपयाति । क्व सति त्वयि विहरति विहारयोगाज्जगतीतलमलंकुर्वाणे । किंविशिष्ठे कल्पपादपे सुरभूरुहि । यद्येवं कथं तस्य विहारसंभव इत्याह । जंगमे गतागतकृति । पुनः किंविशिष्ठे सर्वाद्भुतप्र भावाढ्ये सर्वेभ्योऽद्भुतः सचासौ प्रभावश्च तेनाढ्ये अदरिद्रे । एतदुक्तं भवति । किल स्थावरोऽपि किल विटपी तथाविध| देवतादिसंनिधानादर्थितसार्थमनोरथप्रथनेन प्रभावाढ्यो भवति । भगवतस्तु सकलैहिकामुष्किसुखलक्षसंघट्टन जंगमकल्पविटपिनः स्थाने सर्वाद्भुतप्रभावाढ्यत्वं । समुचितश्च कल्पपादपप्रचारपुरस्कृतायां भुवि दुर्भिक्षक्षय इत्यहो त्वद्योगोपनिषल्लीलायितं ॥ अपरं च ॥
यन्मूः पश्चिमे भागे जितमार्तंडमंडलं ॥ मा भूद्रपुर्दुरालोकमितीवोत्पिंडितं महः ॥ ११ ॥
Jainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
मयूखमालामिनोऽपि योगसमजयति
हेसकलातिशायिमुनिजनमूर्धन्य यत्तव मूर्ध्नः पश्चिमे भागे उत्तमांगमनु महसां पटलमुन्मीलति । किंविशिष्टं जितमातडमंडलं निजतेजस्तृणीकृतसूर्यांशुमंडलं। भामंडलं च भुवनभर्तु_तिकर्मक्षयसहचरितमपि स्तुतिकृदुत्प्रेक्षते। किल परिमितमयूखमालिनोऽप्यंशुमालिनो मंडलं यथा दुरालोकं दुर्दर्श तथा अनंतविमलकेवलालोकनिलयस्य सकललोकलोचनस्पृहणीयस्य स्वामिनोऽपि वपुरचक्षुष्यं मा भूदिति सुरासुरादिभिरिदं मूर्धानमनु देहस्यैव महोमंडलमुत्पिडितमेकत्र पिंडीकृत्यावस्थापितमित्यहो तव योगसमृद्धेरतिशयः । एवमतिशयानभिधाय प्रकृते योजयति ॥ स एष योगसाम्राज्यमहिमा विश्वविश्रुतः ॥ कर्मक्षयोत्थो भगवान् कस्य नाश्चर्यकारणं ॥१२॥ हेभगवन् स एष पूर्वोपवर्णितस्तव योगसाम्राज्यमहिमा योगो ज्ञानदर्शनचारित्ररूपरत्नत्रयसमवायः स एव त्रिभुवनसनातनसंपदुत्पादकत्वेन साम्राज्यमिव तस्य महिमा स्फूजितं कस्य नाम विचारचातुरीधुरीणस्य प्रेक्षापूर्वकारिणो नाश्चर्यकारणमलौकिकविस्मयहेतुः । नचायं स्वगृहकोणमात्रप्रवृत्त एव किंतु विश्वविश्रुतश्चराचरेऽपि जगति विख्यातः । कुतः पुनरस्याप्रमेयस्य योगमहिम्नः समुत्थानमित्याह । कर्मणां घातिकर्मणां क्षयेनात्यंताभावेनोत्थानं यस्य स तथा न पुनः परपरिगृहीतस्य सदाशिवादेरिव महिम्नस्तस्याप्रमाणिकत्वादिति ॥ न चायमीपत्करः क्षयः कर्मणामित्युपदर्शयन्नाह । अनंतकालप्रचितमनंतमपि सर्वथा ॥ त्वत्तो नान्यः कर्मकक्षमुन्मूलयति मूलतः ॥ १३ ॥
For Private Personal use only
Dirjainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
AR
हे निरुपमशक्तिसंपन्न स्वामिस्त्वत्तस्त्वद्विधात्त्वदनुगृहीताद्वा अन्यो व्यतिरिक्तः कर्मणां ज्ञानावरणादीनां कक्ष मूलोत्तरप्रकृतिजालगहनं क इव मूलादुन्मूलयति । किंविशिष्टं अनंतकालप्रचितं अनंतैः पुद्गलपरावतैरुपचयं नीतं अत एवानंतमपरिमितं कथं सर्वथा सर्वात्मनाऽपुनरुद्भवाय। एवंविधं कर्मकक्षं त्वमिवोदितोन्मूलनोपायः कः समूलोन्मूलयितुमलंभूष्णु-| न कोऽपीति भावः॥
अथ कथमेवमतिमात्रप्रचितस्य भगवता समूलोन्मूलनमकारीत्युपदर्शयन्नाह ॥ तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः ॥ यथानिच्छन्नुपेयस्य परां श्रियमशिश्रियः ॥१४॥ हेसकलसदुपायनिलय भगवस्त्वं तथा तेन लोकोत्तरप्रकारेण कर्मणां क्षयोपाये सम्यक्ज्ञानदर्शनचारित्रासेवनलक्षणे प्रवृत्तः प्रवृत्तिमकापर्यथा परां श्रियमशिश्रियः । कथं प्रवृत्त इत्याह । क्रियासमभिहारतः पौनःपुन्येन नैरंतर्येण । गृहीतमु-17 क्ता हि ज्ञानादयो न खलु स्वसाध्यसाधनायालं, ननु यदि सम्यग्ज्ञानादय एव कर्मक्षयावंध्यसाधनं तत्किं सकृन्निषेविता एव न स्वकार्य कुर्युः येन क्रियासमभिहार इत्युक्तं, उच्यते परिणामप्रकर्षाधीना हि ज्ञानादीनां कर्मक्षयहेतुता, परिणाम|श्च मंदमध्यतीव्रभेदात्रिधा, अतस्तदनुमानेन तदाराधकानां साध्यसिद्धिः। यदवाचि वाचकमुख्येन । “ आराधनास्तु तेषां तिस्रश्च जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिध्यत्याराधकास्तासां” तेषां ज्ञानादीनां मंदमध्यतीव्रपरिणामवशाजघन्यमध्यमोत्कृष्टास्तिस्रः किलाराधनाः अतस्तदाराधका यथाक्रममष्टव्येकैर्जन्मभिः सिध्यंति। एतदुक्तं भवति । मंदपरिणामेन ज्ञानाराधका अष्टभिर्जन्मभिः सिध्यंति, मध्यपरिणामेन जन्मभिस्त्रिभिस्तीव्रपरिणामेनैकेन तेनैव भवेन सि
R ECASSESCREARRIGANGANGANAGARC
Jain Education a
II
l
For Private Personal Use Only
MONy.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
वीतराग.
॥१०॥
Jain Education
ध्यंतीति क्रियासमभिहार इत्युक्तं । अतस्त्वं स्वामिंस्तीत्रशुभाध्यवसायसहचरितस्तथाकर्मक्षयोपाये सम्यग्ज्ञानाद्यासेवने प्रवृत्तिमकृथाः यथाऽक्षेपेणैव परां सर्वोत्कृष्टामनुत्तरसुरादिभिरपि प्रार्थनीयां श्रियं परमार्हत्यलक्षणामशिश्रियः प्राप्तवान् । किं कुर्वन् उपेयस्यानिच्छन्नपि सम्यग्ज्ञानाद्यासेवनं ह्युपायः परमपदलाभस्तूपेयः । अतस्त्वं समे मोक्खे भवे तहा इत्यादि - श्रुतेरुपेयं परमपदमनिच्छन्नप्यप्रार्थयन्नपि कृतकृत्योऽभूरित्यहो तव फलोदयव्यवसायिता ॥ कर्मक्षयात्कृतकृत्यं परमात्मानं स्तुतिकृत्परिणिनंसुराह ॥
मैत्रीपवित्र पात्राय मुदितामोदशालिने ॥ कृपोपेक्षाप्रतीक्षाय तुभ्यं योगात्मने नमः ॥ १५ ॥ हे भगवंस्तुभ्यमेवंविधाय नमोस्तु त्रिकरणशुद्ध्या त्वां प्रणतोऽस्मि । किंविशिष्टाय मैत्रीपवित्रपात्राय पापानि कोपि मा कार्षाद्दुःखितः कोऽपि माभूत् जगदपि दुष्कर्मभ्यो मुच्यतां एवंविधा मतिमैत्री तस्याः पवित्रपात्राय पुण्याश्रयाय । तथा मुदितामोदशालिने निरस्तसमस्तदोषाणां वस्तुतत्त्वावलोकतत्पराणां च गुणेषु यः प्रमोदः सा मुदिता तयाऽ । मोदशालिने सदानंदोपनिषण्णाय । तथा कृपोपेक्षाप्रतीक्षाय दीनार्त्तभीतादिप्राणिगणप्रतीकारानुचिंतनं कृपा नास्तिकनिस्त्रिंशादिनिर्गुणजनमाध्यस्थ्यमुपेक्षा ताभ्यां कृपोपेक्षाभ्यां प्रतीक्षाय जगत्पूज्याय तुभ्यं नमः । कुतः पुनरयं मैत्र्यादियोगप्रकारः प्रभोरभूदित्याह । योगात्मने सिद्धाद्भुतयोगसंपदे । एवंविधाय तुभ्यं त्वत्स्वरूपप्राप्तिनिमित्तमहं प्रणतोऽस्मीति । इति वीतरागस्तोत्रे तृतीयस्य कर्मक्षयजातिशयवर्णनस्तवस्य पदयोजना ॥
सविवर.
॥१०॥
jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
Jain Education
एवं कर्मक्षयजातिशयानभिधाय सुरकृतातिशयांश्चतुर्थप्रकाशे प्रस्तावयन्नाह ॥
मिथ्यादृशां युगांतार्कः सुदृशाममृतांजनं ॥ तिलकं तीर्थकुलक्ष्म्याः पुरश्चकं तवैधते ॥ १ ॥
धर्मचक्रंस्तव धर्मदेशनसदनोपासीनस्य भव्यलोकानुग्रहाय महीं विहरतः पुरः पुरोभागे गगनगतं विचित्रारकराजि - | विराजितं प्रसृमरोल्बणतेजःपटलजटलितांतरिक्ष कुक्षिकुहरं प्रतिहतसमस्तविक्रांतपरमतचक्रं धर्मचक्रमेधते । किंविशिष्टं विभिन्नलिंगनिर्देशान्मिथ्यादृशां युगांतार्कः मिथ्या तर्कार्थदर्शनं प्रति विपरीता इग् विचारो येषां ते मिथ्यादृशः प्रथमगुणस्थानस्थास्तेषामत्यंत दुरालोकत्वेन युगांतार्कः प्रलयकालकरालमार्त्तडमंडलप्रतिमः । तथा सुदृशाममृतांजनं शोभना तत्त्वार्थदर्शिनी इग्येषां ते सुदृशस्तेषां श्रद्धानचक्षुः सविशेष निर्मलीकरणेनामृतांजनं सुधांजनमित्र । तथा तिलकं तीर्थकुलक्ष्म्याः तीर्थ चतुर्वर्णः संघस्तत्कुर्वतीति तीर्थकृतस्तेषां लक्ष्मीः परमार्हत्यसंपत्तस्याः सद्वृत्तत्त्वादिकलितत्वेन तिलकं भालभूपणमिव । एवं धर्मचक्रादयो वक्ष्यमाणातिशयास्तीर्थकृतां न सहभुवो नापि कर्मक्षयजाः किंतु तत्प्रभावप्रेरितैस्त्रिदशैरेव विधीयंत इति ॥ तथा ॥
एकोऽयमेव जगति स्वामीत्याख्यातुमुच्छ्रिता ॥ उच्चैरिंद्रध्वजव्याजात्तर्जनी जंभविद्विषा ॥ २ ॥ किल भगवतामर्हतां विहारादौ सदैव योजनसहस्रोच्छ्रितः कांत कार्त्तस्वरदंडाधारः सुरपथावतरदमरतरंगिणीप्रवाहपेशलः परिसरस्फुरदनेकदिव्यांशुकपताकापरिकरिताक्वणन्मणिकिंकिणीगणारवमुखरिताशेषहरिन्मुखः सुरासुरैः पुरः संचार्यमाणो महेंद्रध्वजः प्रसर्पति । तमेव स्तुतिकृदुत्प्रेक्षते किल नायमिंद्रध्वजः किं त्वस्य व्याजादियं जंभारिणा तर्जनी समुच्छ्रिता ।
ainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. |किमर्थ आख्यातुंकथयितुं । किं तदित्याह यदुतास्मिन् जगत्ययं प्रणयप्रणमदमरनरप्राग्रहरशिरःकिरीटप्रतीष्ठशासनो भगवा
दानहन्नेव स्वामी नान्यः।कथमुच्छ्रिता उच्चैर्जगतोऽपि समक्षं भगवतस्त्वद्वितीयत्वेन एवमुत्प्रेक्षाऽपि स्वभावोक्तिरेवेति ॥ अन्यच्च॥ ॥११॥
यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः॥ किरंति पंकजव्याजाच्छ्रियं पंकजवासिनीं ॥३॥ तीर्थकृतो हि किल केवलोत्पत्तेश्चलनाभ्यामिलातलं न स्पृशति । केवलभमरगणोपतृप्तेषु नवसु कनककमलेषु क्रम न्यासं विदधति । इदमेव स्तुतिकृद्भग्यंतरेणाह ॥ हे भगवन् यत्र यस्मिन् प्रदेशे तव पादौ चरणौ पदमवस्थानं धत्तः कुरुतः तत्र सुरासुरा देवदानवाः श्रियं विकिरति विक्षिपंति । कामित्याह पंकजवासिनी नलिननिलयां । कस्मात्पंकजव्याजात् चामीकरारविंदव्यपदेशात् । भवति च त्रिभुवनलक्ष्मीनिवासस्य भगवतश्चरणन्यासादवनेः सश्रीकतेति ॥ अपरं च ॥
दानशीलतपोभावभेदाद्धमं चतुर्विधं ॥ मन्ये युगपदाख्यातुं चतुर्वक्रोऽभवद्भवान् ॥४॥
भुवनबांधवे हि धर्मोपदेशनिमित्ततः समवसरणममरकल्पितमलंकृत्य मृगेंद्रासनमुपविष्टे प्राङ्मुखे दक्षिणापरोत्तरासु तिसृष्वपि दिक्षु तथास्थितेरेव विरचयंति व्यंतरसुराः स्वामिप्रतिच्छंदानि । इदमेव स्तुतिकृदुत्प्रेक्षते हे भुवनस्वामिन्नहमेवं ६ मन्ये यद्भवानेतदर्थ चतुर्वक्रोऽभवत् । किमर्थमित्याह आख्यातुं कथयितुं किं तद्धर्म प्रथमपुरुषार्थ । किंविशिष्टं चतुविधं चतुःप्रकारं । चातुर्विध्यमेवाह । दानशीलतपोभावनारूपं । नन्वेकरूपोपि भगवांश्चतुर्विधमपि धर्म पर्यायेण प्ररूपय
ति किं चतुर्मुखत्वेनेत्याह । युगपत्समकालं एतच्चतुर्वक्रत्वमंतरेण नोपपद्यत इति ॥ सांप्रतं भगवतः परमार्हत्यप्रभावप्रेपरितैः सुरासुरैः या प्राकारत्रयरचना भत्तया विधीयते तस्या एव स्तुतिकृत् कारणांतरमुद्भावयन्नाह ॥
HEREMIERECTALSOCISM
SCORRECECARELCREALMORACK
॥११॥
Jan Education
For Private
Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Jain Educatio
afe दोषत्रयात्रातुं प्रवृत्ते भुवनत्रयीं । प्राकारत्रितयं चक्रुस्तयोऽपि त्रिदिवौकसः ॥ ५ ॥
हे जगच्छरण्य वैमानिक भुवनाधिपज्योतिः पतिरूपास्त्रयोपि दिवौकसो देवास्त्वामनु प्राकारत्रितयं मणिस्वर्णरजतमयं विरचियां चक्रुः क्व सति त्वय्यतुलबलपराक्रमे भुवनत्रयीं स्वर्गमर्त्यपाताललक्षणां ( तात्) तदुपचाराद्भुवनत्रय गतान् भव्यसत्वान् त्रातुं प्रवृत्ते कृतोपक्रमे सति कस्माद्दोषत्रयात्त्वद्विधादपरेणाजय्याद्रागद्वेषमोहरूपान्न चैकेन प्राकारेण बलवत्तरारातित्रयाक्रांता त्रिजगती युगपत्परित्रातुं शक्यते तत्किलैतदर्थमेव वप्रत्रयनिर्मितिरिति ॥ तथा ॥
अधोमुखाः कंटकाः स्युर्धात्र्यां विहरतस्तव ॥ भवेयुः संमुखीनाः किं तामसास्तिग्मरोचिषः ॥ ६ ॥ हे मर्दितकषायकंटक तव धात्र्यां सकलमंगललिंगितायां संसारचारकगुप्तिगृहगतान् भव्यसत्वान् मोचयितुं विहरतः कंटका राष्ट्रकाष्ठास्थि लोहादिमया जगतोऽपि निर्निमित्तमेव निर्मित ( चरमात्मना ) चरणवेधदुः कृतमनुसृत्य विश्वजनीनस्य तव स्वं मुखं दर्शयितुमशक्ता इवाधोमुखाः प्रवेष्टुमिव पातालमवाङ्मुखाः स्युर्भवेयुः । अत्रैवार्थातरन्यासमाह युक्तमेवैतत्तामसास्तमसां समूहास्तिग्मरोचिषः खररश्मेः संमुखीनाः किं क्वचिदेशे काले वा भवेयुनैवेतिभावः ॥ किंच ॥
केशरोमनखश्मश्रु तवावस्थितमित्ययं ॥ बाह्योऽपि योगमहिमा नाप्तस्तीर्थकरैः परैः ॥ ७ ॥
हे अप्रमेयमहिमन् भगवन् परैः सर्वज्ञत्वेन त्वव्यतिरिक्तैः कुतीर्थकृद्भिरास्तां तावदाभ्यंतरः सर्वाभिमुख्यतादिर्भामंडलावसानः पूर्वोपवर्णितस्तव योगमहिमा यावदयं वाह्योऽपि न प्राप्तः । अथ क इव स इत्याह । केशरोमनखश्मश्रु तवावस्थि
* रा
v jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
त: शिरोरुहाः, रोमाण्यगरुहपाश तावन्मात्रमेवमेव नवतन प्राप्तः कुतः पुनरांतर सुरकृतातिशयेषु भगना
सविवर.
अयं चाध्यात्मैकादशमासा यावत् /
। ननु यदि भगवतो योगाचीयमानकेशादिकदर्थितन प्राप्त
वीतराग. हातमिति । केशाः शिरोरुहाः, रोमाण्यंगरुहाणि, नखाः करचरणांगुलिप्रभवाः, श्मश्रुः कूर्च । एतच्च तवावस्थितं यावत्
प्रमाणं सर्वविरतिप्रतिपत्तिप्रस्तावेऽवस्थापितं तावन्मात्रमेवमेव न पुनयूनाधिकं । अयं चाध्यात्मैकादशमात्रसाध्यत्वेन ॥१२॥
बाह्य एव योगमहिमा किंतु परैः प्रतिक्षणोपचीयमानकेशादिकदर्थितैर्न प्राप्तः कुतः पुनरांतरस्य त्वद्योगमहिम्नस्तेषां प्राप्तिसंभावनैव । ननु यदि भगवतो योगमहिम्ना केशादीनां यथावदवस्थानं तत्किमस्यातिशयस्य सुरकृतातिशयेषु भणनं न पुनः कर्मक्षयजेषु । सत्यं । न खलु भगवद्योगमहिम्ना केशादीनां यथावदस्थितिः किंतु सर्वविरत्यवसरे पुरंदरप्रेरितदंभोलिदलितोद्मशक्तीनां तेषामनुद्भव इति सुरकृत एवायमतिशयः। ननु यद्येवं तदा तवायमपि योगमहिमा परैर्नाप्त इति किमर्थ स्तुतिकृताभिदधे । उच्यते । यत्किल पौलोमीपतिः परमेशितुः किंकर इव केशादिव्यवस्थापनं विधत्ते स भगवत एव महिमेति समंजसं ॥ अन्यच्च ॥
शब्दरूपरसस्पर्शगंधाख्याःपंच गोचराः । भजति प्रातिकूल्यं न त्वदने तार्किका इव ॥ ८॥ _हे वागगोचरचरित्रपवित्र स्वामिन्नमी पंचापि गोचरास्त्वदग्रे त्वत्संनिधौ प्रातिकूल्यं प्रतिकूलतां न भजंति प्रत्युतानुकूलतामेव श्रयंते। के त इत्याह शब्दरूपरसस्पर्शगंधाख्याः यथाक्रमं श्रोत्रनेत्ररसनस्पर्शनघ्राणादींद्रियविषयाः। किमुक्तं भवति। यत्र हि त्रिजगद्गुरुर्विहरति तत्र वेणुवीणामृदंगमधुरगीतध्वनिजयजीवेतिनंदेतिप्रमुखाः सुखदा एव शब्दाः श्रुतिपथमवतरंति। न पुनः करभखरकाकबककरुणनंदितादयः । तथा रूपाण्यपि रमणीयनरनारीनृपतिविभूतिदिव्यविमानप्रासादसफलारामपूर्णसरः
Jain Education
For Private & Personel Use Only
S
onal
l
ainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
पुष्करिणीप्रभृतीन्येव नयनगोचरमवतरंति न पुनर्मलविलीनव्याधितमृतादीनि, तथा रसा अपि मृद्वीकाशर्कराखजूरनालिकेरेक्षुसहकारनारंगकदलीदाडिमीफलादीनां परिणतिर्न पुनः पिचुमंदघोषातक्यादीनां । तथा स्पर्शा अपि मृदुदुकूलपिहितशुचिहंसतूलीललितललनांगावयवादयो न पुनः खरशर्करकठिनाश्मकंटकादीनां । तथा गंधा अपि घनसारागरुमृगमदमलयजमंदारपारिजातकमलकुवलयचंपकवकुलकनककेतकमालतीपाटलादीनामेव घ्राणपुटसंतर्पणपटिष्ठा न पुनर्मतकलेवरलशुनादीनां । एवममी पंचापि विषयाः स्वामिसन्निधौ प्रतिकूलतां त्यजति। के इव तार्किका इव। यथा भगवद्गोचरोपगताः सौगतसांख्यशैवमीमांसकलोकायताः पंचापि प्रामाणिकाः प्रतिहतप्रातिभत्वेन विगलन्मदाः प्रतिकूलतां तद्वदेतेऽपीतिभावः । तथा ॥
त्वत्पादावृतवः सर्वे युगपत्पर्युपासते ॥ आकालकृतकंदर्पसहायकभयादिव ॥९॥ हे विश्वोपास्य भगवन् त्वत्पादौ त्वच्चरणनलिने ऋतवः सुरभिग्रीष्मवर्षाशरद्धेमंतशिशिराख्याः सर्वे पडपि पर्युपासते सेवन्ते । ननु ऋतुभिरवसरप्राप्तैर्जगदपि सेव्यत एव किमधिकं स्वामिन इत्याह युगपत्समकालं । सांप्रतमृतूपासने स्तुतिकृत् । कारणमुद्भावयन्नाह ॥ आकालेत्यादि । आकालमासंसारं कृतं निर्मितं भगवन्निग्राह्यस्य कंदर्पस्य कामस्य यत्सहायकं साहाय्यं उद्दीपनविभावा हि वसंतादयः स्मरविकाराणामतस्तद्भयादिव । किमुक्तं भवति । किल न खलु भक्त्या भगवंतमृतवः समुपासते, किंतु यथानेन महामोहोन्माथिना सपदि मन्मथः प्रमथितस्तथा मा नामास्मानपि तद्ह्यान्निग्रहीष्यतीति
Jain Education
For Private & Personel Use Only
Page #40
--------------------------------------------------------------------------
________________
वीतराग.
॥१३॥
Jain Education
भीतभीता इव स्वस्वोचितप्रसूनदलफलपटलोपायनपाणयस्ते स्वामिनमुपासते ॥ तथा यत्र किलार्हदेवस्थानं भवति तत्र | त्रिदशाः सुरभिसलिलं प्रसूतपटलं च मुंचंतीत्येतदेव स्तुतिकृद्भशयन्तरेणाह ॥
सुगंध्युदकवर्षेण दिव्यपुष्पोत्करेण च ॥ भावित्वत्पाद संस्पर्शां पूजयंति भुवं सुराः ॥ १० ॥
स्वामिन् सुराः सुधाभुजस्तावदास्ताममर्त्यपूजितं भवंतं यावद्भुवमपि पूजयंत्यर्चयंति, केन सुगंधिना सौरभ्यसंभृतघ्राणपुटस्योदकस्य सललिस्य वर्षणं वर्षस्तेन । तथा दिव्यानि मंदारपारिजातादीनि पुष्पाणि सुमनसस्तदुत्करेण प्रकरेण । कां भुवमित्याह । भावित्वत्पाद संस्पर्शी भावी भविष्यस्त्वत्पाद संस्पर्शो यस्यां सा तथा । अयमाशयः । किल “ यदध्यासितम - हद्भिस्तद्धि तीर्थ प्रचक्षत " इतिन्यायाद्भगवदध्यासितातस्तीर्थं तदर्चनीयैवेत्याह त्रिदशानां भगवति भक्त्यतिशयः ॥ तथा भगवंतमवनौ विहरतं पक्षिणः प्रदक्षिणयंतीत्येतदेव युक्त्या स्तुतिकृदाह ॥
जगत्प्रतक्ष्य वा यांति पक्षिणोऽपि प्रदक्षिणं ॥ का गतिर्महतां तेषां त्वयि ये वामवृत्तयः ॥ ११ ॥
हे जगत्प्रतीक्ष्य भुवनमहनीय भवंतमास्तां सुरनराः किंतु पक्षिणः शकुना अपि प्रदक्षिणीकृत्य यांति व्रजंति । ये तु | पक्षिणामपेक्षया जन्मना स्पष्टेंद्रियतया ज्ञानविज्ञानशालितया च महांतोऽपि जगद्वत्सले त्वय्यपि वामवृत्तयः प्रतिकूलाचरणास्तेषां का गतिः । इदमत्रहृदयं । किल नरकगतिस्तावत्सर्वजघन्या परं तत्रापि गतानां त्वत्प्रातिकूल्यकारिणां तस्मादेनसो मुक्तिरसंभाव्या तदधिका का दुर्गतिरस्तीत्यहो तेपामधमत्वं ॥ तथा भगवतो हि विहरतः पवनः पृष्ठप्रतिष्ठ एव संचरतीत्येतदेव भंग्याभिदधाति ॥
सविवर.
॥१३॥
w.jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
पंचेंद्रियाणा दौःशील्यं व भवेद्भवदंतिके ॥ एकेंद्रियोऽपि यन्मुंचत्यनिलः प्रतिकूलतां ॥ १२ ॥
हे निर्मलन्यायनिलय भगवन् भवदंतिके त्वदुपांते हेयोपादेयकृत्याकृत्यविचारविशेषपुष्टहषीकपाटवानां पंचेंद्रियाणां | | तिर्यग्नरामराणां दौःशील्यं दुःशीलता प्रातिकूल्यं व भवेत्कथं जायेत । यद्यस्मादेकेंद्रियत्वेनैव विशिष्ट विचारविकलोऽनि-16 लोऽपि प्रतिकूलतां संमुखापातित्वं मुंचति परिहरति । किमुक्तं भवति । किल येन भगवत्प्रभावेणैकेंद्रिया अपि विनयं|2 ग्राह्यते तस्य पंचेंद्रियप्रातिकूल्यत्याजनं समीचीनमेव ॥
तथा भगवति विहरति दिव्यप्रभावात्तरवः शिरो नमयंतीत्येतदेव युत्तया व्यनक्ति ॥ | मूर्धा नमंति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः॥ १३ ॥2
हे भुवनमूर्धन्य स्वामिन्नासतां विकस्वरविवेकाः सुरनरादयः किंतु मुकुलितविशिष्टचैतन्यास्तरवः पादपा अपि मूर्धा | उत्तमांगेन प्रस्तावाद्भगवंतं नमति प्रणमंति। उत्प्रेक्षते । तव संबंधिना लोकोत्तरेण माहात्म्येन परमार्हत्यलक्षणेन चमत्कृता विस्मेरविस्मया इव । अतस्तेषामीपद्विवेकानामपि तत्रिभुवनप्रणते त्वयि प्रणतिपरं शिरः कृतार्थ नमस्यनमस्करणादेव कृतकृत्यं, मिथ्यादृशां मिथ्यात्वोपहतमतीनां पुनस्त्वय्युत्तानशिरसां तद्व्यर्थ निरर्थकमेव, वनपादपेभ्योऽपि निर्विवेकास्ते मुधैव मस्तकशून्या भुवि भ्राम्यति ॥ जघन्यतः कोटिसंख्यास्त्वां सेवंते सुरासुराः ॥ भाग्यसंभारलभ्येऽर्थे न मंदा अप्युदासते ॥१४॥
Jain Educat
i onal
For Private
Personal Use Only
Ww.jainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
वीतराग
॥१४॥
Jain Education
भुवननीय दिवा पवनानुकूल्यतरुप्रणामादिकं कियदेतत् । यतः सुरा ऊर्द्धाधस्तिर्यग्लोकवासिनोऽपि त्वां सरभसं सेवते । कियंत इत्याह । कोटिसंख्याः परिमिताः कथं जघन्यतः सामान्यतोऽपि विशेषे तु कोटाकोटिप्रमिता अयमत्त्र्यास्त्वामुपासते । अत्रैवार्थातरमाह । भाग्यइत्यादि भाग्यसंभारलभ्ये अगण्यपुण्यप्रचयप्राप्ये अर्थे प्रयोजने तावदास्तामतिनिपुणमतयः किंतु मंदाः स्वल्पमेधसोऽपि नोदासते । विरचितसुकृतसंततिप्राप्यं च भगवदुपासनमतस्तत्र भावि - भूरिभद्रः क इवोदास्ते इति ॥
इति वीतरागस्तोत्रे सुरकृतातिशयवर्णनस्य चतुर्थप्रकाशस्य पदयोजना |
एवं कतिचित्सुकृतातिशयानभिधाय पुनः प्रातिहार्यरूपांस्तानेवाभिधित्सुः पंचमप्रकाशं प्रस्तावयन्नाह ॥ गायन्निवालिविरुतैर्नृत्यन्निव चलैर्दलैः ॥ त्वगुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥ १ ॥ किल त्रिविष्टपसदो विष्टपत्रयपतेः पूजार्थमष्टौ प्रातिहार्याणि संपूरयंति तेषु चाशोकतरुः पुरःसरः स च जंबूरिव जंबूद्वीपस्य भवभयार्त्तसत्त्वशरणस्य समवसरणस्य मध्येऽर्हद्देहायामात् द्वादशगुणायामः, परिमंडलाकारेणायोजनं विष्वक् | विस्तृतः समवसृतिलक्ष्मीलीलानीलातपत्रमिव व्यंतरामरैर्विरच्यते । तमेवाह । हे समुद्धृतसंश्रितसत्त्वास्तोकशोक स्वामिंस्त्वदुपरि सुरविरचितोऽसावशोकपादपः किंकिल्लितरुर्मोदते । कुतः । किलायमेव भगवांस्तावत्कषायतपनोपतप्तदुरंत संसृतिकांतारपरिभ्रांतिश्रांतानां भव्य सत्त्वानामाश्रमतरुर्यदि वाऽहमस्यापि क्षणमाश्रमतरुतामाकलयामि ततः किमितोऽधिकं
tional
सविवर.
॥१४॥
w.jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
Jain Education
जगति प्रार्थयितव्यमित्युत्कर्षाद्धर्षप्रकर्षमुद्वहति । ननु किमस्य भवद्भिः प्रसादचिह्नमुपलब्धं । उच्यते । गीतनृत्यानुरागप्रकटनानि हि प्रमोदचिह्नानि तानि चास्य स्फुटान्युद्धासंते । तथाहि । किं कुर्व्वन्नसौ मोदत इत्याह । गायन्निवालिविरुतैः अलिविरुतैः सौरभलोभोद्धांतभ्रमद्भ्रमरमधुकरझंकृतैस्त्वद्गुणान् गायन्निव । तथा यदि निसर्गत एव रक्तस्तथापि संभाव्यते । त्रिजगज्जनमनोरंगजीवातुभिस्त्वद्गुणैरिव रक्तः । समुचितं चास्य त्रिजगदुपरिवर्त्तिनस्तवाप्युपरि वर्त्तमानस्य प्रमोदमेदुरत्वं ॥ द्वितीयप्रातिहार्यमाह ॥
आयोजनं सुमनसोऽधस्तान्निक्षितबंधनाः ॥ जानुदनीः सुमनसो देशनोर्व्या किरंति ते ॥ २ ॥
त्रिभुवनमहनीयते तव देशनोर्व्या समवसरणभुवि सुमनसो देवाः सुमनसः पुष्पाणि किरंति विक्षिपंति । यदि पुनः पुरोभाग एव भगवत इत्याह । आयोजनं योजनप्रमाणं धर्मदेशनावनीमभिव्याप्य । तर्हि विरलविरला एव विस्तारिता भविष्यंतीत्याह जानुदनीर्जानूत्सेधाः । एवमपि कठिनवृंतघट्टितपदतलाः स्युरित्याह । अधस्तान्निक्षिप्तबंधनाः उपरि प्रेखोलहलपटला न्यक्कृतवृंताश्च । नच तावत्प्रमाणानामपि तासां कोटाकोटिप्रमितस्वच्छंद संचरदमरनरपादोपमर्द्दनवेदना मनागपि भवतीत्यहो प्रभावातिशयः प्रभोरिति ॥
तथा धर्मोपदेशावसरे हि भगवान् सुभगंभविष्णुना श्रोतृजनश्रोत्रपुटप्रविशत्पीयूष कुल्यातुल्येन निरायासप्रवृत्तेनैव स्वरेण देशनां विधत्ते किंतु वृत्तिकृत इव सूत्रं सुरास्तमेव स्वरमायोजनं विष्वग् विस्तारयति । अतो देवकृतत्वात्स दिव्यध्वनिरभिधीयते । तमेवाह ||
jainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
॥१५॥
KASAMICROSSESSICAL
मालवकैशिकीमुख्यग्रामरागपवित्रितः ॥ तव दिव्यो ध्वनिः पीतो हर्षोद्रीवैर्मगैरपि ॥३॥ हे मध्वाश्रय मुनिमूर्धन्य भगवंस्तव संबंधी दिव्योऽमानवो ध्वनिर्मथाचलप्रमथ्यमानदुग्धजलधिध्यानधीरो धर्मदेशनानादस्तावदास्ताममंदानंदकंदलितमनोभिरमरनरनिकरैः, किंतु निस्तुषसुखोत्कर्षनिमीलितनेत्रत्रिभागैमृगैरपि पीतः सस्पृहमाकर्णितः। किंविशिष्टैहोंड्रीवैः प्रीत्युत्कंधरैः, श्रवणे हेतुमाह । मालवेत्यादि।मालवकैशिकी मुख्यो येषां ते मालवकैशिकीमुख्यास्ते च ते ग्रामरागाश्च मालवकैशिकीमुख्यग्रामरागास्तैः पवित्रितः पूतः संवलितः। अत एव सस्पृहसर्वसत्त्वसाधारणेऽपि तत्पाने मृगैः पीत इत्युक्तं । विशेषेण गीतप्रियत्वान्मृगजातेः ॥ तथा भगवान् समवसरणोपविष्टः क्षितितलविहारी सुरासुरैर्निरंतरं चामरैर्वीज्यत इत्येतदेवाह ॥
मधवला चकास्ति चमरावली । हंसालिरिव वक्राब्जपरिचर्यापरायणा ॥४॥ हे जगत्साम्राज्यदीक्षित स्वामिंस्तव पुरःसुरासुरैः सरभसं दोधूयमाना चमरावलीलव्यजनपद्धतिश्चकास्ति शोभते। किंविशिष्टा इंदुधामधवला शरच्छशधरकरप्रकरगौरा। केव हंसालिरित्यादि । तत्र कोमलकंठनालोपेतत्वेन ललिताधरदलपरिकलितत्वेन दशनांशुकेशरराजिविराजितत्वेन अंकरोलंबपरिचुंबितत्वेन स्वभावसुरभित्वेन लक्ष्मीनिवासत्वेन च भगवद्वक्रमजमिवाजं तस्य परिचर्यापरायणा समुपास्तितत्परा हंसालिरिव मरालमंडलीव। समुचिता सितपत्रिणां शतपत्रसेवा॥किंच॥1
मृगेंद्रासनमारूढे त्वयि तन्वति देशनां ॥ श्रोतुं मृगाः समायांति मृगेंद्रमिव सेवितुम् ॥ ५॥
॥१५॥
Join Education
For Private
Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
हे प्रमदकुवादिकरींद्रपारींद्र स्वामिंस्त्वयि मृगेंद्रासनं सिंहासनमारूढे देशनां भवविरागपरमपदानुरागजननी कथा ४ प्रथयति विशुद्धतत्त्वावबोधसमृद्धमेधसोऽमर्त्यमाः श्रोतुमुपनमंति तन्न चित्रं, यत्तु तद्विलक्षणा मृगाः पशवोऽपि तां |श्रोतुं मृगेंद्रासनोपविष्टत्वेन च स्वस्वामिनं मृगेंद्रमिव भवंतमुपासितुं समायांति, स तवैव भुवनाद्भुतप्रभावपरिमल
इति ॥ अन्यच्च ॥ ___ भासां चयैः परिवृतो ज्योत्स्नाभिरिव चंद्रमाः॥ चकोराणामिव दृशां ददासि परमां मुदम्॥६॥ । हे निरुपमलवणिमजलनिलय स्वामिंस्त्वं दृष्टमात्र एव त्रिभुवनजनदृशां परमां वागगोचरामनुभवैकगम्यां मुदं ददासि 81 प्रयच्छसि । किंविशिष्टः भासां चयैः परिवृतः प्रतिप्रतीकं समुल्लसदुद्वेललवणिमजलोत्पीलपरिप्लुतः। क इव चंद्रमा इव । यथा चंद्रमाः सुधाकरश्चकोरपक्षिणां ज्योत्स्नाजीवातूनां मुदमुदंचयति । किंविशिष्टः ज्योस्नाभिः परिवृतः कौमुदीभिः कंदलितस्तद्वत्त्वमपीतिभावः॥ . तथा भगवतः समवसृतौ विहारावसरे च देवाः सदैव दिवि देवदुंदुभिं वादयंत्येतदेव भंग्यंतरेणाह ॥
दुंदुभिर्विश्वविश्वेश पुरो व्योम्नि प्रतिध्वनन् ॥ जगत्याप्तेषु ते प्राज्यं साम्राज्यमिव शंसति ॥७॥ हे विश्वविश्वेश समग्रभुवनस्वामिस्ते तव पुरोभागे दुंदुभिव्योंम्नि वियति सरभसत्रिदशकरतलतालितःप्रतिध्वनिवाचा|लितरोदोंतरालं नादमुद्गिरन्नुत्प्रेक्ष्यते । जगति विश्वे आप्तानां आसन्ननिर्वृत्तिपुरप्रवेशत्वेन त्वच्छासनमुदहतां तव संबंधि
Jain Education
m
anat
Page #46
--------------------------------------------------------------------------
________________
वीतराग. प्राज्यं परिपूर्ण साम्राज्यं धर्मचक्रित्वं शंसति कथयतीव, तदाकर्णने हि तेषाममंदानंदोत्पत्तेः। न च दुंदुभिनादमंतरेण जग
18सविवर. जनानां युगपदभीष्टार्थकथनं शक्यमिति ॥ ॥१६॥ तथा परमाहत्यपदमधितस्थुषः स्वामिनः शिरसि सुराः श्वेतातपत्रत्रयीं धारयंतीत्येतदेवाष्टमप्रातिहार्य स्तुतिकृत् | 18 युक्त्या व्यनक्ति ॥
* तवोर्द्धमूर्द्धं पुण्यर्द्धिक्रमसब्रह्मचारिणी ॥ छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी॥८॥ । हे त्रिभुवनमौलिमाणिक्य प्रभो तव मौलौ छत्रत्रयी शोभते । कथं । ऊर्द्धमूर्द्धं उपर्युपरि व्यवस्थिता अत एव पुण्यर्द्धिक्रमसब्रह्मचारिणी तवैव पुण्यसंपत्प्रकर्षसंपत्सदृशी । तथाहि प्रथमं सम्यक्त्वप्रतिपत्तिस्ततो देशविरतिरनंतरं सर्वविरतिस्ततश्चाहदादिस्थानासेवनमनंतरं तथात्वेनोत्पत्तिः । पुनः समये सर्वविरतिक्रमादपूर्वकरणक्रमेण क्षपकश्रेणिस्ततः शुक्लध्यानमितो घातिकर्मक्षयस्ततः केवलोत्पत्तेरनंतरं परमार्हत्यसंपदुपभोगस्ततः सनातनपदावाप्तिरित्युत्तरोत्तरस्ते पुण्यर्द्धिक्रमस्तद्वदातपत्रत्रयी । पुनः किंविशिष्टा त्रिभुवनेत्यादि भूर्भुवःस्वःस्वरूपं त्रिभुवनं तस्य प्रभुत्वप्रौढिः प्रभुत्वोत्कर्षस्ता शंसतीत्येवंशीला । किमुक्तं भवति । यः किलैकस्य भुवनस्य प्रभुस्तस्यैकमातपत्रं यस्तु भुवनद्वयस्य तस्य द्वे भगवतस्तु भुवनत्रयस्वामिभिः सरभसमुपास्यमानत्वेन विश्वत्रयपतेः समुचितैव शिरसि श्वेतातपत्रत्रयीति । एवं प्रातिहाण्यभिधाय तद्वकव्यतामुपसंहरन्नाह ॥
॥१६॥ एतां चमत्कारकरी प्रातिहार्यश्रियं तव ॥ चित्रीयंते न के दृष्ट्रा नाथ मिथ्यादृशोऽपि हि ॥९॥
HASHASHASHOSHISHA
SESORIS
Jain Education
a
l
For Private Personal Use Only
Alainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
हे केवलश्रीसनाथ तव संबंधिनीमेतां पूर्वोपवर्णितस्वरूपां चमत्कारकरीमलौकिकाश्चर्यचर्याकारिणी प्रातिहार्यश्रियमशोकादिलक्षणां लक्ष्मी दृष्ट्वा विलोक्य तावदासतां सुदृशः किंतु मिथ्यादृशोऽपि तत्त्वदर्शनं प्रति विपरीतदृष्टयोऽपि किंनाम न |चित्रीयंते नाश्चर्यमुदहति । इदमत्र हृदयं । किल यद्यपि तेषामज्ञानोपहतत्वेन भगवतो यथावद्वीतरागतादिरहस्यानवबोधस्तथापि भुवनाद्भुतप्रातिहार्यदर्शनाद्विस्मरविस्मयानाममंदानंदपीयूषपानमनागुपशांतमिथ्याविषाणां भवत्येव बोधेराभिमुख्यमित्यहो स्वामिनः सर्वोपकारितेति ॥
इति वीतरागस्तोत्रे पंचमस्य प्रातिहार्यस्तवस्य पदयोजना ॥
एवं भावार्हद्रूपस्य परमात्मनो भुवनातिशयहेत्वनतिशयानतिशयानभिधाय सांप्रतं तदतिशयलेशेनापि वंचितानचिद्गपान् देवाभासांस्तत्तुलायामारोप्य तस्मिन् भगवति ये विपक्षतामुपक्षिपंति तान्निरसिसिषुर्विपक्षनिरासं स्तुतिकृदाह ॥
लावण्यपुण्यवपुषि त्वयि नेत्रामृतांजने ॥ माध्यस्थ्यमपि दौःस्थ्याय किंपुनषविप्लवः ॥१॥ हे जगदानंदकंद भगवंस्त्वयि लावण्यपुण्यवपुषि निरुपाधिमधुरनिसर्गलवणिमगुणपवित्रगाने तत एव नेत्रामृतांजने सकललोकलोचनामृतवर्तिप्रमेये। कैश्चिदनभिगृहीतमिथ्यात्वमुकुलितविशेषविचारैर्माध्यस्थ्यमितरदेवसाधारणा देवबुद्धिधियते । तदपि तावत्त्वद्गुणज्ञानं दृष्टं श्रुतं च महते दौःस्थ्याय मनःखेदाय जायते । यत्तु तेभ्योऽप्यतिमूढैः कैश्चित्त्वय्यपि |विश्वजनीने द्वेषविप्लवो मत्सरोपप्लवः प्रतन्यते स त्वशेषविशेषविदुषां सुतरामरंतुद इति भावः॥
Jain Education He
For Private & Personel Use Only
M
Wjainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
वीतराग.
एवं तावत्त्वयि द्वेषोपप्लवोऽपि जघन्यः। केचित्तु तद्वशादेव सकलजनसामान्यव्यवहृतीनपि देवास्त्वत्प्रतिपक्षतया तुल- सविवर. यंतीत्यतः स्तुतिकृत्तदुद्देशेन सापेक्ष(क्षेप)माह ॥ । तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः ॥ अनया किंवदंत्यापि किं जीवंति विवेकिनः ॥२॥ |
परमकारुणिकत्वेन वीतरागत्वेन सर्वज्ञत्वेन परमार्हत्यसंपदुद्भासितत्वेन च जगद्विलक्षणस्य तवापि किं कोऽपि प्रतिपक्षोऽस्ति । अपितु तथैवानुपपन्नः कदाचित्त्वद्विध एव स्यादित्याह सोऽपि त्वद्विपक्षतया स्थितोऽपि कोपादिभिः क्रोधकामलोभादिभिः प्राकृतजनेभ्योऽप्यतितरां विप्लवमस्वास्थ्यमापादितः। अस्य चार्थस्य साक्षात्करणं तावहरत एव, किं त्वनया त्वद्विपक्षास्तित्वप्रतिवद्धया किंवदंत्यापि विमूढलोकोक्क्यापि विवेकिनस्तव त्वदितरदेवानां च पृथग्भावज्ञाः किं कदापि जीवंति । किमुक्तं भवति । किल तथाविधसामग्रीवैकल्यादेवमसमंजसप्रलापिनो यदि निग्रहीतुमशक्तास्तत्किं स्वायत्तत्वात् प्राणानपि ते न मोक्तुं क्षमाः। अश्रोतव्यार्थश्रवणात् प्राणत्यागः श्रेयानेवेतिभावः॥ पूर्वोक्तमेवार्थ पुनदृष्टांतेन स्पष्टयन्नाह ॥ विपक्षस्ते विरक्तश्चेत्स त्वमेवाथ रागवान् ॥ न विपक्षो विपक्षः किं खद्योतो द्युतिमालिनः॥३॥ [६]
हे प्रक्षीणांतरविपक्ष प्रेक्षावद्भिनिपुणमपि निरीक्ष्यमाणैस्त्वद्विपक्षः कापि न प्रैक्षि । तथाहि । यदि तावत्ते विपक्षो विरक्तस्तदा नूनं न विपक्षः किंतु वीतरागत्वेन स त्वमेव । अथ रागवांस्तथाप्यवीतरागत्वेन त्वत्तोऽत्यंतविसदृशत्वान्न विपक्षः।।
5॥१७॥ समानशीलपराक्रमयोरेव प्रायः सपक्षविपक्षतोपपत्तेः। अथ दृष्टांतमाह ॥ विपक्षः किं खद्योतो द्युतिमालिनः किं खद्योतः!
Jain Educatio
n
al
For Private Personal Use Only
w.jainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
कीटविशेषो द्युतिमालिनः सहस्रभानोः किं क्वचिद्देशे काले विपक्षो भवेदेवं यथा ज्योतिरिंगणस्य गभस्तिमालिना तुला दुलभा तथा सरागस्य वीतरागेणेतिभावः॥ ननु योगोपनिषन्निषेवणाद्भगवतस्तावदेवं महिमा ततस्तदभ्यसनेन परेपि तथा भविष्यतीत्याशंक्याह॥ स्पृहयंति त्वद्योगाय यत्तेऽपि लवसप्तमाः॥ योगमुद्रादरिद्राणां परेषां तत्कथैव का ॥४॥ हे सिद्धाद्भुतयोग भगवंस्त्वद्योगाय तव योगोपनिषदे आसतामणिमादिमहर्द्धयः किंतु तेपि परमपदोपकंठप्रतिमा लवसप्तमा अनुत्तरसुराः स्पृहयंति। यदुताहो मंदभाग्यानामस्माकं सप्तलवन्यूने पूर्वभवायुषि वीतरागोपगा योगसमृद्धिर्न संघटिता कदा पुनरिमां प्राप्स्याम इत्यहरहः स्पृहामावहंति । तस्यैवंविधस्य त्वद्योगस्य परेषां कथापि वार्तापि कौतस्कुती। किंविशिष्टानां वहिर्देहसंस्थानरूपया योगस्य मुद्रया दरिद्राणां निःस्वानां । तथाचायमेव स्तुतिकृत् स्तुत्यंतरे प्राह । “वपुश्च पर्यंकशयं श्लथं च दृशौ च नाशानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेंद्र मुद्रापि तवान्यदास्तामिति ।" एवं योगमुद्रयापि दरिद्राणां तेषां तपस्विनां कुतस्त्वद्विपक्षतेति ॥ एवं स्थिते यद्विधेयं तदाह ॥
त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे ॥ त्वत्तो हि न परस्त्राता किं ब्रूमः किमु कुर्महे ॥ ५॥ __ अत्राद्यपदत्रयमुत्तरपदत्रयेण यथाक्रम योज्यं । तथाहि हे विश्ववत्सल यत एतदेवमतो वयमांतरारातिपरित्रस्तास्त्वामेव यथार्थ नाथं प्रपद्यामहे शरणमितिशेषः । यस्मादस्मिन् जगति अस्माद्भयात्त्वदपरः कोऽपि न परित्राता इत्युत्तरेण योगः । तथा त्वामेव समस्तस्तुत्यगण्यमन्वर्थाभिः स्तुतिभिः स्तुमः अत एव तव स्तवादधिकं किमन्यद्रूमः तन्मात्रफल
Jain Educatiod
i onal
O
w
.jainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
R-
वीतराग. त्वाद्वाग्मित्वस्य । तथा त्वामेव विश्वोपास्यरपि सरभसमुपास्यं वयमुपास्महे अत एव सकलसत्कर्ममौलिभूतत्वात्त्वदुपा- सविवर.
सनस्यैतद्व्यतिरिक्तं किमन्यत् कुर्महे । कृतेऽस्मिन् कृतान्येव निखिलान्यपि सत्कर्माणि । अत्र च शरणार्थिनां तावत्कोपासकानां ॥१८॥
वहुत्वादुक्तौ बहुवचनं भगवतस्त्वद्वितीयत्वेन त्वामित्येकवचनं स्तुतिकतु नौचितीमंचति । एवमन्यत्रापि द्रष्टव्यं ॥ एवं स्वामिनः शरणगमनस्तवनोपासनः स्वयं कृतकृत्योऽपि स्तुतिकृत् कुतीर्थिकदर्थ्यमानं जगदवलोक्य सनिर्वेदमिदमाह ॥
स्वयं मलीमसाचारैः प्रतारणपरैः परैः॥ वंच्यते जगदप्येतत् कस्य पूत्कुर्महे पुरः ॥६॥ हे कृपाकुपार परैरसर्वज्ञोपज्ञकदागमविप्लावितमतिभिरात्मा तावद्वंचित एव केवलमेतज्जगदपि तथैतदुपचारादयं जगज्जनोऽपि कापथप्रवर्त्तनेन वंच्यते । यदि पुनस्ते सदाचारा भविष्यतीत्याह । स्वयं मलीमसाचारैः स्वयमात्मना पापप्रवृत्त्या
मलिनचेष्टितैः। तथाविधा अपि कदाचिदाश्रितान् सदाचारे नियोजयेयुरित्याह। प्रतारणपरैः संचितविचित्रवंचनप्रपंचैरेवंजाविधैस्तैर्जगदिदं वंच्यते । इदं च जगद्वंचनासमंजसं परमकारुणिकं सर्ववेदिनं च भवंतमंतरेण वयमन्यस्य कस्य पुरः पूत्कुतामहे । अद्य श्वो वा भव्यांगिवर्गोऽयं त्वयैव कुमतपंकादुद्धर्त्तव्यस्तकिमुपेक्षस इति भावः ॥
न चायं जगज्जनः परैः परिभूयेत यद्ययं चेतनो भवेदिति आह ॥ नित्यमुक्तान् जगजन्मस्थेमक्षयकृतोद्यमान् ॥ वंध्यास्तनंधयप्रायान् को देवांश्चेतनः श्रयेत् ॥ ७॥ || हे स्वामिन्नेवंविधान् देवान् चेतनो विशिष्टचित्तचैतन्यवान् पुमान् निःश्रेयसकामः कः श्रयेत् । किं विशिष्टान्
॥१८॥ नित्यमुक्तान् विशिष्टयमनियमप्राणायामतपःकष्टादिभिर्दुष्कर्मजालमनुन्मूल्यापि नित्यमुक्तान् स्वभावमुक्तस्वरूपान्
ACCOUCCESCARRACT
Jain Education
a
l
For Private & Personel Use Only
Urjainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
SISEX
इत्येकं तावहर्घटम् । एवंविधा अपि यदि निरुपाधिमधुरा एव भवेयुस्तदा किं यदि घटतापीत्याह । जगजन्मस्थेमक्षयकृतोद्यमान् जगतश्चराचरस्य जन्मस्थेमक्षयेषु सृष्टिपालनप्रलयेषु कृतोद्यमान् किलैकः कश्चिज्जगत्सृजत्यन्यः पालयत्यपरः संहरतीत्याद्याविष्कृतवैकृतान् । अतो यदि ते नित्यमुक्तास्तत्कथं जन्मादिविप्लवपराः, अथ जगत्कर्तृतादिकण्डूलमनसस्तहि नित्यमुक्ताः कथं। मुक्ता टकस्वभावास्तेषां च यथाक्रमं रजःसत्वतमोगुणोल्बणोदयानां जगतः सर्गस्थितिसंहृतिप्रयतत्वेन
सुव्यक्तैव भिन्नस्वभावतेति यत्किञ्चिदेतत् । यथा च जगत्कर्तृत्वाद्यप्रामाणिकं तथा जगत्कर्तृत्वनिरासस्तवे पुरस्ता-18| टू द्विस्तरतो व्याख्यास्यते । अत एव वन्ध्यास्तनन्धयप्रायान् सर्वथैवायौक्तिकत्वेन वन्ध्यासुतोपमान एवंविधांश्च देवाभासान् । *सचेतनः क इव भजेन्न कोऽपीतिभावः ॥
ये तु मोहोपहतमतित्वेन तानपि देवान् प्रतिपद्य तदन्यानिवनेन कृतमौना एव तिष्ठन्ति तेऽपि वरम् । परं तदपि दुर्धियो विदधतीत्याह ॥ हा कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशान्निहुवते हाहा देवास्तिकाः परे ॥ ८॥
हे भगवन् परे कुमतग्लपिततत्त्वधियो जठरोपस्थदुःस्थितैरनर्गलरसनस्पर्शनादीन्द्रियविकारविडवितैरपि दैवतैरपि कृतादार्थाः कृतकृत्यमात्मानं मन्यमाना, हाहा इति खेदे, भवादृशान् समूलोन्मूलितसकलेन्द्रियविकारमूलबीजमहामोहानत एव
चिदानन्दरूपे परमे ब्रह्मणि विलीनानपि, निह्ववते न किंचिदमीभिरिति सोत्प्रासहासं प्रलपति । एतदप्युचितं स्वीकृतसमस्तदुष्कृतानां नास्तिकानामेते तु हताशास्तैरेव देवैर्देवास्तिकास्त्वादृशान्निढुवती तइ)त्यहो मोहविलसितम् ॥
lain Educy
For Private & Personel Use Only
A
njainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. परिमितानि च प्रायः सर्वाण्यसदुत्प्रेक्षणपराण्यप्रामाणिकानि च केवलं धृष्टतयैव गलगजितं कुर्वन्तीत्याह ॥
खपुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । संमान्ति गेहे देहे वा न गेहेनर्दिनः परे॥९॥ | ॥१९॥
हे जगदीश परे त्वदाज्ञावज्ञानपराः, किश्चित् प्रत्यक्षानुमानहेतुदृष्टान्तानामगोचरमत एव खपुष्पप्रायमाकाशकुशेशयसहदशमुत्प्रेक्ष्य स्वचेतसैव संवाद्य तस्यैव च साधकं तद्विधमेव द्वित्र्यवयवादिकं मानं प्रमाणमुपकल्प्य तेनैव न त्व(तत्त्व)मिति-18
प्रत्ययेनोत्तानशिरसः साध्वस्माभिरेवेदं तत्त्वमुपलब्धं इति प्रमोदान्न स्वदेहे न च गेहे संमान्ति । केवलमसकलज्ञक्लृप्तकदा| गमविमुग्धा गेहेनर्दिन एव नतु चतुरङ्गवादविजयगर्जयशसः॥ यदि वा।
कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान दुरुच्छेदः सतामपि ॥ १०॥ | हे स्वामिन्नमी परदर्शनिनो मुधैवास्माभिरुपालभ्यन्ते यतो न खल्बमीषामसमञ्जसप्रवृत्तिः स्वायत्ता किन्तु रागायत्ता । रागश्च त्रिविधः कामरागः स्नेहरागो दृष्टिरागश्च । तत्र दंपत्योः परस्परं भावबन्धना प्रीतिः कामरागः, अपत्यादिषु पित्रो-12 रत्यंतवत्सलता स्नेहरागः, अनादौ भवेऽभ्यावृत्त्याभ्यस्तेषु सौगतादिदर्शनेषु गाढाभिष्वंगो दृष्टिरागः येनोन्मत्तकरसेनेवान्तःपरिणतेन लेष्ठुकादिषु कनकबुद्धिरिवातत्त्वेषु तत्त्वबुद्धिरुपजायते। तत्रादिमौ कामस्नेहरागी अनित्यतैकत्वान्यत्वादिशुभभावनाभ्याससमुल्लसिताद्भुतज्ञानगर्भवैराग्यबलबिदलितममत्त्वैः पुंभिरीषत्करनिवारणौ सुकरोच्छेदौ। अयं तु दृष्टिरागो लौकिकानेकहेतुदृष्टान्तविवेचिततत्त्वानां सतामपि मनसो दुरुच्छेदो दुर्निवास्यः अत एव पापप्रवृत्त्यङ्गभूतत्वात्पापीयानेवंवि| धेन दृष्टिरागेण म्लेच्छकन्देनेव दुर्वासिते मनसि कथमहदुपदेशपरिमलः प्रतिष्ठताम् ॥
COCONCEROSAROSAROGRAMINCRECE
CRACANCIACALCOHORACHCRAC%%
॥१९॥
Jan Education
For Private Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
SOSIAA-%BESTEX RECORDS
ननु यदि तेषां दृष्टिरागेणान्तरिता विचारदृष्टिभंगवतो वीतरागादिरहस्यं न पश्यति तत्किं स्थूलार्थदर्शिनी चर्मदृष्टिरपि तदीयं बहिस्तवमात्रमपि न पश्यति येन तस्मिन्नुदासत इत्येतदेवाह ।
प्रसन्नमास्यं मध्यस्थे दृशौ लोकंपृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥११॥ ___ हे स्वामिस्तव तावत्सुकृतिनां नेत्रयोः प्रथमप्रियातिथिप्रथममास्यमाननं प्रसन्नं कोपादिरहितं, तथा दृशौ नीलोत्प-12 लदीर्घ लोचने मध्यस्थे अरक्तद्विष्टे, तव पञ्चत्रिंशद्गुणोपेतं सर्वभाषापरिणतं वचोऽपि लोकंपृणं भव्याङ्गभाजामन्तःकरणप्री-18 णनपटिष्ठं । इत्युक्तप्रकारेण प्रीतिपदे विश्वानन्ददायिनि प्राकृतजनवत्त्वय्यपि केचिदुदासते यतो बाढमत्यर्थं तेनैव दृष्टिरा-है गेण मूढा मोहितमनसः । यच्च तेषां भगवत्यौदासीन्यं तद्दिवाभीतानां भास्वददर्शनमिव तव्यतिरेकेण कस्यान्यस्य प्रीति विधत्ते ॥ अथवा ॥ ___ तिष्ठेद्वायुवेदद्रिवलेजलमपि क्वचित् । तथापि ग्रस्तो रागाद्यैर्नाप्तो भवितुमर्हति॥ १२ ॥
हे विश्वैकमित्र कियद्वा परगतातत्त्वचिन्ताचक्रारोपणेन स्वान्तःकरणमकरुणैरिव खेदनीयम् । यतः सम्यगुपलब्ध एवायं दाविनिश्चयो यदुत क्वचिद्देशे काले वा अविसंवादिसद्गुरूपदेशस्वन्यस्तशारीरमरुत्संचारक्रमपरिपक्रिमाभ्यासस्य कस्यचिद्यो-18 गिनः कुम्भनशक्त्या विषादिचालनया वायुःसततगतिरपि तिष्ठेत् निश्चलतामाकलयेत् ॥ तथा तथाविधातिप्रवलवीर्यमहौषधप्रयोगात् स्वाराधितदेवतादिप्रभावाद्वा अद्रिगिरिरपि द्रवेत् द्रवरूपतामापद्येत । तथा अचिन्त्यमहिममणिमंत्रादिमाहा-1 त्म्यात्तीर्थमहिम्ना वा कदाचिज्जलं सलिलमपि ज्वलेत् ज्वालामालाकुलमालोकेत । तत्रापि दुर्घटवर्गेऽस्मिन् घटितेऽपि
JainEducation
For Private
Personal Use Only
Sw.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
वीतराग
|सविवर.
॥२०॥
रागाद्यै रागद्वेषमोहस्तः स्वरूपं त्याजितः प्राणी नाप्तो भवितुमर्हति उपायशतैरप्याप्तत्वं न जायते । इयमनभावना। महाबलस्खलनादद्रिद्रावणाजलज्वालनादपि रक्तद्विष्टमूढपूर्वकुग्राहिताः सत्येऽप्याप्तवचने प्रत्याययितुं दुष्कराः। श्रयते च " जिनजैमिनिकणभक्षाक्षपादवंदाककपिलसुरगुरुभिः । जगदेकमतीकर्तुं न पार्यते वहतु किमनेन ॥१॥"
इति वीतरागस्तोत्रे विपक्षनिरासषष्टप्रकाशयोजना ॥
MORRORISAREERUAROSAROSARMA
इह हि केचिन्महामोहोपहतमतयः पुण्यपारस्पृष्टानशरीरिणः स्वयंभुवः स्वभावमुक्तस्वस्वरूपान् किल स्वयं कृतकृत्यानपि भुवनजनानुग्रहाय हितोपदेशकान्निजाप्तान्मन्यन्ते तच्च स्तुतिकृत् पुण्यप्रत्यक्षानुपपत्त्या विसंवादयन्नाह । है| धर्माधर्मी विना नाङ्गं विनाङ्गेन मुखं कुतः। मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥
हे विदितसमस्ततत्त्व भगवन् विमुक्तविपक्षविक्षेपोऽहमपक्षपातेन स्वामिनं विज्ञपयामि यदुतामी तावदास्तिकदर्शनिनः सर्वेऽपि दुर्मोच्यमपि गृहवासपाशमुन्मोच्य कुगतिपातभीरवः परमपदार्थे निःस्वस्वागमप्रामाण्येन प्रवर्तन्ते। आगमाश्चाप्तो|क्तयः । तत्र तैराप्तत्वेन प्रतिपन्नास्तेषामागमप्रणेतृत्वमनुपपन्नं । कुतः? आगमा हि वचनरूपाः, वचनानि च वक्तारमन्तरेण न संभवन्ति, वक्तश्च वक्तत्वं वदनाविनाभूतं, वदनं चाङ्गसंगतमङ्गं च धर्माधमौं विना नोपपद्यते । ततस्ते यद्यादित एव पुण्यपापविनिर्मुक्तास्तदा ध्रुवमशरीरिणः, शरीरविरहिताश्च नियतममुखा, निर्मुखाश्च स्तम्भकुम्भांभोरुहादिवन्न परोपदेष्टारः इति यत्किञ्चिदेतत् ।
तथास्य जगतः सृष्टिसंहारावपि पुरुषविशेषकर्तृकावपि केचित् ( वदन्ति ) ब्रुवते च । “ ब्राह्मण मानेन वर्षश
॥२०॥
Jan Education
For Private Personel Use Only
jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
Jain Education
तान्ते वर्त्तमानस्य ब्रह्मणोऽपवर्गकाले संसारे खिन्नानां प्राणिनां निशि विश्रमार्थ सकलभुवनपतेर्महेश्वरस्य सजिहीर्षासम - कालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छाणु संयोगजकर्मभ्यः शरीरेन्द्रियकरणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशस्तथा पृथिव्युदकज्वलन पवनानामपि महाभूतानां अनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य २ विनाशः ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धाश्चात्मानस्तावंतमेव कालं । ततः प्राणिनां भोगभुक्तये महेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव पार्थिवेभ्यः परमाणुभ्यस्तेषां तत्क्रमेण महान् सलिलनिधिरुत्पन्नः पोलूयमानस्तिष्ठति । तदनन्तरं तस्मि नेव पार्थिवेभ्यः परमाणुभ्यो व्यणुकादिक्रमेण महापृथ्वी समुत्पन्ना संहतावतिष्ठते । तस्मिन्नेव महोदधौ तैजसेभ्यः परमाणुभ्यो व्यणुकादिक्रमेणोत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिधानमात्रात्तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते, तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सर्वभुवनसहितमुत्पाद्य प्रजासर्गे विनियुंक्ते । स च महेश्वरेण विनियुक्तो ब्रह्मातिशयधर्म्मज्ञानवैराग्यैश्वर्यसंपन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः स्वसुतान् प्रजापतीन्मानसांश्च मनुष्यदेवर्षिपितृगणान्मुखबाहूरुपादतश्चतुरो | वर्णानन्यानिवोच्चावचानि भूतानि सृष्ट्वा आशयानुरूपैर्द्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीति तत्सर्वमसङ्गतं कथमित्याह ॥ अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किञ्चित् स्वातन्त्र्यान्न पराज्ञया ॥ २ ॥
lainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
॥२१॥
यः किलास्य जगतो निर्माता स तावत्परैरशरीरित्वेनाभ्युपगतः, तस्य च स्वयमदेहस्य जगत्सर्गे विश्वनिर्माणे, प्रवृत्तिरेव तावन्नोचिता न हि स्वयमसिद्धः परान् साधयितुमलं। नत्वेवं वाच्यं यदस्य भगवतः सर्वत्राप्रतिहता इच्छेव जगन्निमाणे क्षमा किमन्तर्गडुना देहेनेति । यतः इच्छा ह्यभिलाषरूपा सा च शरीरवत एवात्मनः समीचीना, सकलेच्छाजालविलये चाशरीरता, तस्मादसङ्गतमङ्गविरहितस्यास्य जगन्निर्माणं । ननु यदि पुनः किमपि प्रयोजनमधिकृत्यासौ जगत्सर्गे प्रवर्तते नैवं, प्रेक्षावत्प्रवृत्तिरिष्टाधिगमार्थाय स्यादनिष्टपरिहारार्था वा! न चेष्टानिष्टप्राप्तिपरिहारावीश्वरे प्राप्तसमस्तकामे संभवतस्ततः किमस्य प्रयोजनं । ननु कृतकृत्यस्यास्य माभूत् प्रयोजनं, नचासौ क्वचिदपि पराज्ञया प्रवर्तेत, केवलमस्खलितमस्य जगति प्रभुत्वमतः "प्रभुः स्वातंत्र्यमापन्नो यदिच्छति करोति तत्", ततः स्वातंत्र्यादसौ जगत्सर्गसंहारैः कोडतीति ॥ आचार्यः॥
क्रीडया चेत्प्रवर्तेत रागवान् स्यात् कुमारवत् । ___ हहो यद्यसौ भुवनसृष्टिसंहारेषु क्रीडया विनोदमात्रेण प्रवर्तते तदा नियतं रागवान् स्यात्, क्रीडनविनोदनादीन्येव हि रागनिबंधनान्येव, किंवत् कुमारवत् ॥ यथाहि बालाः प्रावृट्कालादौ शैवलिनीपुलिनादिषु जलक्लिन्नवालुकाभिः प्राकारप्रासादमंदिरारामादीनि विरचय्य क्षणं प्रमुदितमनसः क्रीडंति, कालांतरे च स्वयमेव सर्वमुपसंहृत्य यथागतं यांति, नच तत्प्रवृत्तिः प्रेक्षावतामभिमता, एवं भवदाप्तस्यापीति । परः । यद्येवं नासौ क्रीडया जगति सृजति । किंतु कृपया । आचार्यः॥
॥२१॥
Jain Education
Lotonal
For Private & Personel Use Only
jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
Jain Education
कृपयाथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥ ३ ॥
भोः पर इदमपि भवद्विकल्पितं न प्रमाणपदवीमासादयति । पश्य यद्यसौ परमकारुणिकः कृपया करुणया सृजति तदा जगदप्यमन्दलक्ष्मीपरिस्पन्दसंपद्य मानस कलमनोभिलषितार्थसार्थसुस्थितं मुख्येव किं न सृजेत् । नचैतदेवं ततश्च । दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् ॥ जनं तु सृजतस्तस्य कृपालोः का कृपालुता ॥ ४ ॥
तत्र दुःखं कायवाङ्मानसं दौर्गत्यं दरिद्रता, दुर्योनिः तिर्यग्नारकादिका, जन्ममरणसमये च दुरंतो वेदनासमुद्धात इत्यादिभिः क्लेशैर्विह्वलं विवश, जनं भुवनलोकं, कृपालोरपि तस्य सृजतः का नाम कृपालुता ? प्रत्युत निर्निमित्तं निर्द्दयत्वमेवेति । परः नन्वसावपि प्राणिनां धर्माधर्मावपेक्ष्य कर्मानुरूपमेव फलं प्रदातुमलम्, न पुनर्न्यूनाधिकम् । आचार्यः । कर्मापेक्षः स चेत्तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ॥ ५ ॥
हे सरल स्वभाव चेद्यदि सोऽप्यतिशयज्ञानवैराग्यैश्वर्ययुक्तो भवदाप्तः, प्राणिनां शुभाशुभफलदानावसरे कर्मापेक्षः कर्मणो मुखमीक्षते, तर्हि शश्वत्कर्मपरतंत्रोऽस्मदादिवत् न स्वतंत्रः, परायत्तस्य च किमीश्वरत्वं । तदेवमस्मिन् जगति तिर्यग्नारकनरामरसुखितदुःखितसधनदुर्भग स्वामिसेवकादिवैचित्र्ये निखिलेऽपि कर्मजन्ये कर्मोत्पाद्ये, अनेन भवदाप्तेनेश्वरादिना शिखण्डिना सर्वथैवाकिंचित्करत्वात्तृतीयप्रकृतिना किं न किञ्चिदित्यर्थः । एवं च किमन्यान्यगवेषणया ? सर्वत्र स्वातंत्र्येण व्यवहरतः कर्मण एव भवत्वप्रतिहतत्वं । पठन्ति च । " नमस्यामो देवान्नानु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि | प्रतिनियत कर्मैकफलदः । फलं कर्मायत्तं यदि किममरैः किंच विधिना नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १ ॥”
w.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
वीतराग.
॥२२॥
परः।ननु किमनेन पृथग्जनोचितेनालापचापलेन? सहि भगवान्महेशस्ततोऽस्य विश्वनिर्माणादिका वृत्तिश्चेष्टा अविता
सविवर. कथं किंनिमित्तं वा जगन्त्यसौ सृजतीति न वितर्कणीया, कुतः? स्वभावतः जगत्कृतिसंहृतिरूपः स्वभाव एवास्य, स च न पर्यनुयोगमहतीति ॥ आचार्यः।
अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तर्खेष परीक्षाक्षेपडिण्डिमः ॥ ६॥ हहो साधु समर्थमुक्तवानसि । परोपरुद्धानां हि दुर्बलवादिनां स्वभावात् किमितरेण किमन्यदपयानद्वारं । एवं भवदातनिश्चिताप्तत्वपरीक्षकाणामेष तत्स्वभावोक्तिलक्षणः परीक्षाक्षेपडिण्डिमः, केनाप्यस्य परीक्षा न विधेयेति प्रतिषेधार्थ पटहघोष एव, स च तत्त्वतोऽकीर्तिपटहघोष एव । कुतः । यत्किलैहिकप्रयोजनमानसाधकं कनकाापादीयते तदपि तदर्थिभिः कषतापताडनच्छेदादिपरीक्षापूर्वकमेव, यस्माच्च सर्वोत्तमा परमपदावाप्तिरिष्यते, स कथं प्रक्षापूर्वकारिभिरपरीक्षितेः परि-18 ग्रहीष्यते इति यत्किञ्चिदेतत् । | एवं च यौक्तिकोक्तिनिरुत्तरः परोऽभ्युपगमकाम इवाचार्यमाह । साधु भगवन्नविसंवादसुंदरेयं भगवद्भणितिरेनमेव चार्थमस्मद्वर्या अपि पठन्ति “ अत एव निरीक्ष्य दुर्घटं जगतो जन्मविनाशडंबरम् । न कदाचिदनीदृशं जगत् कथितं | नीतिरहस्यवेदिभिरिति ।१॥” तस्मादिदमिह रहस्यं यत् किलास्मत्प्रभुन खलु जगति सृजति, किंतु विशिष्टज्ञानबलाद्विश्व-6| ॥२२॥ विश्वतत्त्वं जानीते । आचार्यः॥
Jain Educatio
n
al
For Private Personal Use Only
N
w.jainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
Jain Education
सर्वभावेषु कर्तृत्वम् ज्ञातृत्वं यदि संमतम् ॥ मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥७॥ साधु सत्यमसि प्रेक्षापूर्वकारी? ततो यदि भूधरादिषु सर्वेष्वपि चराचरेषु भावेषु भवतो निजाप्तस्य ज्ञातृत्वमेव कर्तृत्वं संमतम्, ततोऽस्माकमेवमेतत्सुतर संमतं यतोऽस्मदाप्ता अपि भगवंतो विमलकेवला लोकदर्पणसंक्रान्तविश्वविश्वस्व| रूपावलोकित्वेन संति सर्वज्ञाः। भवबीजाङ्कुरजन करागाद्यत्यन्ताभावेन च मुक्तः, तथाविधभवोपग्राहिकर्मचतुष्टयपारतंत्र्यात् किञ्चित्कालं कायभृतश्चेति न किंचिदसंगतं ॥ एवं स्तुतिकृद्भगवदनुग्रहादुन्मीलद्विमलविवेकाभ्युपपत्तिपरान्परानाधाय प्रकृते वीतरागस्तवे योजयन्नाह ॥
सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ प्रसीदसि ॥ ८ ॥
विहितमतप्रमाथ नाथ पूर्वोक्तप्रकारेण पुरुषविशेषकृतायाः सृष्टेर्वादः सृष्टिवादः स एवासहरूपत्वेन कुहेवाकः कदभिनिवेशस्तमुन्मुच्य परित्यज्य, किमित्याह इति प्रागुक्तयुक्त्या, अप्रमाणकं प्रमाणानुपपन्नं, प्रमाणोपपन्नश्चतुर्दशरज्ज्वात्मकस्यापि लोकस्यायमेव वादो यदुत “निष्पादितो न केनापि न धृतः केनचिच्च सः । स्वयंसिद्धो निराधारो गगने किन्त्ववस्थि| त । १।” इति । एवंविधे च त्वच्छासने त्वत्प्रवचने, त एव रमन्ते इदमेव तत्त्वमिति स्वहृदा संवाद्य त एव मोदंते, येषां सुकृतप्राप्यप्रसादस्त्वं प्रसीदसि प्रसादसुमुखो भवसि । इयता च सर्वात्मना त्वत्प्रसादलभ्या एव शुभसंपदो भव्याङ्गभाजामर्थापतितम् ॥ इति श्रीवीतरागस्तोत्रे जगत्कर्तृत्वनिरासस्य सप्तमप्रकाशस्य पयोजना |
ainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. ननु सिद्धं स्वयंसिद्धं जगत्तत्त्वं किमेकान्तनित्यमुतैकान्तानित्यं वेत्याशङ्कासंकुले विपश्चित्कुले स्तुतिकृदाह ॥ ॥२३॥
सत्त्वस्यैकान्तनित्यत्वे कृतनाशाहतागमौ । स्यातामेकान्तनाशेपि कृतनाशाकृतागमौ ॥१॥ उत्पादव्ययध्रौव्यात्मकं वस्तुतत्त्वं सत्त्वं तस्यैकान्तनित्यत्वेऽभ्युपगम्यमाने कृतनाशाकृतागमा स्यातां। तथाहि-साङ्खयैरप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थनित्यं वस्त्वभ्युपगम्यते । तच्च यद्येवं स्यात्तदा वस्तुनि घटादौ कुम्भकारादिकृतानां पर्यायाणां सर्वथा नाश एव स्यात् एतच्च प्रत्यक्षविरुद्धम् । यतः। कुम्भकारादिभिर्निर्मीयमाणाः स्थासकोशकुशूलपृथुबुध्नोदराद्याकाराः कृशाकृशरूपतया क्षणे क्षणे दरीदृश्यते । अतस्तेषां पर्यायाणामाविद्वङ्गनाप्रतीतानां कृतानां विनाश एव स्यात् । ते च यदि न कृतास्तदा घटोप्यकृत एव स्यात् । कृतेष्वेव च तेषु घटोऽपि कृतः। एवं च सति नित्यताक्षतिः ॥ तथा अकृतागमसंगमोऽपि स्यात्तथाहि-पर्यायास्तावत्तन्मते कूटस्थनित्यत्वादेव केनचिन्न कृताः। अकृता एव च समुपस्थिताः। यदि कृतास्तदा घटस्यापि कृतकत्वे नित्यपक्षक्षतिः। एतच्चानुष्णोऽग्निरित्यादिवत् प्रत्यक्षविलक्षणमकृतागमस्वरू
पं कः सुधीः श्रद्दधीत । तथा तथागतपरिकल्पिते स्वलक्षणस्य सर्वथा क्षणिकैकांतपक्षेऽपि कृतनाशाकृतागमौ स्थिरस्थेमाइनमवलंबमानौ दुर्निवारावेव स्यातां । यतः सर्वथैव तदभिमते वस्तुनि स्वीक्रियमाणे पर्यायाणां निराधारत्वेन स्थातुमशक्ती
घटादेरनुत्पाद एव प्रसज्येत । पूर्वक्षणे यद्यद्धटादि द्रव्यमासीत्तद्वितीयक्षणे सर्वथा निर्हेतुकं विनष्टमेव । तत्कस्य स्थासकोशकुशूलादिसंस्कारविधानं विधातुमुचितं । दृश्यते प्रत्यक्षादिप्रमाणैः संस्कारा अतस्तन्मते कृता अप्यकृताः स्युः, तथा निरन्वयिनि चरे वस्तुनि संस्काराणामुत्पादयितुमशक्यत्वात् कुतः स्थासादीनां पर्यायाणामवकाशः। अतः प्रतीयते । तन्म-18
ॐROMARCRACAMSROSECSC
दि
Jain Education
R
ainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
तेऽनिच्छयैव गलेपादिकान्यायादुपनत एवाकृतागमः। एवंच स्वपरपक्षयोरपक्षपातेन व्यवस्थितं नित्यानित्यात्मकं वस्तुतत्त्वं । प्रयोगश्चार्य, विवादास्पदीभूतं वस्तुतत्त्वं नित्यानित्यात्मकं, कृतनाशाकृतागमादिदोषाभावस्यान्यथानुपपत्तेः। न च । दृष्टान्तमन्तरेण हेतोर्न गमकत्वमन्तात्यैव साध्यसिद्धेः सात्मकं जीवशरीरं प्राणादिमत्त्वादित्यादिवदिति ॥
ननु भवतु बाह्यतत्त्वं नित्यानित्यात्मक, परमात्मतत्त्वमेकरूपमेवाभ्युपगम्यमानमौचितीमञ्चतीत्याशङ्कयाह ॥ | आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः ॥२॥
एकान्तनित्यत्वे ह्यात्मनि नित्यत्वेन मन्यमाने सुखदुःखयोर्भोगो न घटामटाट्यते, तथा हि-एकांतनित्यः स ह्यात्मा सुखदुःखे क्रमेण भुते युगपद्वा, न तावत्क्रमेण, नित्यत्वव्याघातत्त्वात् , नहि येनैव स्वभावेन दुःखं भुले तेनैव सुखं तयोरेकत्वप्रसंगात्, स्वभावभेदे चैकस्वभावनित्यत्वक्षतिः । युगपञ्चेत्तदपि न, नहि कदाचिदपि छायातपयोरिव परस्परपरिहारव्याघ्राघातयोः सुखदुःखयोर्युगपदनुभवः संभवति । तस्मादेकांतनित्ये जीवस्वतत्त्वे न कदाचिदपि सुखदुःखोपभोगः । यद्येवं तयेकान्तनित्यात्मपक्षकक्षीकारबद्धकक्षं सुगतमतमेवानुमतमस्त्विति चेन्निराचिकीर्षुराह । एकान्तेत्यादि । एकांतानि| त्यस्वभावेप्यात्मन्यभ्युपगम्यमाने सुखदुःखयोरभोगभाक्त्वमेवास्य स्यात्तथाहि-एकान्तक्षणिको ह्यात्मा क्रमेण चेत्सुखदुःखे।
भुङ्क्ते तदा क्षणिकत्वक्षतिः । क्रमो हि परिपाटी, सा च सातत्यमन्तरेण न संभवति, तदभिमतं च क्षणिकत्वमेकक्षणरूपं |तन्न क्रमेण सुखदुःखभोगः। युगपञ्चेत्तदा पूर्वविरोध एव बाधाविधायी । तस्मान्नित्यानित्यरूप आत्मा सुखदुःखोपभोगा-|
JainEducationK
ional
For Private
Personel Use Only
T
w
ainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
वीतराग.
॥२४॥
Jain Education In
न्यथानुपपत्तेरित्यनुमानान्नित्यानित्यात्मसिद्धिः ॥ किंचैकांत नित्यैकां तानित्यपक्षकक्षीकारसारमते यदूषणांतरमात्मनोऽवत
रति तदाह ॥
पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने ॥ ३ ॥ न तावन्नित्यैकान्तात्ममते पुण्यपापे संभवतः । यतो नित्यो ह्यात्मा पुण्यपापानुपातिस्वभावभेदमन्तरा न संभवति । पुण्यपापाभ्यां च पूर्व परिणामं परित्याज्योत्तरपरिणामवानात्मा निर्मीयते । परिणामानित्यत्वं च नित्यत्वक्षतिकारि । यदि पूर्वपरिणामपरिहारेणोत्तरपरिणामाश्रयणं तदा किं नामात्मनो नित्यत्वव्यत्यासकरं परिणामयोरेवानित्यत्वाद् । यद्यन्यस्यानित्यतयाऽन्यस्यानित्यत्वं तदा अन्यस्योत्पाटितं चक्षुरन्यस्यान्धत्वमागतमित्यपि किं न स्यादिति चेत्तन्न, परिणामप|रिणामवतोः कथञ्चिदभेदात् । कथञ्चिदभेद एव कथमिति चेत् । एते ब्रूमः । परिणामपरिणामिनौ कथञ्चिदभिन्नौ, परिणामोपकारापकाराभ्यां परिणामिनोऽप्युपकारापकारप्रवृत्त्युपपत्तेः। तस्मान्नित्यैकान्तपक्षे न पुण्यपापोदयःसमीचीनतामञ्चति । | किंच ॥ नित्यैकान्ते बन्धमोक्षावपि न युज्येते । यदि बन्धः स्वभावमपहाय मुक्तिमाकलयति तदा स्वभावपरिभवे कथं नानि| त्यता । यो हि बद्धः स बद्ध एव एवं च सति सर्वथा मुक्तिविलय एव । तथा च सति कः पापमपहाय पुण्यं पुण्यनैपुण्येन | संगृह्णीयात् । कश्चात्मारामा विरामविश्रामेण माध्यस्थ्यमवलम्ब्य सम्यक्त्तत्त्वोपनिपातप्रवृत्तिं कुर्यात् । एवं च सति सर्वध| विलय एव । तथा च सर्वशास्त्राम्भोधि कुम्भसंभवत्वाविर्भावो नित्यैकान्तवादिभिरेवोक्तः स्यात् । तस्माद्युक्तमेवोक्तम् । पुण्य| पापे बंधमोक्षौ न नित्यैकान्तदर्शने इति । तथाऽनित्यैकांतदर्शनेऽपि न पुण्यापुण्यसंभवः । कथमिति चेदुच्यते । क्षणिको
सविवर.
| ॥२४॥
ainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
ह्यात्मा पुण्यापुण्यादिकं क्रमेणाचवीत युगपद्वा! क्रमेण चेत्तदा यस्मिन् क्षणे पुण्यं तदा नापुण्यमाक्रान्तम् , एवं क्षणिकत्वक्षतिः द्वितीयमपुण्यक्षणं यावदात्मनोऽनवस्थानात्। युगपत्पक्षस्तु विरोधवाधाकर एव । एवं वन्धमोक्षावप्येकान्तानित्यपक्षे विचार्यमाणो विशीर्येते अत एकान्तनित्यानित्यपक्षौन क्षेमङ्करी, तस्मान्नित्यानित्य आत्मा पुण्यपापबन्धमोक्षाद्यन्यथानुपपत्तेरिति । एवं च सत्त्वस्यैकान्तनित्यतायामेकान्तानित्यतायां च 'न' केवलं कृतनाशाकृतागमसंनिपातविनिपात एव । किश्चात्मनोऽपि तथात्वाभ्युपगमे न केवलं सुखदुःखभोगपुण्यपापबन्धमोक्षक्षतिरेव यावदखिलस्याप्यात्मादिवस्तुस्तोमस्य नित्यानित्यतायामनाद्रियमाणायामकाण्डकूष्माण्डो दसोदरमनर्थान्तरमपि निपततीत्याह ॥ | क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि। एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि॥४॥
अप्रच्युतानुत्पन्नस्थिरैकरूपाणां नित्यानां क्रमेणाक्रमेणाप्यर्थक्रियाकारित्वं न युज्यते । तथाहि-नास्ति नित्यकरूप आत्मादिरनर्थक्रियाकारित्वाद्यद्यदनर्थक्रियाकारितत्तन्नास्तीत्युपलब्धम् , यथा खपुष्पमनर्थक्रियाकारी च नित्यैकरूप आत्मादिस्तस्मानास्तीति निश्चीयते । नचानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धः । अर्थक्रियाकारित्वं हि कार्यकर्तृत्वमुच्यते । तच्चात्मादेः क्रमेण योगपद्येन वा! प्रकारान्तराभावात्। न तावत्क्रमेण घटते, क्रमो हि द्विधा देशक्रमः कालक्रमश्च, न तावद्देशक्रमेण कुर्यात्, देशक्रमो ह्यकत्र देशे कार्यमेकत्वा पुनर्देशान्तरेऽन्यकार्यकरणमुच्यते। न च नित्यैकस्वभावस्येत्थंभूतः क्रमः संभाव्यते, नित्यैकस्वभावताव्याघातप्रसङ्गात् । यदा ह्येकत्र देशे एककार्यमपरं चान्यत्र करोति तदा पूर्वस्मिन् देशे पूर्वकार्यकरणसामर्थ्यमेव नोत्तरकार्यकरणसामर्थ्यमन्यथा पूर्वस्मिन्नेव देशे तस्याप्युत्पत्तिप्रसङ्गः, तथा च पूर्वोत्तरदेशयोः
Jain Education
a l
jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
वीतराग.
॥२५॥
स्वभावभेदान्नित्यैकरूपताव्याघातो भवेदेव । ननु नित्यैकस्वभावस्य पदार्थस्यैकत्र देशे सर्वकार्योत्पादनसामर्थ्य सद्भावेऽपि नोत्तरोत्तरदेशभाविकार्यं भवेत्सहकारिकारणाभावादिति चेदुच्यते, सहकारिणः किं तस्योपकारित्वेनैकार्थकारित्वेन वा ! । प्रथमपक्षे किमसावुपकारस्ततो व्यतिरिक्तोऽव्यतिरिक्तः कथंचिद्व्यतिरिक्तो वा गत्यन्तराभावात् ! । यद्यव्यतिरिक्तस्तदा नित्यताहानिर्न खलूपकारादनित्यादभिन्नस्य भावस्य नित्यत्वं नाम, तत्स्वरूपवत् । भेदैकान्तताभावश्च योगस्य । अथ व्यतिरिक्तो | विधीयते तर्हि तस्येतिव्यपदेशाभावः, संबन्धाभावात् । न च संबन्धाभावोऽसिद्धः । स हि संयोगलक्षणस्तादात्म्यलक्षणः समवायलक्षण उपकार्योपकारकलक्षणोऽदृष्टलक्षणो वा । न तावत्संयोगः, तस्य गुणत्वेन द्रव्यवृत्तित्वाद्रव्ययोरेव संयोग इति वचनात् । नापि तादात्म्यं, तस्यानभ्युपगमादन्यथा नैकान्तवादप्रवेशो योगस्य । नापि समवायलक्षणः, स ह्येकः सर्वगतश्च परैरिष्यते । कथं तद्वशात्तत्रैव तस्य भावो नान्यत्रेति । अथ समवायस्य सर्वगतत्वाविशेषेऽपि समवायिनां प्रतिनियमः प्रत्यासत्तिविशेषसद्भावादिष्यते, स कोऽन्योऽन्यत्र कथंचित्तादात्म्यात् । नाप्युपकार्योपकारकलक्षण उपकारकेण ह्युपकार्यस्योपकारः क्रियमाणो व्यतिरिक्तोऽव्यतिरिक्तो वा ! अव्यतिरेके नित्यत्वमपि कार्यत्वं, व्यतिरेके संबन्धासिद्धिः । अथोपकारेणाप्युपकारान्तरं विधीयते, तर्हि तेनाप्यपरमित्यनवस्था । नाप्यदृष्टलक्षणस्तस्य संबन्धरूपताभावात् । तन्न व्यतिरेकपक्षोऽपि घटते । कथञ्चित्पक्षोऽपि न श्रेयान् उभयपक्षनिक्षिप्तदोषानुषङ्गात्। तन्नोपकारकत्वेन सहकारिणः स्युः, नाप्येकार्थकारित्वेन, न खलु स्वरूपेणाकारकं पररूपेण कारकम्, स्वयमकारकस्य पररूपेणाप्यकारकत्वान्न हि गोधूमबीजं स्वयं यवाङ्कुरस्याकारकं यवसहितमपि तस्य कारकं नाम । किंच । यदि सहकारिभिर्नित्यस्य न किञ्चित्क्रियते तर्हि कथं तेषामपेक्षा, अनुपकारिणा
सविवर.
॥२५॥
jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
Jain Education
मपेक्षाऽयोगात् । ननु न नित्यस्य सहकारिभिः किञ्चित्क्रियते तेन वा तेषाम् ; किन्तु सह मिलित्वा कार्यमेव विधीयते । सह कुर्वन्ति सहकारिण इति व्युत्पत्तेरिति चेत् उच्यते, व्यस्तानां तेषां कार्यकारणसामर्थ्यमस्ति न वा । । यद्यस्ति समुदिता एव कुर्वन्तीति न नियमो लभ्यते, व्यस्तेऽपि कुर्वन्ति । अथ नास्ति कुतस्तद्भवेत् ! कारणाभावात् अन्यत्वानित्यत्वप्रसङ्गात् । ननु नित्यस्य पदार्थस्य न कुतश्चित्कार्यकरणसामर्थ्यमुपजायते, येन तस्यानित्यत्वमापद्यते; किन्तु तस्येत्थंभूतस्वभावो येन सहकारिसहित एव कार्य करोति नान्यदेति चेत् । स स्वभावस्तस्य भावस्य निर्हेतुकः सहेतुको वा ! । प्रथमपक्षे नियते देशे नियते काले च तस्य सद्भावो न स्यात्, न खल्वाकस्मिकस्य तथासद्भावः, कारणाधीनत्वात्तथाभावस्य । अथ सहेतुकः | स यदि सहकारिभ्योऽन्यतो वा भवेत्तस्मात्तदनर्थान्तरं तदा तस्यानित्यत्वम् । अर्थान्तरपक्षस्य कथञ्चित्पक्षस्य च पूर्वमेव निराकृ| तत्वात् । किंच सहकारिणः किं नित्या अभ्युपगम्यन्ते अनित्या नित्यानित्यरूपा वा ? । प्रथमे विकल्पे नित्यवत्प्रसङ्गो, द्वितीयेकाचपिच्यम्, तृतीयस्तु न श्रेयाननभ्युपगमात्तन्न नित्यस्य पदार्थस्य देशक्रमेण कार्यकारित्वं घटते । नापि कालक्रमेण, कालक्रमस्यापि नित्यैकस्वभावस्य भावस्यासंभवः । स ह्येकदा काले कार्य कृत्वा पुनः कालान्तरे कार्यकरणमुच्यते । नच नित्यैकस्वभावस्य भावस्येत्थंभूतः कालक्रमेण घटते सर्वथा नित्यत्वव्याघातप्रसङ्गादिति कालक्रमेणापि न कार्यकारित्वं घटते । नापि यौगपद्येन, यौगपद्यं ह्येकस्मिन् कालान्तरभाविसकलकार्यकारित्वं, तत्र च क्रमेण कार्योपलम्भो न स्यादस्ति च कार्योपलम्भस्तथाह्यन्तस्तावदात्मनः स्रक्चन्दनवनितादिसामग्री संनिपाते सुखलक्षणं कार्यमुपलभ्यते अहिकण्टकविषादिसंनिधानात्त
१ खभावः सचेत् ( इत्यधिकं प्रत्यन्तरे ) । २ संभवात् । ३ क्रमो । ४ संनिधौ ।
jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
वीतराग
॥२६॥
USACROSOLURAUTELUGU
दुःखम् , न पुनर्यस्मिन्नेव क्षणे सौख्यं तस्मिन्नेव दुःखं तथोपलम्भाभावाद्, उभयसामग्यसंनिधाने त्वौदासीन्यम् । तथा बहिरपि सविवर. मृपिण्डात् कुम्भकारव्यापारचक्रचीवरादिसामग्रीसंनिपाते घटस्ततो घटी ततः कालान्तरे करकादिकमिति, न पुनरेकस्मिन्नेव है। क्षणे सर्वः तथोपलम्भाभावात् । किंच। यदि यौगपद्येन कार्य करोति; तयकस्मिन्नेव समये सकलस्य कार्यकदम्बकस्य निष्पादितत्वात् द्वितीयादिक्षणे कार्याकर्तृत्वेनावस्तुत्वं स्यात् । ननु च पुरुषस्य चेतनैवार्थक्रिया; न पुनः स्वव्यतिरिक्तस्य प्रमाणप्रमितिरूपलक्षणस्य कार्यस्यान्यस्य वा अयनादिलक्षणस्य कर्तृत्वमिष्यते; तस्य प्रधानहेतुकत्वात् । नच चेतना पुंसोऽर्थान्तरमेव; तस्य चेतनालक्षणत्वात्। चैतन्यं स्वरूपं पुरुषस्येतिवचनात्। नचानित्या चेतना पुरुषस्वभावतस्तन्नित्यवत् सा | नित्या, तस्याः प्रधानस्वभावत्वे पुरुषकल्पनावैफल्यग्रसङ्गात् तदनित्यत्वप्रसङ्गाच्च सुखादिवत् । नच नित्यायाश्चेतनायाः | परस्यार्थक्रियात्वं विरुध्यते, धात्वर्थरूपायाः क्रियायाः प्रतिघाताभावात् , सत्तावत्। ततोऽर्थक्रियास्वभावत्वादात्मनो वस्तुत्वमेव । नार्थक्रियाकारणस्यैव वस्तुत्वमर्थक्रियायाः स्वयमवस्तुत्वापत्तेः, तत्रार्थक्रियान्तराभावाद्; अन्यथानवस्थाप्रसङ्गात् । स्वतोऽर्थक्रियाया वस्तुत्वस्वभावत्वे पुरुषस्यापि स्वतः समर्थक्रियास्वभावत्वान्नित्यं वस्तुत्वमस्तु; विक्रियाविरहेऽपि नित्यकारकत्वस्यापि घटनादिति साङ्खयः कश्चित् । सोपि न दक्षः प्रमाणविरोधात्। अध्यक्षतो लिङ्गजादेर्वा नित्यार्थक्रियायाः कदाचिदपरिवेदनात् । स्वसंवेदनमेव नित्यचेतनार्थक्रियां परिच्छिनत्तीतिचेन्न, तथा तद्बुद्ध्यानध्यवसायात् । न खलु बुद्ध्यान
॥२ | ध्यवसितां चेतना पुरुषश्चेतयते, बुद्धिपरिकल्पनावैयर्थ्यप्रसङ्गात् । सर्वस्य शब्दादेविषयस्य बुद्ध्यध्यवसितस्यैव पुंसां संवे
(१) नेदं । २ नित्यत्व । ३ सतत । ४ क्रिया ।
Jain Education
For Private & Personel Use Only
D
ainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
द्यत्वसिद्धेः। स्यान्मतम् !न चेतना नाम विषयभूतार्थान्तरमात्मनोऽपि या बुद्ध्याध्यवसीयते; तस्यास्तत्स्वरूपत्वात् , स्वतःप्रकाशनाच्चेति । तदप्यनुपपन्नम् । तदर्थक्रियाकारित्वायोगाद् , नह्यर्थक्रियावत् स्वरूपमेव सदवस्थाप्यर्थक्रिया प्रसिद्धाऽस्ति । तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपादानेन च तस्मिन् परत्र च प्रतीतेः । सोऽयं पूर्वापरस्वभावपरिहारावाप्तिलक्षणार्थक्रियां कूटस्थेऽपि ब्रुवाणः कथमनुन्मत्तः स्यात्तत एकान्तनित्यत्वं प्रेक्षादक्षैरर्थक्रियासमर्थत्वं यथा २ विचार्यते तथा २ वि-1 शीर्यते। अथ बौद्धः प्राह ॥ नित्यैकान्ते पूर्वोक्तप्रकारेणार्थक्रियाकारित्वस्यासंभवादस्मत्पक्ष एव क्षणिकैकान्तलक्षणः श्रेयान् । तदपि न; तत्रापि तस्यासिद्धेः । तथाहि-नास्ति क्षणिकैकान्तोऽनर्थक्रियाकारित्वाद्यद्यदनर्थक्रियाकारितत्तन्नास्तीत्युपलब्ध यथा ब्रह्माद्वैतम्। अनर्थक्रियाकारी च क्षणिकैकान्तः तस्मान्नास्तीतिनिश्चीयते। न चानर्थकारित्वादित्ययं हेतुरसिद्धस्तत्क्षणिकै-12 कान्तेऽविद्यमानत्वात्तथाहि-सर्वथा क्षणिकः पदार्थः स्वामर्थक्रियां क्रमेण करोति यौगपद्येनोभयरूपेण वा!न तावद्देशकमेण कालक्रमेण वा स्वं कार्य कर्तुमलं, तस्याक्रमत्वाद्, न चाक्रमस्यापि क्रमेण कार्यकारित्वं घटते, सर्वथा नित्यवद्, नापि योगपद्येनैकस्मिन्नेव क्षणे सकलकार्यकदम्बस्य निष्पादितत्वात् द्वितीयादिक्षणे क्षणिकत्वे तस्यासत्त्वात्सकलशून्यता स्यान्नचैवम् ।। किंच । यदि यौगपद्येन कार्य करोति तर्हि क्रमेण कार्योपलम्भोन स्यादू, अस्ति च,कुम्भकार एकस्मिन् क्षणे घटं कुर्वन्नुपलभ्यते द्वितीयादौ च घटादिकमिति। नाप्युभयरूपेणोभयपक्षनिक्षिप्तदोषानुषङ्गात् । करोतु वा यथाकथञ्चिदू , विद्यमानोऽविद्यमान उभयरूपो वा करोति ! न तावद्विद्यमानः, क्षणभङ्गभङ्गप्रसङ्गात् । किंच । यदि सन्नेव क्षणिकः पदार्थः कार्य 5 करोति तर्हि त्रैलोक्यमेव क्षणवर्ति स्यात्, कारणकाल एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य सत्त्वात्तेषां च सन्तानाभावः
मेण कालक्रमण सकलकार्यकदम्बस्य निष्पादितत्वात् द्वितावास्या,अस्ति च,कुम्भकार एकस्मिन् क्षणे घट या
Jain Educatio
n Koli
al
For Private
Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
वीतराग. ॥२७॥
Jain Education
स्यात् । नाप्यविद्यमानश्चिरतरविनष्टवत्, नाप्युभयरूप उभयपक्षनिक्षिप्तदोषानुषङ्गात् । एवमेकान्तक्षणिकत्वपक्षेऽपि नार्थक्रियाकारित्वं घटाकोटिसंटङ्कमाटीकते । तस्मादेकान्तमताभिनिवेशः परतीर्थिकानां कदाशापाश एव ॥ एतदेव निगमयन्नाह ॥ यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥ ५ ॥
यदा पुनर्वस्तुनो विवादास्पदीभूतस्य स्तम्भकुम्भरम्भाम्भोरुहादेर्नित्यानित्यरूपता भवेत्, तदा नैव दोषः कालुष्यलक्ष्यता काचन । ननु नित्यानित्यत्वं को वै न मन्यते । परमाणुरूपतया नित्यस्य, कार्यरूपतया चाऽनित्यस्य स्तम्भादेर्वस्तुनो वैशेषिपिकैः परस्परनिरपेक्षतया मीमांसकैश्चाभ्युपगमादस्त्वेवमिति चेदित्यारेकामेकामाशङ्कय भगवन्तं साक्षात्कुर्वन्नाह । यथेत्यादि । हे भगवन् यथैव त्वमात्थं वस्तुनो नित्यानित्यत्वं तथैव न दोषः, अन्येषां नानादोपकल्मषमपी कलुषितत्वात् ! | एतदवष्टम्भाय दृष्टान्तमाह ॥
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥ ६ ॥ निगदसिद्धोऽयम्॥ ननु नित्यानित्यभेदाभेदसत्त्वासत्त्वसामान्य विशेषात्मकाभिलाप्यानभिलाप्यात्मके तत्त्वे मन्यमाने दुर्धरविरोधगन्धविधुरता धुरन्धरतां धारयति । तथाहि यदि भेदस्तर्ह्यभेदः कथमभेदश्चेत्तर्हि भेदः कथं स्यादिति (विरोधः) ॥ १ ॥ तथा यदि भेदस्याधिकरणं तर्ह्यभेदस्य न भवेदथाभेदस्य तर्हि भेदस्य न स्याच्छीतोष्णस्पर्शवद्, नहि यदेव धूपदहनादिकं शीतं तदेव चोष्णमुपलभ्यते तथाप्रतीतेरभावादिति वैयधिकरण्यम् ॥ २ ॥ तथा येन रूपेण भेदस्तेनाभेदोऽपि येनाभेदस्तेन भेदोपि १ लक्षता । २ ब्रुध्वे ।
*
सविवर
॥२७॥
Jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
SROCHOREOGREATERA
स्यादितिव्यतिकरः “परस्परविषयगमनं व्यतिकर इतिवचनात् ॥३॥ तथा येन रूपेण भेदस्तेनाभेदो येन चाभेदस्तेन भेदोऽपि स्यादितिसङ्करः। “सर्वेषां युगपत्प्राप्तिःसङ्कर इतिवचनात्"॥४॥तथा येन रूपेण भेदस्तेनाभेदोऽपि येन चाभेदस्तेन भेदोऽभ्युपगन्तव्योऽन्यथा सर्वमनेकान्तात्मकमित्यस्य विरोधानुषङ्गात् । तथाच भेदाभेदावपि प्रत्येकं भेदाभेदात्मकौ स्यातां । तत्रापि प्रत्येकं भेदाभेदात्मकत्वपरिकल्पनायामनवस्था स्यात् ॥ ५॥ तथा केन रूपेण भेदः केन चाभेद इति संशयः॥६॥तथा भेदरूपमभेदरूपं वा दृष्टं वस्तु नाभ्युपगम्यते अदृष्टं च भेदाभेदात्मकं परिकल्प्यते इति दृष्टहानिरदृष्टपरिकल्पना च स्यात् ॥७॥ तथा च परिकल्पितस्य वस्तुनोऽभाव एव युक्तः॥८॥ किंच नानावस्तुधर्मापेक्षया सर्वमनेकान्तात्मकमुत तन्निरपेक्षतया प्रत्येकं सर्व वस्त्विति ! प्रथमे पक्षे सिद्धसाध्यता । द्वितीयेऽपि पक्षे विरोधादिदोषः॥९॥ किंच, किं क्रमेण सर्वमनेकान्तात्मकमभ्युपगम्यते योगपद्येन वा! प्रथमपक्षे सिद्धसाध्यता द्वितीयपक्षे तु स एव दोष इति ॥१०॥ किंचानेकधर्मान् वस्तु किमेकेन स्वभावेन नानास्वभावैा(वा व्या)नुयादिति। यद्येकेन तदा तेषामेकत्वं वस्तुनो वा नानात्वं स्यादेकस्यैकत्र प्रवेशादिति । अथ नानास्वभावस्तर्हि तानपि नानास्वभावान् किमेकेन स्वभावेन व्यामुयात् नानास्वभावैर्वा !। यद्येकेन तदा सर्वधर्माणामेकत्वं वस्तुनो वा नानात्वं स्याद्, अथ नानास्वभावैस्तर्हि तानपि किमेकेन स्वभावेन नानास्वभावैार्वा व्या) मुया 3 दित्यादि सर्व वक्तव्यमनवस्था च । किंच यदि सर्व वस्त्वनेकान्तात्मकमभ्युपगम्यते तर्हि जलादेरप्यनलादिरूपता अनलादेवा |जलादिरूपता भवेत्तथा जलाद्यर्थिनो जलादावनलाद्यर्थिनश्चानलादौ प्रवृत्तिर्न स्यादन्योन्यविरुद्धस्यापि धर्मस्य सद्भावात् ।
१ खभावेन ।
CTE
en Education
For Private
Personal use only
A
jainelibrary.org
Page #70
--------------------------------------------------------------------------
________________
वीतराग.
॥२८॥
Jain Education
को हि नाम विवक्षितार्थे विवक्षितार्थक्रियाकारिरूपमिवाविवक्षितार्थक्रियाकारिरूपमुपलभमानो विवक्षितार्थक्रियार्थी तत्र | प्रवर्त्तेत प्रेक्षापूर्वकारी । नचैवं ! विवक्षितार्थे विवक्षितार्थक्रियाकारिण्येव विवक्षितार्थक्रियार्थिनः प्रवृत्तिदर्शनात् ॥ किंच ॥ प्रमाणमप्यप्रमाणमप्रमाणं वा प्रमाणं भवेत्तथाच सर्वजनप्रसिद्ध प्रमाणाप्रमाणव्यवहारविलोपो भवेत् । किंच । सर्वज्ञोप्य| सर्वज्ञः स्यात् । किंच ॥ सिद्धस्याप्यसिद्धत्वं स्यात् । किंच । येन प्रमाणेन सर्वस्यानेकान्तरूपता प्रसाध्यते तस्य कुतो नैकान्तरूपतासिद्धिर्यदि स्वतस्तर्हि सर्वस्यापि तथा भविष्यति किं प्रमाणकल्पनया । अथ परतस्तर्ह्यनवस्था । किंचानेकान्तबाधकं प्रमाणमस्ति । तथाहि ॥ भेदाभेदादिकौ धर्मों नैकाधिकरणौ परस्परविरुद्धधर्मत्वाच्छीतोष्णस्पर्शवदिति तस्मादेकान्तरूपमेव वस्त्वितिविरोधादीनाशङ्कय तान्निराकुर्व्वन्नाह ॥
द्वयं विरुद्धं नैकत्रासत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥ ७ ॥
एकस्मिन् पृथ्वीपृथ्वीधरादौ वस्तुनि नित्यानित्यात्मकरूपं द्वयं न विरुद्धम् । न च विरोधोपलक्षितवैयधिकरण्यादिदोषकलुषं । कथमिति चेदित्याह असत्प्रमाणप्रसिद्धेः, किमपि न तत्प्रमाणं प्रामाणिकंमन्यैः प्रमाणीक्रियते येन विरोधादीनां सिद्धिः साध्यते । यत्तावदुक्तं विरोधो वाधकः स्यादिति तदयुक्तम् । पर्यायरूपतया भेदोऽभ्युपगम्यते, द्रव्यरुपतया चाभेदस्तयोश्चैकत्र रूपरसयोरिव सत्त्वासत्त्वयोरिव वाऽविरोधसिद्धेः, प्रतीयमानयोश्च कथम् विरोधो नाम, स ह्यनुपलम्भसाध्यो यथा वन्ध्यागर्भे स्तनन्धयस्य । ननु सत्त्वासत्त्वयोरिवेति दृष्टान्तोऽप्यसिद्ध इति चेत् । तन्न, स्वद्रव्यक्षेत्रकालभावापेक्षया सत्त्वरूपस्य | परद्रव्य कालभावापेक्षया चासत्त्वस्यैकस्मिन् क्षणे सर्वस्य पदार्थस्य प्रत्यक्षादिबुद्धौ प्रतिभासनात् । न खलु पदार्थस्य सर्वथा
सविवर.
ારદ્વા
jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
| सत्त्वमेव स्वरूपं स्वरूपेणेव प्रतिरूपेणापि सत्त्वप्रसङ्गात् । नच स्वरूपेण सत्त्वमेव पररूपेणासत्त्वं, पररूपेण वासत्त्वमेव स्वरूपेण सत्त्वं, तदपेक्ष्यमाणनिमित्तभेदात् । स्वद्रव्यादिकं हि निमित्तमपेक्ष्य सत्त्वप्रत्ययं जनयति पदार्थः । परद्रव्यादिकं त्वपेक्ष्या सत्त्वप्रत्ययमित्येक द्वित्वादिसङ्ख्यावदेकस्मिन्पदार्थे सत्त्वासत्त्वयोर्भेदो न चैकस्मिन् वस्तुनि वस्त्वन्तरमपेक्ष्य द्वित्र्या| दिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्षैकत्वसङ्ख्यातो नान्या प्रतीयते । नापि सारूप्यात्तद्वतो भिन्नैवास्यासङ्घयेयत्वप्रसङ्गात् । सङ्ख्यासमवायात्तत्त्वमित्यप्ययुक्तं, कथश्चित्तादात्म्यव्यतिरेकेण समवायस्यासंभवात् । तस्मात् सिद्धोऽपेक्षणीयभेदात्सं| ख्यावत्सत्त्वासत्त्वयोर्भेदस्तथाभूतयोश्चानयोरेकस्मिन् पदार्थे प्रतीयमानत्वात् कथं विरोधो ! यतो दृष्टान्तो न स्यात् । भ्रान्तेयं प्रतीतिरित्यपि मिथ्या, बाधकस्याविद्यमानत्वात्, विरोधो वाधक इत्यप्यसत्यमितरेतराश्रयानुषङ्गात् । सति हि विरोधे तेनास्या वाध्यमानत्वाद्रान्तत्वम्, ततश्च तद्विरोधसिद्धिरिति । विरोधश्चाविकलकारणस्यैकस्य भावतो द्वितीयसंनिधानेऽसत्त्वा न्निश्चीयते, यथोष्णसंनिधाने शीतस्य । नच पर्यायरूपेण भेदस्य सन्निधाने द्रव्यरूपेण भेदस्याभाव उपलभ्यते । किंचान| योर्विरोधः किं सहानवस्थानस्वभावो घटते ! मृद्रव्यलक्षणे पदार्थे मृद्रव्यरूपतयाऽभेदस्य घटादिपर्यायरूपतया भेदस्याध्यक्ष|द्धौ प्रतीयमानत्वात् । नच तथाप्रतीयमानयोरप्येकत्र तयोर्विरोधो युक्तो, रूपरसयोरपि तत्प्रसंगात् । परस्परपरिहारस्थिति| स्वभावस्तु विरोधी घटादेर्भेदाभेदयोः सत्त्वासत्त्वयोर्वा रूपरसयोरिव सतोरेव नासतोर्नापि सदसतोः संभवति । वध्यघातकस्वभावोऽपि विरोधोऽहिनकुलयोरिव बलवदबलवतोर्नच भेदाभेदयोः सत्त्वासत्त्वयोर्वा बलवदवलवद्भावो दृश्यते । नहि २ संख्यामेव नारोहति । ३ भवतो ।
Jain Education nal
१ पर ।
jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
वीतराग.
॥२९॥
Jain Education
यथा नकुलेन बलवता सर्पस्य विघातः क्रियमाणो दृश्यते; तथा भेदेनाभेदस्याभेदेन च भेदस्य विघातो दृश्यते, तथाप्रती| तेरभावात् । भवतु वा कश्चिद्विरोधः तथाप्यसौ सर्वथा कथञ्चिद्वा स्यात् गत्यन्तराभावात् ! न तावत् प्रथमपक्षो घटते, शीतोष्णस्पर्शयोरपि प्रमेयत्वादिना विरोधासिद्धेः । एकाधारत्वेन चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित् प्रदेशे शीत| स्पर्शः क्वचिच्चोष्णस्पर्शः प्रतीयत एव अथानयोः प्रदेशयोर्भेद एवेष्यते भवतु नामानयोर्भेदो धूपदहनाद्यवयविनस्तु न भेदो नचोष्णशीतोष्णस्पर्शाधारता नास्तीति वक्तुं युक्तमध्यक्षविरोधात् । तस्मान्न सर्वथा भावानां विरोधो घटते । कथञ्चिद्विरोधस्तु सर्वभावेषु तुल्यो न बाधकः । यच्चोक्तं वैयधिकरण्यं स्यादिति तदप्यसत्यं । निर्वाधप्रत्यक्षं भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् । न खलु तथाप्रतीयमानयोर्वैयधिकरण्यं रूपरसयोरपि तत्प्रसंगात् । उभयदोषोऽपि न घटते । प्रतीयमाने कथमुभयदोषो नाम नानादोपोपि न स्यात् । यथैव हि घटादौ भेदोऽनुभूते तथाऽभेदोपीति कथं नानात्व| दोषः, सरव्यतिकरावपि न स्तः । भेदाभेदयोरेकस्मिन् पदार्थे स्वरूपेण प्रतीयमानत्वात् । यच्चोत्तमनवस्था स्यात् । तदप्यनुपपन्नं वस्तुन एव भेदाभेदात्मकत्वाभ्युपगमात् न पुनर्भेदाभेदयोः । पदार्थस्य तु भेदो धर्म एवाभेदस्तु धर्म्येवेति कथमनवस्था, न चैकान्ताभ्युपगमो दोपाय सम्यग्नयविषयस्य भेदस्याभेदस्य च स्याद्वादिभिरभ्युपगतत्वात् । संशयोऽपि न युक्तो भेदाभेदयोः स्वरूपेण प्रतीयमानत्वादेकस्मिन् भेदाभेदाप्रतीतौ हि संशयो युक्तः क्वचित् प्रदेशे स्थाणुपुरुषत्वामतीतौ तत्संशयवत् चलिता च प्रतीतिः संशयो नचेयं चलिता । तथा दृष्टहानिरदृष्टकल्पना च न स्यात् । भेदाभेदात्मकस्य २ अत एव । ३ धर्मयोः ।
१ निर्बाधकं ।
onal
सविवर.
॥२९॥
jainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
वस्तुनः प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात्, तत एवाभावोऽपि न युक्तः। यच्चोक्तं नानावस्तुधर्मापेक्षयेत्यादि । तदसत्यं । न खलु नानावस्तुधर्मापेक्षयकस्यानैकान्तात्मकत्वमङ्गीक्रियते येन सिद्धसाधनं स्याद् । अपि त्वेकस्यैव वस्तुनः स्वधर्मापेक्षया। न च तत्र विरोधादिदोषानुषङ्गस्तस्य प्रागेव निराकृतत्वाद्, यच्चोक्तं क्रमेणेत्यादि। क्रमेणाक्रमेण वानेकान्तस्याभ्युपगतत्वात नचे युक्तं क्रमभाविधर्मापेक्षया हि क्रमेणाक्रमभाविधर्मापेक्षयाऽक्रमेणेति । यच्चोक्तमनेकधर्मान् वस्तु किमेकेन स्वभावेन व्याप्नुयान्नानास्वभावैर्वेत्यादि । तत्र नैकेन स्वभावेन नानास्वभावैर्वा भिन्नवस्तु भिन्नान् स्वभावान् स्वतो व्याप्नुयादिति जैनो मन्यते; किं तर्हि स्वकारणकलापादनेकस्वभावात्मकं मतमिति । यच्चोक्तं जलादेरप्यनलादिरूपता स्यादित्यादि । तदप्यनुपपन्नं । जलादेहि स्वरूपापेक्षया जलादिरूपता न पररूपापेक्षया, ततो न जलादौ जलार्थिनोऽनलादिरूपस्य दर्शनं यतस्तत्र प्रवृत्तिन स्यात् प्रेक्षापूर्वकारिण इति । यच्चोक्तं प्रमाणमप्यप्रमाणं स्यादित्यादि । तदपीष्टमेव । प्रमाणस्य स्वरूपापेक्षया प्रमाणरूपतायाः पररूपापेक्षया चाप्रमाणरूपतायाः स्याद्वादिनामिष्टत्वात् । ततो न लोकप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोपः स्यादुक्तन्यायेन प्रमाणाप्रमाणव्यवहारस्य लोके प्रमाणेऽपि सुप्रसिद्धत्वादिति । यच्चोक्तं सिद्धोप्यसिद्धः स्यादित्यादि । तदपीष्टमेव । पररूपापेक्षया सिद्धस्याप्यसिद्धरूपताया अभ्युपगतत्वादिति । यच्चोक्तं सर्वज्ञोप्यसर्वज्ञः स्यादिति । तदपीष्टमेव । सर्वज्ञरूपी सर्वज्ञस्याप्यसर्वज्ञताया अभ्युपगतत्वादिति । प्रकारान्तरेण तस्यासर्वज्ञता न संभवत्येव । प्रमाणबाधनादिति। यच्चोक्तं येन प्रमाणेन सर्वज्ञस्यानेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपता सिद्धास्यादित्यादि।
१ तद्युक्तं । २ रूपेण ।।
Jain EducationaT
al
I
Page #74
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
॥३०॥
तत्रोच्यते । प्रमेयं हि द्विविधमचेतनं चेतनं च, तत्राचेतनं स्वपराध्यवसायविकलं न खस्यैकान्तरूपतामनेकान्तरूपतां च परिच्छेत्तुमलम् । चेतनेन तत्रानकान्तरूपता परिच्छिद्यते । चेतनं तु स्वस्याप्यनेकान्तरूपं परिच्छेदयितुं समर्थ न तत्रापरं प्रमाणमपेक्षते येन चानवस्था स्यात्तथाहि चित्ररूपं वस्तु येन प्रत्यक्षेणानुमानेन वा परिच्छिद्यते तत्स्वरूपापेक्षयात्मनो भावं पररूपापेक्षया चाभावं परिच्छिनत्त्यन्यथा यथावदसंकीर्णस्वरूपस्य ग्राहकं न स्यान्न चैवं व्यावृत्ताव्यावृत्तरूपस्य प्रमाणस्य सिद्धरूपत्वादिति । यस्य तु कस्यचित्तत्र स्वदुरागमाहितवासनावशादेकान्तसमारोपः सोऽपि तस्य न्यायान्तरानिराकर्त्तव्यः। तथाहि-धूमादिलिङ्गस्य यथा स्वसाध्यं प्रति गमकत्वं तथा साध्यान्तरं प्रत्यप्युतान्यथेति । यदि गमकत्वमेवाङ्गीक्रियते । तदा साध्यान्तरस्यापि तत एव सिद्धेलिङ्गान्तरकल्पनावैफल्यं स्यात् । ततः सर्वस्यापि साध्यस्य सिद्धिरिति॥ उतान्यथा तर्हि यथैकं लिङ्गं गमकत्वागमकत्वरूपेणानेकान्तरूपं तथा सर्व वस्तु स्वपरकार्यकारणसामर्थ्यासामर्थेनानेकान्तरूपमस्तु विशेषाभावादिति । यदप्युक्तं बाधकं प्रमाणमस्ति भेदाभेदी नैकाधिकरणावित्यादीति । तदप्यनुपपन्नं पक्षस्य प्रत्यक्षेण वाध्यमानत्वाद्धेतोश्च कालात्ययापदिष्टत्वात् अनुष्णोऽग्निद्रव्यत्वाजलवदित्यादिवदिति । भेदाभेदयोरेकाधिकरणत्वेन प्रत्यक्षबुद्धौ प्रतिभासनान्नैवोभयोर्विरुद्धधर्मयोरपि सतोः कापि क्षतिरीक्ष्यत इति पर्यालोच्य स्तुतिकृदपि विरोधाभावमाह-विरुद्धेत्यादि । हिर्यस्माद्विरुद्धवर्णसंबन्धो मेचकवस्तुषु मिश्रवर्णपदार्थेषु दृष्टः परं न तत्रैतषणघोषणान्वेषणापि कर्तुं पार्यते । यदि तत्रापि वाडिण्डिमाडम्बरप्रचण्डपाण्डित्यपाटवशीलैः प्रत्यक्षादिप्रमाणोपपन्ने कापि युक्तिः प्रपश्यते ।
१ रूपतां ।
॥३०॥
Jain Education
!
For Private & Personel Use Only
IGNMainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
तदा एवमप्यस्तु । अनुष्णोग्निद्रव्यत्वाजलवत् । अथैतत्प्रत्यक्षबाधितपक्षानन्तरनिर्दिश्यमानत्वेन कालात्ययापदिष्टं । आः परमबन्धो पिब पीयूषयूषं वयमपि हस्तमुत्क्षिप्य एवमेव वदामो मेचकवस्तुवत्प्रत्यक्षोपपन्नेप्यनेकान्ते का उक्तिनिरुक्तिप्रप|ञ्चचातुरी तस्माद्विरोधादिदूषणवारणगणाधर्षणीयपरप्रौढिरूढिप्रपन्नो नैकान्तकेशरी ॥ ननु भोः सभ्या निभालयन्तु कौतु* कम् । एते बौद्धादयः स्वयमभ्युपगम्यापि स्याद्वादवादं निराकुर्वन्तः किं न कुर्वन्ति स्वाधिरूढशाखामोटनन्यायम् । एतदेव टू पराभ्युपगतानेकान्तवादसंवादद्वारेण दृष्टान्तयुक्त्या स्पष्टयन्नाह ॥
विज्ञानस्यैकमाकारं नानाकारकरंबितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥ ८॥ | विज्ञानस्य संविद एकमेव स्वरूपं नानाचित्रपटाद्यनेकाकारमिअंसमालिखन् बौद्धो नानेकान्तं निराकुर्यात् अत एव प्राज्ञोज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं ग्राहकं तस्य व चां'शा ग्राह्याः इत्येकस्यैव ग्राह्यत्वं ग्राहकत्वं चाभ्युपगच्छन् कथमनेकान्तवादं निराकुर्यात् । यदि प्रकर्षणाज्ञानं स्यात् यत् एकत्र चित्रपटीज्ञाने नीलानीलयोः परस्परविरुद्धयोरप्यविरोधिनोरुररीकारात्तस्मात्तथागतैरप्युपगत एव स्याद्वादवादः । नैयायिकवैशेषिकयोरपि सम्प्रति सम्प्रतिपत्तिमाह ॥
चित्रमेकमने च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥ ९॥ | एकं चित्रं रूपं तत्रैव चानेकाकाररूपं प्रमाणोपपन्नं वदन्तावक्षपादकणादौ न स्याद्वादं निराकुरुतस्तेषां हि मते मेचकज्ञानमेकमनेकमनेकाकारमुररीक्रियते यतस्तेषामेव सिद्धान्तसिद्धिः 'एकस्यैव चित्रपटादेश्चलाचलरक्तारवृतानावृताद्य
Jain Educaci
o
nal
For Private & Personel Use Only
djainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
वीतराग.
॥३१॥
Jain Education
नेकविरुद्धधर्मोपलम्भेऽपि दुर्लभो विरोधगन्धः तस्मादस्मद्वत् यौगिकवैशेषिकावनेकान्तमतानुमतिं वितन्वन्तौ ॥ तथा | कापिलोऽपि न स्याद्वादवादापलापचापलपापमवाप्नुयादित्येतदेव स्तुतिकृत्प्रथयन्नाह ॥
इच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥ १०॥ सावतां मुख्य मुख्याभिधेयनामधेयः साङ्ख्यः प्रधानं प्रकृतिमहदादि उत्पादमूलहेतु सत्त्वरजस्तमोभिर्गुणैरन्योन्यविरोधदुर्द्धरैरपि प्रथितमविरुद्धतयाभिदधानः स्वात्मनो नानेकान्तमतवैमुख्यमाख्याति । तन्मते हि प्रकृतिरेका महदाद्या|त्मिकाने का काराभ्युपपद्यते । ततस्साङ्ख्या अध्यनेकान्तमतसम्मुखा एव ॥ ननु भोः क एष आर्हतमतपाण्डित्यविशेषमाविष्कुर्वन् दुर्गत सौगताद्यङ्गीकृतचित्रज्ञानाद्यवष्टम्भेन स्याद्वादवादं स्पष्टयन्नाचष्टे ! प्रथमं तावज्जीव एव नास्ति क्व तदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गसर्गसङ्कथा । तथाहि सकलेप्यस्मिन्नविकले जीवलोके न खलु भूतचतुष्टयव्यतिरिक्तं किमपि वस्त्वन्तरमस्ति, प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वात्, यद्यदेवं तत्तन्नास्ति यथा तुरङ्गमोत्तमाङ्गशृङ्गं । नच वाच्यं प्रतिप्राणिप्रसिद्धस्य चैतन्योपलम्भस्यान्यथानुपपत्त्या तद्धेतुः कश्चिदवश्यं परिकल्पनीयः । भूतचतुष्टयस्य तद्धेतुत्वेनाविगानात् । अथेत्थमाचक्षीथाः कथं जडात्मकानि भूतानि तद्विलक्षणं बोधरूपं चैतन्यं जनयेयुरिति । तदपि न खल्वेकान्ततः कारणानुरूपमेव कार्यमुपपद्यते अननुरूपस्यापि दर्शनात्, यथां मद्याङ्गेभ्यो मदशक्तिः । एवं च वपूरूपपरिणतानि | महद्भूतान्येव स्वस्वरूपजडस्वभावव्यतिरिक्तं चैतन्यमुद्बोधयन्ति, तच्च कार्याकारविवर्त्तेष्ववतिष्ठते तदभावे पुनर्भूतेष्वेव | लीयत इति न कश्चिद्भूतोद्भूतचैतन्यव्यतिरिक्तश्चैतन्यहेतुतया परिकल्प्यमानः परलोकयायी जीवोऽस्ति दृष्टहान्यदृष्टपरि
सविवर.
॥३१॥
lainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
OCROSHDOCTOREOGRESUCCESS
कल्पनाप्रसङ्गात् । एवं च सति परलोकोऽपि प्रत्युक्त एवावगन्तव्यः । परलोकयायिनोऽभावे परलोकस्यानुपपन्नत्वात् । सति हि धर्मिणि धर्माश्चिन्त्यमानाः समीचीनतामुपचिन्वन्ति । किंच ॥ परलोकयायिजीवसुखदुःखनिबन्धनौ धर्माधर्माव-18 प्याकाशकुशेशयनीकाशौ । तथा तत्फलभोगभूमिप्रतिमस्वर्गनरकादिकल्पनमप्यलीकसङ्कल्पविलसितम् । विना हि धर्माधौं कुतस्तत्फलभोगभूमिसंभवः। तथैव तवैकान्तिकपुण्यपापक्षयोत्थमोक्षपक्षपातिताशा विगलितदृशश्चित्रशालोपवर्णनमिव कस्य नाम न हास्याय स्यादिति यत्किञ्चिदेतत् । अत्र प्रतिविधीयते। योऽयमतिप्रमाणप्रवीणेन भवतात्मनिरासाय प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वादिति हेतुरुपन्यस्तः स एव तावदसिद्धः । जीवस्य संवेदनप्रत्यक्षविषयत्वात् तथाहि-सुख्यह दुःख्यहमित्यादिस्व संबद्धस्वसंवेदनप्रत्यक्षेणावगम्यते जीवः । सर्वकालं निर्वाधत्वेन च नायं प्रत्ययो भ्रान्तः । चैतन्यान्वितदेहलक्षणपुरुषगोचरत्वेपि गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययः सङ्गच्छतेऽतः कृतं कायातिरिक्तात्मकल्पनाक्लेशेनेति चेन्न भूतानां स्वसंवेदनगोचरत्वे बहिर्मुखैव स्वसंवित्तिर्भवेत् , यथा पटोऽयमिति वहिर्मुखः प्रत्ययः, तथा सुख्यहमित्यादिरपि यदि शरीरगोचरोऽयं भवेत्ततोऽयं सुखीत्येवं बहिर्मुखः स्यादन्तर्मुखश्चायमनुभूयते । नहि कोप्यहं सुखीत्यादिप्रत्ययं देहे| विधत्ते किन्तु देहातिरिक्त कस्मिंश्चिदित्यतः प्रतीयते सुख्यहमित्याद्यन्तर्मुखप्रत्ययो जीवगोचर एव न भूतगोचरो बहिर्मुखत्वेनानवभासात् । यच्चोक्तं वपूरूपपरिणतानि महद्भूतानि चैतन्यमुद्बोधयन्तीत्यादि । तदप्यविकलविकलताविल|सितं। यतो यदि हि महाभूतेभ्य एव चैतन्यमुन्मीलतीत्याद्यसङ्कतिसङ्गतमपि स्वेच्छाचलनाद्यन्यथानुपपत्तिप्रतिहतेन भवता
१ मञ्चति ।
in Educat
i onal
L
aw.jainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
वीतराग
सविवर
॥३२॥
SSIRSAKSSSCROSSACROSAXS8
कल्पनीयम्, तदा चैतन्यमेव जन्मान्तरादुत्पत्तिस्थानमागतं चतुर्भूतभ्रमाध्यायिदेहमुत्पादयेद्भूयो भवान्तरागामुकं सत्तत्यजेत् , तेन चाधिष्ठितं स्वेच्छाविहारादिक्रियां कुर्यात्तद्विनिर्मुक्तं भूयो दारुवदासीतेत्यात्मजन्यमेव वपुर्न पुनरात्मा भूतसमुदयसंयोगजन्यदेहजन्य इत्यकाल्पनिकमेवादरीतुमुदारतरं विभावयामः । सचेतनस्यात्मनः कर्मावष्टब्धतयान्यान्यभवभ्रमान्यान्यदेहसंपादनयोर्घटनाघटितत्वात् । अथेत्थमभिदधीथाः । जन्मान्तरादुत्पत्तिप्रदेशमागच्छन्नात्मा न प्रत्यक्षेण लक्ष्यते ! नन्वेवं वपूरूपधारणद्वारेण भूतान्यपि चैतन्यमुन्मीलयन्ति न साक्षालक्ष्यन्त इति भवत्पक्षेऽपि पक्षपातं विना साम्यं । भूतेषु वपूरूपपरिणतेष्वेव चैतन्यमुपलभामहे नान्यदेत्यन्यथानुपपत्त्या भूतजन्यमेव चैतन्यं कल्पयाम इति चेत् तर्हि कथं मृतावस्थायां भूतेषु तदवस्थेष्वेव चैतन्यं नोपलभ्यते । वपूरूपविवर्त्तश्च कादाचित्कत्वान्यथानुपपत्त्या कारणान्तरापेक्षीत्यतस्तत्संवादनसमर्थ जन्मान्तरायातात्मलक्षणं चैतन्यमेव मन्महे । अन्यच्च ॥ आत्मा तावत्पूर्वशुभाशु| भचैतन्ययोगादेहसम्पादनायोत्तिष्ठत इति सौष्टवप्रष्ठमेव । महद्भूतानि चैतन्यं कर्तुमारभेरन् चैतन्यवन्ति तद्विनाकृतानि
वा? । यदि प्रथमपक्षस्तदा विकल्पद्वयमुदयते तेभ्यस्तञ्चैतन्यं व्यतिरिक्तमव्यतिरिक्तंवा व्यतिरिक्तं चेत्ततो न शरीरेष्विव |महद्भूतेष्वप्यवस्थितम् भूतविसदृशमेव स्वहेतुमवस्थापयति इति स्ववचसैवात्मानं मन्यमानः किमिति कुविकल्पनेन |स्वं क्लेशयसि । अथाव्यतिरिक्तमेवं सति सर्वमहद्भूतान्यकतां धारयन्ति, एकचैतन्याभिन्नत्वान्निजस्वरूपवत् । अथ पृथक्स्वस्वचैतन्याभिन्नानां तेषां नायं प्रमेयावकाश इति मन्येथास्तदपि न । यतस्तजन्यनरशरीरेऽपि भूतोत्पाद्यश्चैतन्यचतुष्टय
१ पादनत्यजनयोः ।
॥३२॥
in Eduentan
For Private & Personel Use Only
GONainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
प्रसङ्गः॥ अथ चत्वार्यप्येकीभूय वहवस्तन्तव इव पटं महत्तरचैतन्यमुत्पादयेयुरिति ब्रूषे । तदा तच्चैतन्यं किं भूतसंयोग उत तज्जन्यमन्यदेव किञ्चिदिति वाच्यं । भूतसंयोगश्चेत्तदयुक्तं चैतन्यानामन्योन्यसयोगासिद्धेरन्यथा प्रचुरतरचैतन्यान्येकीभूय महत्तमचैतन्यं जनयेयुः । नचैतदृष्टमिष्टं वा । अथ भूतोत्पाद्यमन्यदेव किञ्चिदित्येतस्मिन्नपि किं तेषामन्वयोऽस्ति नवा? अस्ति चेत्तदा पूर्ववत् भूतजन्यचैतन्यचतुष्टयतापत्तिरथ नास्ति तदप्यसङ्गतं निरन्वयोत्पत्तेयुक्तिरिक्तत्वात् तस्मा
न्न चैतन्यमुत्पादयेयुर्भूतानि । नच तद्विनाकृतानि, तेषामत्यन्तविसदृशत्वेन चैतन्योत्पत्तिविरुद्धत्वादन्यथा सिकताभ्योऽपि है तैलमुत्पद्यते। अन्यच्च । भूतनिचयमात्रजन्यं चैतन्यं तत्परिणतिविशेषजन्यं वा स्याद् ? न तावत्प्रथमः पक्षः क्षोदक्षमोऽवनि
जीवनपवनदहनयोजनेऽपि चैतन्यानुपलंभात् । द्वैतीयिकपक्षे पुनः कः परिणामविशेष इति पृच्छामः । वपूरूपपरिणतिरिति चेत्ततः सा सर्वकालं कस्मान्न स्यात् । किमपि कारणान्तरमाश्रित्योत्पद्यत इतिचेत्तदा तत्कारणान्तराजन्मान्तरागतात्मचैतन्यमिति वितर्कयामः तस्यैव वपूरूपपरिणतिजन्यचैतन्यानुरूपोपादानकारणत्वात्तदभावे वपूरूपपरिणतो सत्यामपि मृतदशायां भूतसद्भावे (न) चलनादिक्रियाऽनुपलंभात्तन्न वपूरूपपरिणतिजन्यं चैतन्यं किं तु सैव तज्जन्येति क्षोदक्षम |लक्षयामः । अथ न प्रत्यक्षादन्यत् प्रमाणं । नच तेनागमनगमनादिकं भवान्तराच्चैतन्यस्योपलभामहे तेन तल्लक्ष्याण्येव भूतानि तद्धेतुतया निर्दिशाम इति । तदप्यसत् । यतः केवलप्रत्यक्षाश्रयेण देशकालस्वभावविप्रकृष्टानां मेरुभवत्पितामहपरमाण्वादीनामप्यभावप्रसङ्गस्तेन च भवदादीनामप्यनुपपत्तिरित्यतो बलात्कारेणैवानुमानादीनि प्रमाणानि प्रतिपत्तव्यानि।सन्ति चानुमानान्यनेकशस्तथाहि-अस्ति कश्चिद्देहे तदतिरिक्तश्चेतनः सुख्यहं दुःख्यहमित्याद्यनुभवस्यान्यथानुप
in Eduelan HDZ
For Private & Personel Use Only
ainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
वीतराग.
॥३३॥
Jain Education L
पत्तेः । यदि वा स न स्यात्तदा सुखाद्यनुभवो न भवेद्यथा मृतशरीरे १ । तथा हिताहितप्राप्तिपरिहारचेष्टा प्रयत्नपूर्विका | विशिष्टक्रियात्वात् रथक्रियावत् । यश्चास्य प्रयत्नस्य कर्त्ता सोयमस्मत्सम्मतश्चेतनः । नच निरुक्तियुक्तिप्रतिहतेन भवता इह भव एव देहातिरिक्तः कश्चिदस्ति न त्वमुष्मिन्निति विप्रतिपत्तव्यम् । जन्मान्तरागामुकस्यैवास्य प्रमाणप्रतिष्ठितत्वात् | तद्यथा तदहर्जात बालकस्याद्यस्तनाभिलाषः पूर्वाभिलाषपूर्वकः अभिलाषत्वात् द्वितीयदिवसादिस्तनाभिलाषवत् । | तदिदमनुमानमाद्यस्तनाभिलाषस्याभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्त्या परलोकागामिजीवमाक्षिपति तज्जन्मन्यभिला| षान्तराभावात् । किंच यदुक्तमेतावता धर्माधर्मावपि नभोभोजनिभौ मन्तव्याविति तदप्यपाकृतं । तदभावे सुखदुःखयोनिर्हेतुकत्वात् अनुत्पादः एव स्यात्स च प्रत्यक्षविरुद्धस्तथाहि - मनुजत्वे समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभव| न्तोऽपरे पुनस्तत्प्रेष्यभावमाविभ्राणा, एके च लक्षंभरयोऽन्ये च स्वोदरदरीपूरणेप्यनिपुणाः, एके देवा इव निरन्तरसरसमुविलाससुखशालिनः इतरे नारका इवोन्निद्रदुःखविद्राणचित्तवृत्तय इत्यतोऽनुभूयमानसुखदुःखनिबन्धनौ धर्माधर्मौ स्वीकर्त्तव्यौ । तदङ्गीकरणेन च विशिष्टयोस्तत्फलयोर्भोगभूमी स्वर्गनरकावपि प्रतिपत्तव्यावन्यथाऽर्द्धजरतीयन्यायप्रसङ्गः स्यात् । एवं च पुण्यपापकर्मक्षयोत्थमोक्षपक्षोक्तदूषणमप्यनणुगुणं गणनीयं । नच वाच्यम् यदुत बन्धः कर्मजीव संयोगलक्षणः स आदिमान् आदिरहितो वा ! तत्र यदि प्रथमो विकल्पः ततो विकल्पत्रयप्रसङ्गः किं पूर्वमात्मनः प्रसूतिः पश्चात् कर्मणः, यदि वा पूर्व कर्मणः पश्चादात्मनः, आहोस्वित् युगपदुभयस्येति किंचातः सर्वत्रापि दोषः तथाहि न ताव - दात्मनः पूर्व प्रसूतिर्निर्हेतुकत्वात् व्योमकुसुमवत्, नापि कर्मणः प्राक् प्रसूतिः कर्तुरभावात्, नचाकृतं कर्म भवति, युग
सविवर
॥३३॥
jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
पक्षस्तहि नाम कर्मापि प्रवाहत द्वितीयपक्षेऽसिन्ततिगतोऽपि दोषः । अथाह जीवन तथा निमादिविक
पत्प्रसूतिरप्ययुक्ता कारणाभावात् । नचानादिमत्यात्मनि बन्धो घटामटाव्यते बन्धकारणाभावात् गगनस्येव इत्थं चैतदङ्गीकर्त्तव्यमन्यथा मुक्तस्यापि बन्धप्रसंगो विशेषाभावात्, तथा सति नित्यमुक्तत्वात् मोक्षानुष्ठानवैयर्थ्यमिति । | अथ द्वितीयः पक्षस्तर्हि नात्मकर्मवियोगो भवेदनादित्वादात्माकाशसंयोगवदिति मोक्षानुपपत्तिरिति । यतो जीवोऽनादिनिधनः सर्वे सत्यहेतुत्वात्, कर्मापि प्रवाहतोऽनादिमत्ततो जीवकर्मणोरनादिमानेव संयोगो धर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तदूषणाऽनवकाशः । योऽपि द्वितीयपक्षेऽभिहितोऽनादित्वात्संयोगस्य वियोगाभाव इति सोऽप्यसमीचीनस्तथाऽदर्शनात् यथाच काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटमानो दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद्दोषः । अथ यद्यनादि सर्व कर्म ततस्तस्य जीवकृतत्वानुपपत्तिर्जीवकृतत्वेऽनादित्वविरोधात् । तदसम्यक् । वस्तुगत्यनवबोधात् तथाहि-जीवेन तथा मिथ्यादर्शनादिसव्यपेक्षेण तदा तदुपादीयते कर्म यथा तेन जीवेन कृतमित्युच्यते । तच्च तथाप्रवाहापेक्षया चिन्त्यमानमादिविकल|मित्यनादि । निदर्शनं चात्र कालो यथाहि यावत् अतीतकालस्तेनाशेषेण वर्तमानत्वमनुभूतमथचासौ प्रवाहतोऽनादिरेवं कर्मापीति । मुक्तस्यापि बन्धप्रसंगो विशेषाभावादिति तदप्ययुक्तं । विशेषाभावासिद्धेः तथाहि संसारी जीवः कषायादियुक्तस्तद्युक्तस्य कर्मणो योग्यान पुद्गलानादत्त इति कर्मबन्धोपपत्तिर्मुक्तस्तु कषायादिपरिणामविकलः शुक्लध्यानमाहाम्यतस्तेषां समूलमुन्मूलितत्वात् ततो मुक्त्यवस्थायां कर्मबन्धाप्रसङ्गः । नच वाच्यमेवं सति तर्हि निरन्तरमुक्तिगमनतो
१ सत्त्वे । २ तथा तथा ।
MAROSECREDICALORSCORGADCHCRACK
JainEducation
For Private
Personal use only
w
.jainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
॥३४॥
भव्यानामुच्छेदप्रसङ्गोऽनन्तानन्तसङ्खयोपेतत्वात् । इह यद्यदनन्तसङ्ख्योपेतं तत्तत्प्रतिसमयमेकद्वित्रादिसङ्ख्ययापगच्छदपि न कदाचन निर्लेपीभवति यथा अनागतकालस्तथाचानन्तानन्तसङ्ख्योपेता भव्या इत्यनुच्छेदः । एवं च सत्प्रमाणप्रति-दू ष्ठितेऽप्यात्मतत्त्वे तदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गादिषु कुग्रहग्रहिलतयैवाप्रतिपद्यमानं चार्वाकमवज्ञोपहतमेव कुर्वाणः स्तुतिकृदाह ॥
विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥ ११॥ |
तस्य सर्वापलापलोलुपस्य चार्वाकस्य विप्रतिपत्तिः सम्प्रतिपत्तिर्वा न विलोक्यते । यस्य परभवभवभृदपुनर्भवेषु सर्वम|तसम्मतेष्वपि मतिर्मुह्यति । मीमांसामांसलमतिमीमांसकोऽपि सर्वज्ञापलापं प्रलपन संशयज्ञानमेकमनेकाकारं प्रतिजानानो नानेकान्तं प्रतिक्षिपति । नास्तिकश्च महापापी तत्कथयाप्यलं कलाकौशलशालिनाम् ॥ अधुना सर्वमतप्रपन्नानकान्तयुत्तया वस्तुनः परमार्थसत्त्वमाह ॥
तेनोत्पादव्यवस्थेमसंभिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तु वस्तुसत् ॥ १२ ॥ १ ननु ताथागतादीनामुपपत्त्या सांमत्त्यं चार्वाकस्य तु वराकस्योपेक्षामुपक्षिप्तवान् तदत्र मीमांसामांसलमतेमीमांसकस्य किमिति कामपि चर्चा नाकरोदाचार्यः । उच्यते । समस्तमतविक्षेपेण खयमेव प्रकारान्तरेणानेकान्तमतं प्रतिष्ठमानं तं प्रति प्रतिपत्त्युपपत्तिः पिष्टमेव पिनष्टीति नास्ति पर्यनुयोगावसरः । ततः सिद्धं सर्वमतमनेकान्तं । यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षमं ततस्तत्सत्त्वमप्यनेकान्तात्मकमेवेत्युत्पादयन् ।
CROSARORESCAUSA
॥३४॥
Jain Education
For Private & Personel Use Only
Dhjainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
हे भगवन् तेन कारणेन कृतधियः कृतिनस्त्वत्प्ररूपितमेव वस्तु वस्तुवृत्त्या सत्पारमार्थिकमितियावत् प्रपन्ना अंगीकृतवन्तः। कथंभूतं वस्त्वित्याह । उत्पादव्ययस्थैयमिश्रं द्रव्यपर्यायात्मकमितितात्पयार्थः। यदुवाच वाचकमुख्यः। उत्पादव्ययध्रौव्ययुक्तं (वस्तु) सत्, पारमार्षमपि उप्पन्नेइ वा विगमेइ वा धुवेइ वा इति । तत्र द्रव्यपर्यायात्मकमितिभणनेन द्रव्यैकान्तपर्ययैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकणादयोगाभ्युपगतवस्तुनि-2 रासः । यतः श्रीसिद्धसेनः ॥ दोहिं वि नएहिं नीयं । सत्थमुलूएण तह वि मिच्छत्तं । जमविसयप्पहाणतणेण अन्नन्ननिरविक्खंइति । अथेत्थमाचक्षीथाः न द्रव्यपर्यायात्मकं परमार्थसत् एकान्तनित्यानित्यवस्तुवदर्थक्रियाकारि स्यात् तेन च किं यतः अर्थक्रियार्थी सर्वोऽपि विपश्चिदेतच्चार्थक्रियाकारित्वं नित्यानित्यात्मकेऽपि न घटासंटङमारोहति यतः" प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः " तस्मादुत्पादव्यवस्थेममहिमानर्थक्रियाकारित्वेन न वस्तुनि वास्तवी इति/8 चेन्न पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनापि नित्यानित्यात्मकस्य वस्तुनोऽर्थक्रियोपपत्तेर्यतोऽस्मन्मते न कूटस्थनित्यत्वरूपद्रव्यरूपं नाप्येकान्तानित्यपर्यायरूपं वस्तु येन पक्षद्वयभाविदोषावकाशशंका किंतु स्थित्युत्पादव्ययात्मकं
शवलं जात्यन्तरमेव वस्तु, तेन तत्सहकारिसंनिधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वत्सहकारिकृतां चोपकारपरंपरा*मुपजीवच्च जैनमतानुसारिभिरनुश्रियते । ततः सिद्धमुत्पत्तिव्ययध्रौव्ययुक्तमर्थक्रियाकारि वस्तु । ननु कथं वस्तुन्येकसा
१ उत्पादविनाशस्थितिसंभवखभावं । को भावः । उत्पादादयः समुदिताः सत्त्वं गमयन्ति, सत एव तद्भावात् । नहि सर्वथाऽप्यसतस्तुरङ्गशृङ्गादेः ४| केनचिदप्याकारणानुपाख्यायमानस्योत्पादादयो भवितुमर्हन्ति तस्मादुत्पादादिमत्त्वं सत्त्वम् ।
SOSSREICHERESSES SHOCO3
Jain Education inwidal
For Private Personal use only
II
Dainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
CRECROSAROGRESCORECASCOM
मयिकमन्योन्यं विरुद्धं परिकल्पयितुं न्याय्यमित्याशंकायां वदन्ति सूरयः । गोरसादिवदिति । यथा गोरसे स्थायिनि | | पूर्वदुग्धपरिणामविनाशोत्तरदधिभावोत्पादौ संभवन्तौ प्रत्यक्षादिप्रमाणबलेनोपलब्धौ, तौ च कथमुपहोतुं पार्येते यथा च | एकस्या अङ्गले स्थायिन्याः पूर्वस्थितिसरलभावाभावो वक्रतासंभवश्च एवं त्रिभुवनभुवनोदरवर्तिपदार्थसार्थे उत्पादव्ययध्रौव्यभावं पश्यन्तु शेमुषीमुख्याः। ततः सिद्धं त्रयात्मकं वस्तुतत्त्वं । तथाच प्रयोगः-विवादास्पदं वस्तु नित्यानित्यसत्त्वासत्त्वसामान्यविशेषाभिलाप्याद्यात्मकम् , तथैवास्खलत्प्रत्ययेन प्रतीयमानस्य सर्वत्र वस्तुनि तिष्ठमानत्वात्, नहि है स्वरूपपररूपाभ्यां भावाभावात्मकत्वेन द्रव्यपर्यायरूपादिभिर्नित्यानित्याद्यात्मकत्वैश्च सर्वस्मिन्पदार्थे प्रतिभासः कस्यचिदसिद्धः। तत एव न सन्दिग्धासिद्धोऽपि न खल्वबाधरूपतया प्रतीयमानस्य वस्तुनः सदिग्धत्वं नाम । नापि विरुद्धो विरुद्धार्थसंपादकत्वाभावात्, न ह्येकान्तेऽपि तथैवास्खलत्प्रत्ययप्रतीयमानत्वमास्ते येन विरुद्धः स्यात् । नापित पक्षस्य प्रत्यक्षा बाधा येन हेतोरकिञ्चित्करत्वं स्यान्नापि दृष्टान्तस्य साध्यविकलता साधनविकलता वा। न खलु घटे नित्या-17 नित्याद्यात्मक तथैवास्खलत्प्रत्ययप्रतीयमानत्वं वाऽसिद्धं । तस्मादनवा प्रयोगयोगमुपश्रित्य किमित्येकान्तोऽनुमन्यते ॥
इति वीतरागस्तोत्रे एकान्तनिरासस्तवस्याष्टमप्रकाशस्य पदयोजना ॥
CARECIRCREASEANINCREACTICAR)
१मपह्रोतुं । २ पयोत्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् । १। तथा । घटमौलिसुवर्णार्थी ||॥३५॥ | नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् । २ ।
Jan Educatio
n
al
For Private
Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Jain Education
एवमेकान्तमततिमिर निरसनप्रवणानेकान्तामृताञ्जनविशददृशः समस्तास्तिकदर्शनिनो विधाय स्तुतिकृत् प्रस्तुता वीतरागस्तुतिं कलिकालोपबृंहणद्वारेण प्रस्तावयन्नाह ॥
यत्राल्पेनापि कालेन त्वद्भक्तेः फलमाप्यते । कलिकालः स एकोऽस्तु कृतं कृतयुगादिभिः ॥ १ ॥
हे कलिकालदहनन स्वामिन् जगति स एवैकः कलिर्दुः षमाख्यः कालः समयोऽपि कृतयुगादिभिः सुषमादिभिस्तु कृतं पर्याप्तं । किमित्याह यत्रेत्यादि । यत्र यस्मिन् कलौ त्वद्भक्तेः सम्यग्ज्ञानदर्शन चारित्रासेवनरूपायाः फलमनन्तरितं स्वर्गादि परम्परितमपवर्गोऽवाप्यते । ननु कृतयुगादिष्वपि समानमेतदित्याह । अल्पेनापि समयेन । किमुक्तंभवति । किल सुषमादौ वर्यावन्मात्रं फलं पूर्वकोटिप्रमितेनायुपा प्राप्यते दुःषमायां तत्कालप्रमितं त्वद्भक्तेः फलं वर्षशतप्रमाणेनाप्यायुषा लभ्यत इति कृतयुगादिभ्यः कथं कलिर्न स्पृहणीय इति ॥ तथा ॥
सुषमातो दुःषमायां कृपा फलवती तव । मेरुतो मरुभूमौ हि श्लाध्या कल्पतरोः स्थितिः ॥२॥ हे प्रक्षीणाशेषदुःख भगवन् सुषमातः सुषमारकात् दुःपमायां दुःषमारके तव संबन्धिनी कृपा सर्वसत्त्वधारिणी करुणा फलवती सर्वाशेषफला भवति । अत्रार्थान्तरमाह । कल्पतरोः कल्पपादपस्य स्थितिरवस्थानं मेरुतः सुरभूधरात् मरु - भूमौ जाङ्गलावनितले श्लाघ्या प्रशस्या । इदमुक्तं भवति । भूरिभूधरे हि सर्वत्रापि सुलभसुरभूरुहि कल्पविटपिनोऽवस्थानं न तथा विस्मयं जनयति यथा करीरादिभिरपि विरहिते मरुस्थले । एवं सुषमादौ पदे पदे सुलभेषु विशिष्टज्ञानभानुषु पुरुषेषु भगवत्कृपा धर्मतीर्थप्रवर्त्तनादिरूपा न तथोपयोगिनी यथा सर्वातिशयशून्ये दुःषमासमय इति ॥ किंच ॥
tional
w.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
वीतराग.
॥३६॥
श्राद्धः श्रोता सुधीर्वक्ता युज्येयातां यदीश तत् । त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ॥३॥ || सविवर. हे जगदीश त्वच्छासनस्य तवाप्रमेयप्रभावस्य प्रवचनस्य कलौ दुःषमायामपि साम्राज्यं चक्रवर्तित्वं जायेत । किंविशिष्टं एकच्छत्रमेकातपत्रं । यदि किं! यदि युज्येयातां युक्तौ भवेतां, को श्रोता वक्ता च, किंविशिष्टः श्रोता श्राद्धः निरु|पाधिशुद्धश्रद्धाबन्धुरान्तःकरणः । वक्ता तु सुधीः शोभना समस्तशास्त्रार्थरहस्यनिस्यन्दावगाहविशदा धीस्तत्त्वानुगामिनी मतिर्यस्य स तथा । दुर्लभश्च प्रायेणैवंविधयोः श्रोतृवक्रोर्योगः । यदि च दैवात्संयुज्येयातां तदा नियतमहच्छासनस्य साम्राज्यमेकच्छत्रं रचयेताम् । इदं च स्तुतिकर्तुरनुभवसुभगं वचस्तथाहि-निरवधिनयविक्रमवशंवदीकृतसकलक्ष्मापालचक्रपालः श्रीकुमारपालदेवः श्राद्धः श्रोता, युगान्तर्वतिसकलवाङमयपारावारपारीणमतिः श्रीहेमचन्द्रसूरिः सुधीवक्ता, तथाविधविधियोगाच्चानयोः समजनि संयोगः, कृतं कलावपि श्रीजिनशासनसाम्राज्यमाभ्यामिति स्थाने स्वानुभवसुभगमिदमुदीरितमिति ॥ किंच॥ । युगान्तरेऽपि चेन्नाथ भवन्त्युच्छृङ्खलाः खलाः । वृथैव तर्हि कुप्यामः कलये वामकेलये ॥ ४ ॥
हे प्रणयप्रणमदमरनाथ वयमियन्ति दिनानि कलियुगेन समं कलिकामा इव सासूयमवस्थिताः । कुतः किलैतद्वललब्धसामथ्र्यैः कुतीर्थिभिस्तीर्थनाथादिविरहादनाथा इव वयं कदर्थ्यामहे ।साम्प्रतं त्वान्तरदृशा विमृशतामस्माकमिदमवस्थित हृदि यदुत युगान्तरे साक्षादर्हद्विहारादिविक्षिप्तविपक्षे सुषमादावपि चेद्यदि मङ्खलिसुतादयः खला उच्छृङ्खला उन्मर्यादाः
ICCRORECAREERSCIOUSNESS
JainEducatiori
For Private & Personal use only
jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
सञ्जज्ञिरे तद्वयमस्मै वामकेलये प्रकृतिप्रतिकूलविलसिताय कलये दुःषमासमयाय वृथैव निरर्थकमेव कुष्यामः सर्वथा न कश्चित् कलेरपराधः केवलं परगुणासहिष्णुता प्रकृतिरेवेयं स्वभावदुःशीलानां खलानामिति ॥ अपरं च ॥
कल्याणसिद्ध्यै साधीयान् कलिरेव कषोपलः । विनाग्निं गन्धमहिमा काकतुण्डस्य नैधते॥५॥ हे अतुल्यकल्याणनिलय भगवन्नदंयुगीनभव्याङ्गिनां कल्याणसिद्ध्यै शुभसंभारसमृद्ध्यै कलिर्दुःषमैव साधीयान् प्रधानतमः कषोपलः कषपाषाणः । किमुक्तं भवति-किल सकलशुभसामग्रीसंवर्गितेषु सुषमादियुगेषु भव्यानां सुकरैव सुकृतसंसिद्धिः, येषां तु सामग्रीविरहेऽपि कल्याणकृत्यसंसिद्धिनिमित्तमुपक्रमस्तेषां सत्काञ्चनपरीक्षायां कलिरेव कषोपलः । अथ च कल्याणस्य सुवर्णस्यापि सिद्धिः परीक्षा कषपाषाणाधीनैव । अत्रैवार्थान्तरमाह ॥ विनेत्यादि । काकतुण्डस्य कृष्णागरोगन्धमहिमा परिमलप्रभावोऽग्निं वैश्वानरं विना नैधते न वृद्धिमुपयाति अतो यथा कृष्णागरुपरिमलमग्निरेधते तथा सत्त्ववतां सत्त्वप्रकर्ष कलिरुत्कर्षयतीतिभावः ॥ अन्यच्च ॥ | निशि दीपोंबुधौ द्वीपं मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं त्वत्पादाजरजःकणः ॥६॥ __ हे विश्वकवत्सल कलौ कलियुगेऽयं त्वत्पादाजरजःकणस्त्वच्चरणसरोजनिश्छद्मसेवालवः कथंकथमपि मया प्राप्तः । यतो दुरापः अगण्यपुण्यप्रचयमन्तरेण दुर्लभः । अमुमेवार्थ दृष्टान्तचतुष्टयेन स्पष्टयति । निशीत्यादि । यथा केनचित्कायार्थिना तमस्विन्यां निशि प्रदीपः प्राप्यते, यथा च कस्यचिदगाधजलधिमध्यपतितस्य द्वीपः सङ्घटते, यथा केनचि
Jain Educataru
For Private
Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
वीतराग.
॥३७॥
Jain Education
| न्मरुपान्थेन खरतरखरांशुकरालांशुजालज्वलितगात्रेण शाखाशतस्फातः शाखी लभ्यते, यथा च हिमे सति हिमानी संपाते | केनचिच्छिखी ज्वलनः प्राप्यते तथा मया कलौ त्वत्पादाब्जरजःकणः प्राप्त इति । समुचिता सेयं दृष्टान्तचतुष्टयी स्वामिनस्तथाहि मिथ्यात्वनिश्यज्ञानान्धतमसमोहितमनसां केवलालोकप्रदीपो भगवान्, भवाब्धौ च निमज्जतामाश्वासनाद्वीपः, आन्तरारातितपनोपतप्तानां च विश्रामशाखी, निबिडतममोहजडिमग्लपितानां च शिखी चेति समञ्जसम् ॥ ६ ॥ यथा स्वकार्यतात्पर्येण हि प्रायः पर्यवस्यत एव सदसद्विचारस्तत एव स्तुतिकृन्निरुपकारि युगान्तरपरिहारेणोपकारिणं कलिमुपच्छन्दयन्नाह ॥
युगान्तरेषु भ्रान्तोऽस्मि त्वद्दर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वद्दर्शनमजायत ॥ ७ ॥
विश्वजनीनकृतधियस्तत्तद्गुणोपबृंहणेन सुषमादियुगानां गौरवमारोपयन्तु मम कलिव्यतिरिक्तेषु युगान्तरेषु उदा| सीनमेव मनः । किमित्याह - यतस्तेष्वहमनन्तमनेहसं भ्रान्तः पर्यटितोऽस्मि । किंभूतस्त्वद्दर्शनविनाकृतः तव संबन्धिदर्शनं त्वदुक्ततत्त्वरुचिरूपं त्वदर्शनं तेन विनाकृतो वञ्चितः अतः कृतयुगादिभिः परविभूतिपरिस्पन्दैरिव सुमनसोहरैरप्यनुयोगिभिः किं ? यद्वास्तां तावत्तव सेवाफलं, किन्तु त्वदर्शनमात्रमपि मम नोपपन्नम् । अस्मै तु कलये सकलदोष कलुषायापि नमोऽस्तु नमस्कारो भवतु, यत्र यस्मिन् भवशतसहस्रदुर्लभं सुकृतशतप्राप्यं मम त्वद्दर्शनमजायत । अयमाशयः । किल यदि युगान्तरेषु मम त्वद्दर्शनमभविष्यत्तदा न खल्वहमियन्तं कालं भवभ्रमणमकरिष्यमिदानीं तु प्राप्तत्वद्दर्शने दत्तो दीर्घभवभ्रमणाय मया जलाञ्जलिरिति ॥ नच कृतयुगादिभ्य एव कलिः कमनीयः किन्तु भगवतोऽपीति सोपहासमाह ॥
सविवर.
॥३७॥
jainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
। बहुदोषो दोषहीनात्त्वत्तः कलिरशोभत । विषयुक्तो विषहरात् फणीन्द्र इव रत्नतः ॥ ८॥
हे जगल्ललाम त्वं तावजगत्यपि सर्वोत्तमत्वेन शोभसे अयं तु कलिस्त्वत्तोऽप्यशोभत । यदि पुनर्गुणाधिकः स्यादित्याह। बहुदोषो निखिलदोषास्पदं । त्वत्तः किंविशिष्टाद्दोषहीनादोषाणुनाप्यस्पृष्टात्, दोषोत्कर्षेणैव च तस्य त्वत्तः समुत्कर्षः । इदमेव दृष्टान्तेन स्पष्टयति । विषेत्यादि । यथा फणीन्द्रः पन्नगपतिः शोभते । किंविशिष्टो विषयुक्तः प्रबलगरलकलितः कस्माद्रत्नतः स्वमौलिमणेः, किंविशिष्टात् विषहरात् विषदोषनिग्राहकात् । नच फणमणेः फणी कदाचिदप्यधिकः तथैव त्वत्तः कलिः, केवलमस्मिंस्त्वदर्शनलाभो ममाभूदिति निर्गुणस्याप्युपकारिणोऽस्य प्रशंसा विदधे व्यतिरेके तु कृतघ्नत्वं | स्यात् । एतत्पक्षपातहेतुविचारणायां च स्तुतिकर्तुस्तत्त्वतो भगवद्गुणपक्षपात एवेति समञ्जसम् ।
इति श्रीवीतरागस्तोत्रे नवमस्य कलिस्तवस्य पदयोजना ॥ जगत्प्रतिकूलमप्येवं भगवद्दर्शनदानेनानुकूलं कलिमुपश्लोक्याद्भुतस्तवं स्तुतिकृत् प्रस्तावयन्नाह ॥ मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि प्रसीद भगवन्मयि ॥१॥ हे भगवन् परमैश्वर्यसंपन्न किल यस्मादैहिकमल्पमात्रमपि फलमिष्यते सोऽपि तदर्थिभिराभिमुख्यमानीय प्रसाद्यते, मया तु त्वत्तः सर्वोत्तमं परमपदमभिलपता त्वं सविशेष प्रसादनीयः, सच त्वत्प्रसादः प्रथमं मत्प्रसत्तिमपेक्षते । किल यदाहमरक्तद्विष्टेन परमसमभावभावितेन मनसा त्वदाज्ञां सम्यगाराधयामि तदा त्वं प्रसीदसि, सा च परमसाम्यरूपा
Jain Education
a
l
JWRjainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
वीतराग | मत्प्रसत्तिस्त्वत्प्रसादानुभाविनी त्वय्येव प्रसन्ने भवति, एवं चेतरेतराश्रयदोषः, सचानुगृहीतो निरङ्कशं प्रसरन्नुभयोर
| सविवर. प्यभावाय प्रभवति । तस्मादुत्तमवत्सल त्वमेनमन्योन्याश्रयं भिन्धि व्यपनय । तदपनयने उपायमाह । प्रसीद मयीति। कि॥३८॥
मुक्तं भवति । महेच्छतुच्छयोर्मतङ्गाजमशकयोरिव सुदूरमन्तरं ततस्त्वं महेच्छतया निसर्गकारुणिकत्वेन च तुच्छां मत्प्रसत्तिमवगणय्य प्रथममेव प्रसादसुमुखो भव, प्रसन्ने च त्वय्यवश्यंभाविनी मत्प्रसत्तिरेवं चान्योन्याश्रयोऽपि दूरादपास्त | इति न किञ्चिदचतुरस्रम् । तथा ॥
निरीक्षितुं रूपलक्ष्मी सहस्राक्षोऽपि न क्षमः। स्वामिन् सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२॥ _हे स्वामिन् सर्वाद्भुतनिधान तव किमेकमद्भुतं वर्ण्यतां तथाहि-तव रूपलक्ष्मीमनुत्तरसुरैरपि स्पृहणीयां सर्वोत्तमामहनुपाधिमधुरां शरीरशोभामासतां तावविनयनीदुःस्थाः सुरासुरनरादयः किंतु सहस्राक्षः सहस्रलोचनः शक्रोऽपि निरी
क्षितुं यथावत्परिच्छेत्तुं न क्षमो न समर्थः निरुपमत्वात्तस्याः । श्रूयते चाप्तोक्तिषु “ सव्वसुरा जइ रूवं अंगुठ्ठपमाणयं विउविज्जा । जिणपायंगुलु पइ न सोहए तं जहिंगालो" इति । तथा तव संबन्धिनो लोकोत्तरज्ञानदर्शनवैराग्यश्वर्यप्रमुखान् गुणानास्तामेकजिह्वः सहस्रजिह्वो दशशतरसनोऽपि वक्तुं निःशेषतया वर्णयितुं परिमातुं वा न शक्नोति निरव-14 धित्वात् तेषां । पठन्तिच " यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारपरार्द्ध गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यादिति”॥ तेषां गुणानामेव वर्णिकामात्रमुपक्षिपन्नाह ॥
संशयान्नाथ हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः ॥३॥
CAREERRORRECOGN
Jain Education
a
l
For Private & Personel Use Only
Harjainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
SSACRORESEASEARCH
हे सुरासुरनाथ यदि त्वमीषदूनसप्तरजुप्रमितक्षेत्रस्थितानामप्यनुत्तरस्वर्गिणा पश्चोत्तरसुराणामिह स्थित एव संशयान् जीवादितत्त्वगोचरान् संदेहान् हरसेऽपनयसि । श्रूयते हि किलानुत्तरसुराः समुत्पन्नसंशयास्तत्रस्था एव मनसा स्वा| मिनं पृच्छन्ति, भगवांस्तु विमलकेवलालोकादवधार्य तदनुग्रहाय स्वमनसि तदुत्तरं धारयति ते च संभिन्नं लोकना-16 | लिमप्रतिबद्धेनावधिना पश्यन्तः स्वामिनो रूपं मनोगतमुत्तरं प्रतिपद्य प्रमोदमेदुराः संपद्यन्ते अतस्त्वामन्तरेण कस्यापर|स्येयमनुत्तरसुरसन्देहव्यपोहलक्षणा जगद्विलक्षणा शक्तिः । कश्चातः परोऽपि तव गुणो वस्तुतः परमार्थतः स्तुत्योऽस्यैव सर्वोत्तमत्वादिति ॥ किंच ॥
इदं विरुद्धं श्रद्धत्तां कथमश्रद्दधानकः । आनन्दसुखसक्तिश्च विरक्तिश्च समं त्वयि ॥४॥ _हे श्रद्धेयसकलाद्भुतचरित्र स्वामिन्निदं वक्ष्यमाणमश्रद्दधानकः श्रद्धावन्ध्यहृदयः कथं केन प्रकारेण श्रद्धत्तां तथेति || प्रतिपद्यतां यतो विरुद्धमयोक्तिकमेव तदाह । आनन्देत्यादि । त्वयि विषये आनन्दसुखसक्तिर्विरक्तिश्च तत्र सुखसक्तिः सङ्गरूपा विरक्तिश्च सङ्गत्यागरूपा एतयोश्च परस्परविरुद्धयोः कथमेकत्र वासः । यदि पुनः पयायेण भविष्यत इत्याह । समं युगपत् । अथ परानन्दरूपे सुखे सक्तिर्ज्ञानगर्भवैराग्यरूपा च विरक्तिर्भगवति वीतरागे युगपदवस्थितैवेति न कश्चिद्विरोधः । एवमप्यश्रद्दधानान्निजानवबोधेनैव निहतांस्तपस्विनः कः प्रत्ययायतु ॥ किंच ॥ नाथेयं घट्यमानापि दुर्घटा घटतां कथम् । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥ ५॥
१ प्रत्याययतु।
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
वीतराग.
सविवर,
॥३९॥
हे त्रिजगतीनाथ इयमपि द्वयी विविधविधिभिर्घव्यमानापि त्वदपरस्मिन् पात्रे कथं केन प्रकारेण घटतां संवदतु | यतो दुर्घटा अर्वाक्दृष्ट्या विसंवादिनी । तामेवाह उपेक्षेत्यादि। उपेक्षा उपकारिता च । तत्र उपेक्षा औदासीन्यं उपकारिता प्रियकारित्वं अतो यः किलोपेक्षकः स कथमुपकारीति दुर्घटत्वं । प्रकृते तु भगवतां श्रीमदहतां वीतरागस्वभावादेवोपकार्यनुपकार्यादिषु सर्वेष्वपि सत्त्वेषु रागद्वेषाभावेन माध्यस्थ्यमुपेक्षा, धर्मतीर्थप्रवर्त्तनेन च तेष्वेव परमा सर्वोत्तमा भावोपका|ररूपा उपकारिता न चैतत्तेष्वनुपपन्नमिति ॥ अपरं च ॥
द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च या चोच्चैश्चक्रवर्तिता ॥ ६॥ ___ हे अप्रमेयमहिमन् भगवन्निदमपि द्वयं विरुद्धं स्थूलदृष्टया परस्परविसदृशं तवैव दृश्यतेन पुनरितरस्य त्वद्विधादितरस्य कस्यचिदपि । किं तदित्याह । निर्ग्रन्थेत्यादि । निर्ग्रन्थता या परा निर्ग्रन्थता या चोच्चैश्चक्रवर्त्तिता । तत्र निर्ग्रन्थता सर्वसङ्गपरित्यागेनाकिञ्चन्यं चक्रवर्त्तिता च धर्मसम्राटपदवी अतो यस्यैव यदैव निर्ग्रन्थता तस्यैव तदैव कथं चक्रवर्तितेति विरुद्धम् । परिहारे तु स्वामिनः सर्वविरतिप्रतिपत्तिप्रस्तावे पटप्रान्तविश्रान्ततृणवदवगणितधनधान्यकलत्रपुत्रराज्यराष्ट्रदेशकोशादिपरिग्रहस्यासामर्थ्यलभ्यैव निर्ग्रन्थता, तथा वीतरागत्वेन विलीनप्रभुत्वाभिलाषस्यापि परमाहन्त्यप्रभावादुपनतश्वेतातपत्रत्रयमृगेन्द्रासनकनककमलधर्मचक्रमहेन्द्रध्वजकोटाकोटिप्रमितसुरासुरनरोपास्तिव्यक्ता धर्मच|क्रितापि भगवतः सङ्गतैव । केवलमरतिरतिकारणयोर्निर्ग्रन्थत्वचक्रवर्तितयोः सद्भावेऽपि स्वामिनः परमसाम्यलीलेति न किञ्चिदसमीचीनम् । अन्यच्च ॥
॥३९॥
JainEducation intermanic
For Private
Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
SURESAMRECACCORRECORE
नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः ॥७॥ हे सकलाश्चर्यचर्यानिलय यस्य तव कल्याणपर्वसु गर्भावतारजन्मनिष्क्रमणज्ञाननिर्वाणोत्सवेषु तावदासता संभाव्यसु| खासुभवाः सुरनरादयः किंतु दुर्वारदारुणवेदनोदयादिता नारका अपि मोदन्ते सुखलवानुभवनेन मुदमुद्वहन्ति । तस्य | विश्वैकमित्रस्य पवित्रमनुस्मरणमात्रेणैव पावनं चरित्रं भुवनाद्भुतं चारित्रातिशयं को नाम सहजनिजप्रज्ञावज्ञातवाचस्पतिविभवोऽपि वर्णयितुमुपस्तोतुं क्षमः समर्थो? न कोऽपीति भावः ? ॥ एवं च
शमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ८॥ हे समस्ताद्भुतभवन भगवन् कियद्वा तवाद्भुतमभिधीयतेऽस्माभिः यतस्तावत्रिजगताप्यतुलिते बले सत्यपि उपद्रवत्सु क्षुद्रात्मसु सम्परायपराजयजन्मा मिथ्याभिनिवेशोपशमसमुत्थश्च तव शमः प्रशमोऽद्भुतः सर्वातिशायी । तथा रूपं स्वाभाविकं शरीरसौन्दर्यं तदपि प्रागुक्तयुक्त्यैवाद्भुतं निरुपमं । तथा सर्वेष्वप्यात्मसु चराचरेष्वपक्षपातेन साधारणा कृपा करुणाप्यद्भुता लोकोत्तरा एवंप्रकाराणामन्येषामपि कल्याणरूपाणां सर्वाद्भुतानां येन निधयः शेवधयस्तेषामीशाय स्वामिनेऽत एव भगवते परमैश्वर्यनिलयाय तुभ्यं भुवनोत्तमाय नमो नमस्कारोऽस्तु त्वां प्रति त्रिकरणशुद्ध्या प्रयतः प्रणमामीति॥
इति वीतरागस्तोत्रे दशमस्याद्भुतस्य पयोजना ॥
Jain Education
For Private & Personel Use Only
Nw.jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
वीतराग.
॥४०॥
एवमद्भुतस्तवमभिधाय साम्प्रतं यन्मूलान्यमून्यद्भुतानि तदेव परमात्मनो माहात्म्यं महिमस्तवेन प्रस्तावयन्नाह ॥ निघ्नन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां कापि वैदुषी ॥ १ ॥ हे स्वामिन्स भवान् शमसौहित्यं प्राप्तः प्रशमामृततृप्तिमाप्तवान् । ननु तथाविधविपक्षविक्षेपमन्तरेणानुदीर्णसंपरायणांनां सुलभमेव शमसौहित्यमित्याह । निघ्नन्नित्यादि, किं कुर्वन् शमं प्राप्तः ! परीषहचमूं निघ्नन् परि सामस्त्येन त्रिकरणशुया सह्यन्ते मुमुक्षुभिरिति परीषहाः क्षुद्रादयो द्वाविंशतिसङ्ख्यास्तेषां चमूं श्रेणीं निघ्नन् विनाशयन् सर्वोत्तमयाधिसहनशक्तत्या विफलोदयं कुर्वन्, तथा उपसर्गान् प्रतिक्षिपन् उपसृज्यते सत्पथात्प्रच्याव्यते कातराणामन्तःकरणमेभिरित्युपसर्गाः प्रतिकूलाः सुरासुरन रतिर्यगादिजनिता यातनाविशेषाः । यश्च कञ्चिन्निहन्ति प्रतिक्षिपति वा तस्य कथं शमसौहित्यं ? भगवतश्च परीषहोपसर्गविजयेनैव तत्फलरूपं शमसौहित्यमजायत । तस्मादहो महतां महिमवती कापि लोकोत्तरा वैदुषी । इदं हि महदेव वैदुष्यं यद्विपक्षविक्षेपश्च विधीयते चण्डोऽयमित्यात्मनो विगानं च गोपाय्यते । अतः स्वामिनः परीषहोपसर्गवर्गविजयेऽपि शमसुखमुपेयुषः स्थाने वैदुष्यमिति ॥ तथा ॥
अरक्को भुक्तवान् मुक्तिमद्विष्टो हतवान् द्विषः । अहो महात्मनां कोऽपि महिमा लोकदुर्लभः ॥२॥ हे भुवनमहनीय स्वामिंस्त्वं मुक्तिं भुक्तवान् निर्वृत्तिनितम्बिनीं सेवितवान् कथंभूतोऽरक्तो विगतरागाभिष्वङ्गः । तथा हि द्विषो भावशत्रून्निहतवान् किंविशिष्टोऽद्विष्टो द्वेषकालुष्यरहितः । यश्चारक्तः स कथं कामिनीं कामयते । यश्चा
१ सम्परायाणां ।
Jain Educational
सविवर.
॥४०॥
jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
द्विष्टः स कथं द्विषो हन्ति । भगवांश्च यत एवारक्तद्विष्टो भावारिगणं निजग्राह तत एव मुक्तिसीमन्तिनीमभजत् । अत्रार्थान्तरमाह ॥ अहो इत्यादि । अहो इति विस्मये यतो महतां भुवनमहनीयमहसां कोऽपि वाग्गोचरातिक्रान्तो महिमा प्रभावस्तत एव लोकदुर्लभः पृथग्जनदुष्प्रापः कथमन्यथा स्वामिना नीरागेण मुक्तिरुपभुज्यते. निषेण चान्तरद्विषो विक्षिप्यन्त इति । __ सर्वथा निर्जिगीषेण भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये महतां कापि चातुरी ॥३॥
किल यो हि यस्य देशस्याधिपति जयति स तस्य देशमपि जयतीति वक्तव्यमेव अतः स्वामिस्त्वया त्रिभुवनैकमल्लं मोहमल्लमुन्मूल्य तद्भुज्यमानं जगत्रयं जिग्ये शिरसि शासनं निधाय सेवां कारितं । किंविशिष्टेन सता सर्वथा मनोवाक्कायैनिर्जिगीषेण निःस्पृहेण । पुनः किंविशिष्टेन एनसः पापाभीतभीतेन चकितचकितेन । यश्च निःस्पृहो भीरुश्च भवति स
कथं जगन्ति जयति । भगवांश्च यत एव निःस्पृहः पापभीरुश्च तत एव जगद्विलक्षणः स्वगुणैर्जगदजैषीत् । तस्मादहो8 दमहतां भुवनगुरूणां कापि लोकोत्तरा चातुरी दक्षता। विना हि चातुर्य निःस्पृहै रुभिश्च भुवनं न जीयत इति ॥अपरं च॥
दत्तं न किञ्चित्कस्मैचिन्नात्तं किञ्चित् कुतश्चन । प्रभुत्वं ते तथाप्येतत्कला कापि विपश्चिताम् ॥४॥ । इह हि लोके प्रभुत्वं तस्यैव भवति यस्य आशा आशङ्का वा स्यात्तत्रायमिदं मह्यं दास्यतीत्याशा, अयमिदं मत्तो हठेनर 8|ग्रहीष्यतीत्याशङ्का । त्वया तु जगद्गुरो किश्चिद्धनधान्यादिकं कस्मैचिदाश्रिताय न दत्तं निर्ग्रन्थत्वात् । तथा किश्चिद्धान्या
SASTROSAROSAROSAXCIRCRECALAM
Jain Education
a
l
jainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
वीतराग. | दिकमेव कुतोऽपि न तेन हठादात्तं न गृहीतं निःस्पृहत्वात्। तथाप्येवं सत्यपि तथास्मिन् जगत्यप्रतिहतं प्रभुत्वं । अत एव 81 सविवर.
विपश्चितां भवद्विधानां काप्यनन्यसदृशी कला। विना हि लोके कलाकौशलमनुपकारिभिरनिग्रन्थपरैर्वा न जगति प्रभुत्व॥४ ॥
मुपलभ्यत इति ॥ किंच॥
यदेहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ पादपीठे तवालुठत् ॥ ५॥ हे विहितान्तरारातिप्रमाथ नाथ परैः सम्यक्सुकृतोपायपरिज्ञानवन्ध्यैर्बोधिसत्त्वादिभिरास्तां विविधतपोध्यात्मादिविधानेन किन्तु देहस्यापि दानेन यत्सुकृतं सकलक्लेशजालसमूलोन्मूलनलक्षणं नार्जितं न स्वायत्तीकृतं तत्तव पादपीठे त्वच्चरणसरसिजोपान्त स्वयमप्रार्थितमेव लुलोठ । यदि पुनस्तदर्थ तव सुगतादिभ्योऽपि महानुपक्रमो भविष्यतीत्याह । कथंभूतस्य तव उदासीनस्य अपुनर्भवे भवे च तुल्यमनसः। श्रूयते हि क्षुधाविधुरशरीरायाः केसरिण्याः पुरः परमकारुणिकत
या कृमिकुलाकुलं स्वकलेवरं मुच्यते सुगतेन? नच सा पारमार्थिकी करुणा अतस्तथाविधस्वदेहोपहारसाहसेनापि यत्ते*षां सुकृतं दुरापं तत्तवाप्रार्थितमेवोपनतमित्यहो त्वन्महिमातिशयः ॥ तथा ॥
रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥६॥
हे त्रिभुवनपते त्वया साम्राज्यं धर्मचक्रित्वं साधितं वशीकृतं । किंविशिष्टेन भीमकान्तगुणेन भीमा अधृष्यत्वहेतवः। ॥४१॥ दप्रतापपराक्रमादयः कान्ताश्चाभिगम्यत्वहेतवः क्षमादयादयस्ते च ते गुणास्ते विद्यन्ते यस्य तेन । तानेव विषयविभागेन
CRORAGARCAEXAM
Jan Education
For Private Personel Use Only
Page #97
--------------------------------------------------------------------------
________________
वयमर्जितं भवन्ति च समाजाणारसपेशलमनसा भवभयातपथप्रतिपंथित्वेन दण्ड
व्यनक्ति। किंविशिष्टेन त्वया रागादिषु रागद्वेषमोहप्रभृतिषु नृशंसेन निर्दयहृदयेन मुक्तिपथप्रतिपंथित्वेन दण्डसाध्यत्वात्तेषां, तथा सर्वात्मसु सर्वसत्त्वेषु कृपालुना निष्कृत्रिमकरुणारसपेशलमनसा भवभयादितत्वेन तेषामनुकम्प्यत्वात् । एवं त्वया उच्चैः सर्वाद्भुतं साम्राज्यमर्जितं भवन्ति च सम्राजोऽपि भीमकान्तगुणाः ॥ अपरं च॥
सर्वे सर्वात्मनान्येषु दोषास्त्वयि पुनर्गुणाः। स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाणं सभासदः ॥७॥ हे भुवनाद्भुतचरित्रपात्र भगवन् सर्वेऽप्येवंप्रकारा भावा अन्येषु त्वद्विधादपरेषु कुतीर्थिकदैवतेषु ये दोषास्त एव त्वयि सर्वात्मना गुणास्तथाहि-यैव क्षमापरैः परिभवहेतुत्वेन कापुरुषचेष्टितमिदमिति दोषतया प्रत्युक्ता सैव जगद्धंसनरक्षणक्षमपराक्रमेणापि त्वया दुर्द्धरक्रोधयोधविध्वंसनावन्ध्यप्रहरणमिदमिति सविशेषमादृता । यैव च निर्ग्रन्थता परैभिक्षुकवृत्तिरियमिति त्रपाहेतुत्वेन तिरस्कृता सैव निःस्पृहशिरोमणिना त्वया इयमेव सङ्गत्यागस्य मूलकारणमिति सादरं पुर
स्कृता । यदेवापकार्युपकारिषु प्रसादाप्रसादकरणमगुणज्ञत्वमिदमिति परैर्दूरादपास्तं तदेव त्वया इदमेव वीतरागत्वमूलहै बीजमिति सुतरामुररीकृतम् । एवं य एवान्येषु दोषास्त एव त्वयि गुणतया परिणमन्ति । इयं च स्तुतिः सद्भूतवस्तु
तत्त्वप्रकटनेन यद्यपि यथार्था, तथापि केषाञ्चिन्महामोहोपहतमतीनां मिथ्येयमितिचेन्मतिमुत्पादयति; तदा तन्मतेन वयं दृष्टिरागरक्ता इत्यप्रमाणम् , अस्मन्मतेन च ते मत्सरिणः पूर्वव्युदाहिता द्विष्टा इत्यप्रमाणं, केवलं कुलजाः क्षमावन्तः पक्षद्धयसम्मताः प्रेक्षापूर्वकारिणः सकलशास्त्रार्थरहस्यनिष्ष्यन्दनिष्णातमतयस्तुलासमानाः सभासदः सभ्या एवात्रार्थे प्रमाण मध्यस्थपरीक्षया हि जात्यकाञ्चनाद्युक्तिकनकं पृथक् भवत्येव ॥ एवं च ।।
B
Jain Education Hara
का
alinerary
Page #98
--------------------------------------------------------------------------
________________
वीतराग.
॥४२॥
महीयसामपि महान् महनीयो महात्मनाम् । अहो मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ॥८॥ 18 सविवर. __ एवं ममायं स्वामी स्तुतेर्गोचरमियाय किंविशिष्टः तिर्यग्नराद्यपेक्षया सुरासुरप्रभृतिदेवानां महीयसामपि देवाधिदेवत्वेन महान् सर्वोत्कृष्टः । तथा महात्मनामन्तर्मुहूर्त पदत्रयाधारेण विरचितद्वादशाङ्गानां गणभृतामहदन्येषामपि विविधलब्धिमतां मुनीनां गुणाधिकत्वेन महनीयः पूजनीयः। अहो इति विस्मये । सोऽप्येवंविधः स्वामी परमात्मा पुरन्दरस्यापि गिरामगोचरस्तुतिः ममापि मन्दमेधसः स्तुवतः स्तोतुमुपक्रान्तस्य केनापि चिरसंचितसुकृतवशेन स्तुतेः स्तवनस्य गोचरं विषयमागमदवततारेत्यहो ममाप्यगण्यपुण्यतेति ॥
इति वीतरागस्तोत्रे महिमस्तवस्य एकादशस्य पदयोजना ॥
ROCCASSOCCARROCCROS
एवं महिमस्तवमभिधाय साम्प्रतं यन्मूलेयमहतां वीतरागत्वख्यातिस्तदेव वैराग्यं वैराग्यस्तवेन स्तुतिकृत् प्रस्तौति ॥ पढभ्यासादरैः पूर्वं तथा वैराग्यमाहरः। यथेह जन्मन्याजन्म तत्सात्मीभावमागमत् ॥ १॥ हे अभङ्गुरवैराग्यसुभग भगवंस्त्वं पूर्व प्राग्भवेषु पटुभिरनाविलैरभ्यासादरैरासेवनसातत्यैस्तथा कथमपि वैराग्यं विरागताप्रकर्षमाहरः सम्यगात्मन्युपनीतवान् । यथेह जन्मन्यर्हद्भवलक्षणे तद्वैराग्यं सात्मीभावमागमत् शैलीमुपेयाय । अत एवाजन्म जन्मनः प्रभृति यत्सहोत्पद्यते तदेव सात्म्यं । इदमुक्तं भवति । किल द्विविधो हि गुण औपाधिकः सहोत्थश्च
॥४२॥
Jain Education
For Private & Personel Use Only
ainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
तत्रौपाधिको यथा तिलतैलजलादिषु परगुणाधानेन सौरभ्यमुद्भाव्यते । सहोत्थश्च यथा मलयजस्य शैत्यं सौरभ्यं च । एवं ४||भगवतोऽपि वैराग्यं न खल्वौपाधिकं किन्तु जन्मनः प्रभृति सहोत्थमेवेति सात्म्यमुपागमदित्युक्तम् ॥ ___ तथा जगति किलेयं व्यवहृतिर्यदिष्टविप्रयोगानिष्टसंयोगबान्धवधनादिभ्रंशादिषु दुःखहेतुषूपनतेषु वैराग्यमाविर्भवति सुखहेतुषु तु राग एवोजागरतामेति तव तु जगद्विलक्षणस्य विपरीतमिदं तथाहि__दुःखहेतुषु वैराग्यं न तथा नाथ निस्तुषम् । मोक्षोपायप्रवीणस्य यथा ते सुखहेतुषु ॥२॥
हे वैराग्यभङ्गीसनाथ नाथ? तव दुःखहेतुषु पूर्वोदितेषु, तथा तेन प्रकारेण, निस्तुषं निर्व्याज, न वैराग्यं, यथा सुखहेतुषु * पूर्वोक्तविपरीतेषु स्वाधीनेष्वपि सुतरामुल्लसति, तथात्वे हेतुमाह-यतः किंविशिष्टस्य तव! मोक्षोपायप्रवीणस्य परमपदो-13
पायप्रपश्चनपश्चमस्य । अयमाशयः 'किल दुःखहेतूद्भवे यद्वैराग्यं तदातुरवैराग्यमिव क्षणिकमेव, यत्तु सुखहेतूनामेकान्ता|नित्यत्वो (मेवो) भावनेन बृहत्तरं वैराग्यमुद्भवति मोक्षान्तत्वेन तदेव प्रशस्यमिति भावः' ॥ किंच
विवेकशाणौ वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ॥३॥
हे समग्रोपायप्रवीण स्वामिन् ! त्वया, विवेकलक्षणासु शाणासु, वैराग्यमेवोग्ररागनिग्रहे निरवग्रहं शस्त्रं, तथा कथमपिताशातं तथा तीक्ष्णतामापादितं, यथा तत्तावदस्त्वत्र किंवत्यन्तदुर्भेदे साक्षान्मोक्षे महानंदेप्यकुण्ठितपराक्रममप्रतिहतसामर्थ्य
मजायत। अथ चान्यदपि शस्त्रं यत्केनापि निपुणेन शाणासु तीक्ष्णं कृतं भवति; तदसकृन्मोक्षणेपि कुण्ठतां नापद्यत इति। 81 | साम्प्रतं भगवतः सर्वावस्थासु वैराग्यमुद्भावयन्नाह
AARAKAARER
Jnin Educational
Fjainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. 11 यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥ ४ ॥ ॥४३॥
हे परमार्हन्त्यश्रीसनाथ नाथ? तीर्थकृन्नामकर्मोपनिवन्धबन्धुरस्यायुषि प्रक्षीणे तथाविधशुभसंभारवशादुपनता मरुतां है देवानां श्रीलक्ष्मीर्यदा त्वयोपभुज्यते, यदा च स्थितिक्षयात्ततश्च्युतेनार्हद्भवे भोग्यफलकर्मोपनीता नरेन्द्रश्रीश्च त्वयोपभुज्यते, तदाप्यस्ति तव विरक्तत्वं, कथमित्याह-यत्र तत्र रति म यत्रैव यथैव स्थितिस्तत्रैव तथैव स्थितिः। किमुक्तं भवति-मरुन्नरेन्द्रश्रियोरुपभोगावसरेपि भगवान्नैवं विचिन्तयति (यदा) 'यत् साध्वियमुपनता श्रीर्यदि कथमपि न वियुज्यते तदा सुन्दरं स्यादिति' केवलमिदमेव विभावयति 'यत्तावदुपस्थितं ममेदं भोग्यफलं कर्म, नच वेदनमन्तरेणैव क्षीकायते' इति रुक्प्रतीकारधिया अनासक्त एव भुङ्क्ते । तथा च पठन्ति “ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्य
मेवे भोक्तव्यं कृतं कर्म शुभाशुभमिति” अतस्तदाप्यस्त्येव तत्त्वतस्त्रिजगद्गुरोर्वैराग्यमिति ॥ | नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥ ५॥ ___ यदा च त्वं भोग्यफलकर्मणः क्षये, नित्यमेकान्ततः, कामेभ्यः पञ्चप्रकारेभ्यो, विरक्तो विरागमुपगतः सन् , योगं ज्ञानदर्शनचारित्ररूपं, प्रपद्यसे स्वीकरोषि तदाप्येभिरत्यन्तदुरन्तविपाकैः कामभोगैरलं पर्याप्तमिति विभावयतस्तवास्त्येव प्राज्यमभङ्गुरं वैराग्यमिति ॥ किंच १ हिरधिकोऽत्र । यद्वा सर्वजातीनां संकरत्वाभ्युपगमात्संकरोऽयमपि ।
ECRECRUCIECRUAROGRADES
॥४३॥
Jain Educationa
lonal
daw.jainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
Jain Education
सुखे दुःखे भवे मोक्षे यदौदासीन्य मीशिषे । तदा वैराग्यमेवेति कुत्र नासि विरागवान् ॥ ६ ॥
यदाच योगप्रतिपत्तेरनन्तरं क्षणे २ विशुद्ध्यमानाध्यवसायः परिपाकोन्मुखे योगसमृद्धिफले सुखे साते, दुःखे असाते, भवे संसारे, मोक्षे महोदये, औदासीन्यमीशिषे सुखदुःखभवमोक्षेषु । तथा वीतरागत्वात्स्वभावादेव समानमानसो भवसि | तदा व्यक्तमेव तव वैराग्यमित्येवं कुत्र कस्मिन्नवस्थान्तरे, विरागवान्नासि ? सर्वत्र विरक्त एवेति भावः ॥ ननु परपरिगृहीतेषु दैवतेष्वस्त्येव वैराग्यं किमधिकं वीतरागस्येति चेदाह
दुःखगर्भे मोहगर्भे वैराग्ये निष्ठिताः परे । ज्ञानगर्भं तु वैराग्यं त्वय्येकायनतां गतम् ॥ ७ ॥
हे निरवग्रहवैराग्यपरभाग भगवन् ! परपरिगृहीताप्तानां स्त्रीशस्त्राक्षसूत्र रागाद्यङ्ककलङ्कितवपुषामसंभावनैव वैराग्यस्य । अथैवमभ्युपपद्यते तदा परे त्वदितरे देवादयो, दुःखगर्भे मोहगर्भे च वैराग्ये निष्ठिताः, तत्रेष्ठवियोगानिष्टयोगादिदुःखहेतूपगमे यत् क्षणिकं वैराग्यं तत् दुःखगर्भ, यच्च कुशासनप्रणीताध्यात्मलवश्रवणेन केषाञ्चिद्राज्यादिपरिजिहीर्षा यमनियमादिचिकीर्षा च भवति तदप्य सर्वज्ञोपज्ञत्वेन मुक्तेरहेतुत्वेन मोहगर्भमज्ञानग्लपितमेव वैराग्यं यत्तु सद्भूतवस्तुतत्त्वोद्भावनसमुद्भूतमनित्यतादिशुभभावनानिरुपचितबलं सर्वसङ्गपरित्यागद्विगुणितोत्साहं त्रिभुवनलक्ष्मीसमागमेप्यक्षुब्धं ज्ञानगर्भ वैराग्यं (तत्) त्वय्येव भगवति श्रीवीतरागे, एकायनतामेकी भावमुपगतं एकमेव वीतरागलक्षणमाश्रयमयते इति एकायनस्तस्य भाव एकायनता तां न पुनरन्येष्विति ॥
jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
वीतराग
सविवर.
॥४४॥
ACCUSEDOES
औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८॥ हूँ एवंविधाय परमात्मने नमोऽस्तु, किंविशिष्टाय? औदासीन्येत्यादि यः किलोदासीनः स कथमुपकारीत्युक्तमेव, भगवतस्तु वीतरागस्य सहचरिते औदासीन्ये माध्यस्थ्य सत्यपि, विश्वस्यापि विश्वस्य कृत्स्नस्यापि जगतो धर्मतीर्थप्रवर्त्तनेन उपकारिणे विहितभावोपकाराय । तथा वैराग्यनिघ्नाय ज्ञानगर्भेण वैराग्येन सह समरसीभूताय, अत एव तायिने भवभयार्त्तसत्त्वपालकाय, तुभ्यं भगवते, परमात्मने चिदानन्दस्वरूपाय, नमः प्रणामोऽस्तु किमित्यन्यप्रणमनेनेति भावः ॥
इति श्रीवीतरागस्तोत्रे द्वादशस्य वैराग्यस्तवस्य पदयोजना ॥१२॥
CAROSAR
इह हि सदेवदानवमानवस्य कृत्स्नस्यापि जगतः प्रवृत्तिः प्रायःसहेतुकैव, सैव च फलवती, विपरीता त्वनिष्टफला विफला वा । जगद्विलक्षणस्य भगवतः श्रीमदहतस्तु प्रवृत्तिः कियत्यपि निर्हेतुका; तथापि सर्वोत्तमफलवती। एतदेव स्तुतिकृद्धेतुनिरासस्तवेन प्रस्तावयन्नाह ॥
अनाहतसहायस्त्वं त्वमकारणवत्सलः। अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ Peen अत्र च प्रकाशे प्रथमश्लोके सर्वाण्यपि भगवद्विशेषणानि प्रथमैकवचनान्तानि, द्वितीये द्वितीयैकवचनान्तानि, एवं |
en Education
For Private
Personal use only
Lohainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
-SAMACARRORMATUREHSAALASS
यावत्सप्तमे सप्तम्येकवचनान्तानि । तत्र प्रथमं प्रथमैकवचनान्तान्याह-हे जगदीश त्वमेवास्मिन् जगत्येवंविधो नान्य ? किंविध? इत्याह-अनाहूतसहायः किल यो यस्मिन्नर्थे सहायो भवति, स प्रायस्तेन सादरं समाहूत एव स्यात्; त्वं तु| मुक्तिपथप्रस्थितानां भव्याङ्गिनां तदुपायरत्नत्रयोपदर्शनादनाहूत एव सहायस्तदियं निर्हेतुकापि भगवत्प्रवृत्तिः सर्वोत्तमफ|लैव । तथा त्वमस्य जगतः कारणं विनैव वत्सलः, कारणे हि वत्सलत्वं स्वापत्यादौ व्याघ्रादीनामपि भवति; भगवांस्तु परमकारुणिकत्वेनाकारणेनापि वत्सलः । तथा यो हि यस्य व्यवसायाद्यर्थ मूलनीवी प्रयच्छति, स तस्य साधुः, सच प्रायः सविनयमभ्यर्थित एव तस्य तां ददाति, त्वं तु भव्याङ्गिना परमपदैश्वर्यनिबन्धनां ज्ञानादिमूलनीवीमनभ्यर्थित एव|२| |ददानोऽनभ्यर्थितः साधुः। तथा बान्धवो हि प्रायः पितृपितृव्यादिसंबन्धेन भवति, त्वं तु संबन्धमन्तरेणैव भुवनजनस्य |बन्धुकृत्यकरणात् निर्बन्धनबान्धव इति ॥ द्वितीयैकवचनान्तानि विशेषणान्याह
अनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ हे विश्वजनीन! त्वामहं शरणं श्रये। किंविशिष्टं त्वां? अनक्तस्निग्धमनसं किल स्नेहाद्यभ्यञ्जनेन प्रायः स्निग्धत्वं भवति, त्वां अस (त्वस्व) त्त्वरूपस्नेहेन अनक्तमपि स्निग्धमनसं अरूक्षहृदयं, श्रये इति सर्वत्र योज्यम् । तथा मार्जितमेव वस्तु प्रायेण उज्ज्वलं | भवति, त्वां तु मृजां विनैव उज्ज्वलवाक्पथमवदातवाक्सञ्चारं । तथा धौतं प्रक्षालितमेव वस्त्रादि प्रायेणामलं भवति, त्वां तु अधौतामलशीलमप्रक्षालितनिर्मलस्वभावं श्रये । अयमाशयः 'भगवतो मानसं वचनं शीलं च यथाक्रममनक्तममार्जि
Jain Education
For Private & Personel Use Only
M
ainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
वीतराग.
सविवर
॥४५॥
ROGROCEROSAUGARCARECAUSCANDA
तमधौतमेव निसर्गतः स्निग्धमुज्ज्वलममलं चेति' एवंविधं त्वामहमान्तरारातित्रस्तः शरणं श्रये, यतः शरण्यं शरणे | साधुमिति ॥ तृतीयैकवचनान्तानि विशेषणान्याचष्टे
अचण्डवीरवतिना शमिना समवर्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥ हे जगदेकवीर! त्वया कर्मकण्टका अकुट्यन्त। किंविशिष्टेन? अचण्डवीरव्रतिना वीरव्रतं सुभटवृत्तिः सा विद्यते यस्य स तथा, यश्च वीरव्रती स कथमचण्डो भवति, त्वया त्वकोपनेनापि निर्व्याजवीरव्रतिना । पुनः किंविशिष्टेन ? शमिना प्रशमामृतसक्तविविक्तचेतसा। तथा समवर्त्तिना समतृणमणिलेष्टुकाञ्चनेन । यश्चाचण्डः शमी समदृष्टिश्च स कथं कमपि कुट्टयति, त्वया त्वेवंविधेनापि कर्माणि ज्ञानावरणादीनि तान्येवारुन्तुदत्वेन कण्टका इव कण्टकास्ते काममत्यर्थमकुट्यन्त स्वात्मप्रदेशेभ्यः पृथगक्रियन्त । यतः कुरिलाः कुटिलव्यसनोत्पादकाः, कण्टकाश्च ऋजवोऽपि तावदुर्मोच्याः किंपुनः कुटिलाः, अतः स्थाने स्थाने जगद्वीरेण स्वामिना अकुट्यन्तेति ॥ चतुर्येकवचनान्तानि विशेषणानि ब्रूते
अभवाय महेशायागदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद्भवते नमः॥ ४ ॥ एवंविधाय तुभ्यं नमोऽस्तु, किंविशिष्टाय? अभवाय महेशाय, अमूनि च षडपि पदानि परस्परविरुद्धानीव । यः किल महेशख्यंबकः स कथमभवस्तस्य भवशब्दाभिधेयत्वात्, भगवांस्तु भवावतारकारणभूतानां कर्मणामात्यन्तिकक्षयेणाभवः, तथा परमार्हन्त्यपरमैश्वर्यसमुपेतत्वेन च महेशस्तस्मै। तथा अगदाय नरकच्छिदे, यः किल नरकच्छिन्नारायणः स कथम
CREASCA-CRACARRORSCRECCG
॥४५॥
Join Education
ainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
XSECRETURESSESSIONS RESEASES
गदो गदाधरत्वात्तस्य, भगवांस्तु सहजातिशयमहिम्नैव जन्मनः प्रभृति अगदो नीरुदेहः, तथा धर्मतीर्थप्रवर्त्तनेन भव्याङ्गिनां नरकच्छेदी च, तस्मै । तथा अराजसाय ब्रह्मणे, यः किल ब्रह्मा विधिः स कथमराजसः, किल रजोगुणजुष्ट एव परमेष्ठी सृष्टिं घटयति, स्वामी तु कर्मरजोऽपगमादराजसः, परमे च ब्रह्मणि लयमुपगतत्वाद्ब्रह्मा, तस्मै । एवंविधाय हरिहरब्रह्मभ्यो व्यतिरिक्ताय । अत एव कस्मैचित् छद्मस्थानामगोचराय परमात्मने भगवते नमोऽस्त्विति ॥ पञ्चम्येकवचनान्तानि विशेषणान्याह ।
अनुक्षितफलोदग्रादनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥ ५॥ हे प्रणयकल्पद्रुम? त्वत्तः सकलदुमधर्मविलक्षणकल्पद्रोरहं फलमवाप्नुयाम् । द्रुमधर्मवैलक्षण्यमेवाह-किंविशिष्टात्त्वत्तः? अनुक्षितफलोदयात् द्रुमा हि निरन्तरोक्षणेन काले फलमात्रं ददन्ति, त्वत्तः पुनरनुक्षितादपि फलैरैहिकामुष्मिकसुखलक्षणैरुदनात् परिपूर्णात् तथा हि-पादपा हि निपातेन गरीयांसो गुरुभाराः स्युः; त्वत्तस्तु स्वस्वरूपावस्थितादपि गरी| यसो गुरुगौरवमिति । तथा कल्पतरवः सङ्कल्पिताः किल फलं ददति, त्वत्तः पुनरसङ्कल्पितात् कल्पद्रोः 'निर्निदाना हिदू स्वामिनः सेवा सविशेष फलमालिनी फलति' तदेवंविधात्त्वत्तोऽहं फलममृतरूपमचिरात् प्राप्नुयां लभेयमिति ॥ षष्ठयेकवचनान्तानि विशेषणान्याचष्टे ॥
असङ्गस्य जनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनस्तेऽस्मि किङ्करः ॥ ६ ॥
in Eduelan
For Private & Personel Use Only
jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
E
सविवर.
वीतराग.
द्रा हे विश्वेश? अहं तव किङ्करोऽस्मि । एतानि चाष्टावपि विभक्त्यन्तपदानि परस्परविरुद्धानीव । कथमित्याह-असङ्गस्य जने-
है शस्य अतो यः किलासङ्गः स कथं जनेशः? भगवांस्तु सर्वसङ्गपरित्यागादसङ्गः परमार्हन्त्यप्रभावादकामोऽपि त्रिभुवन॥४६॥ जनसेव्यत्वेन जनेशः तस्य । तथा निर्ममस्य कृपात्मनः यः किलः निर्ममः स कथं कृपात्मा! जगद्गुरुस्तु वीतरागस्वभावादेव
8|ममत्वरहितो दुष्कर्मनिर्मथ्यमाने त्रिभुवनजने च कृपालुः तस्य । तथा मध्यस्थस्य जगत्रातुः यः किल मध्यस्थ उदासीनः
स कथं त्राता? स्वामी त्वरक्तद्विष्टत्वेन मध्यस्थोऽपि एकान्तहितधर्मोपदेशदानादान्तरारातित्रस्तस्य जगतः। अत एवंविधस्य तवाहं किङ्करः प्रेष्योऽस्मि । किंविशिष्टोऽनङ्कः यश्च किङ्करः स कथमनको भवति? जगद्गुरुस्तु द्विपदादिपरिग्रहरहितो न कमप्यङ्कपातेन स्वीकरोति केवलमहं तकिङ्करत्वेनैवानङ्कः कुग्रहकलङ्करहित इति ॥ सप्तम्येकवचनान्तानि विशेषणान्याख्याति ॥ ___ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्ने च त्वय्यात्मायं मयार्पितः ॥ ७॥
एवंविधे त्वयि मया आत्मा समर्पितः। अमून्यपि विरोधच्छायया पदानि तथाहि-किंविशिष्टे त्वयि रत्ननिधौ किंभूते अगोपिते, यश्च रत्ननिधिः स कथमगोपितो भवति ? भगवास्तु ज्ञानादिरत्नानां निधिरक्षीणशेवधिः त्रिभुवनजनप्रकटश्च तस्मिन् । तथा अवृते कल्पपादपे सामान्योऽपि फलपुष्पप्रधानः शाखी कण्टकादिवृत्याव्रियते किमुत कल्पनुः! स्वामी तु सकलप्रणयिजनमनःसङ्कल्परपादपोऽपि कर्मवृतिभिर्न वृतः इत्यवृतस्तस्मिन् । तथा अचिन्त्ये चिन्तारत्ने च यत्किल चिन्तार-1 नं तच्चिन्तितमेव फलं वितरतीति कथमचिन्त्यं! जगद्गुरुस्तु समस्तचिन्तितार्थविश्राणेन चिन्तामणिरपि अप्रमेयमहिमत्वे
rorros
॥४६॥
Jain Education international
For Private & Personel Use Only
(Aww.jainelibrary.org
Page #107
--------------------------------------------------------------------------
________________
SEASOS SORRISO ROSSA
न वाक्कायमनसामगोचरत्वेनाचिन्त्यस्तस्मिन् एवंविधे, त्वयि विश्वजनीने, मया आत्मा सर्वात्मना समर्पितस्त्व-181 दायत्तः कृत इति ॥ एवमात्मानं स्वामिनः स्वाधीनं विधाय किञ्चिदुचितं प्रार्थयन्नाह
फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किंकर्त्तव्यजडे मयि ॥ ८॥ हे जगच्छरण्य? त्वं मयि प्रसीद, किंविशिष्टस्त्वं? फलमात्रतनुः फलमात्रा तनुर्यस्य स तथा, किल सङ्गत्यागदुस्तपतपोवि-| धानकर्मनिर्मूलनकेवलोत्पादतीर्थप्रवर्तनादीनां सिद्धत्वमेव फलं, साम्प्रतं च त्वं फलमात्रतनुः केवलज्ञानदर्शनानन्दवीर्या
त्मा, अहं तु फलरूपस्य तवानुध्यानवन्ध्यो विफलप्रयत्नः ‘अनुध्यानं दृष्टश्रुतानुभूतस्यैव वस्तुनो भवति' त्वं तु निरद जनपदस्थः परमात्मखरूपः सर्वथैवाविषयो दर्शनादीनां, अतः किङ्कर्त्तव्यतायां जडे अप्राप्तोपाये, मयि कृत्यविधौ यन्मया | विधेयं तस्मिन्विधौ प्रकारे प्रसीद । किमुक्तं भवति ? 'अहं तावदवधीरितापरविधेयस्त्वदनुध्यान एव निलीनमानसस्त्वं तु फलमात्रतनुः, फलं च सिद्धत्वं, तच्च मनोनुध्यानस्यागोचरं, अतस्तथा मयि प्रसीद यथा फलमात्रतर्नु त्वामहमालोकयामि, तच्च केवलिन एव सुलभ, केवलं च कर्मक्षयायत्तं, तस्मात्तथा सानुग्रहो भव यथा सकलकर्मजालमहमपित्वमिव लीलयोन्मूलयामीति भावः॥
इति वीतरागस्तोत्रे त्रयोदशस्य हेतुनिरासस्तवस्य पदयोजना ॥ १३ ॥
Jain Education
N
iral
For Private
Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
॥४७॥
AURUSHEDOSSESSMSAX
अधुना यन्मूलेयमहतां जगति विख्यातिस्तमेव योगसिद्धिस्तवेन स्तुतिकृदुपस्तौति । मनोवचःकायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनःशल्यं वियोजितम् ॥१॥
हे योगोपनिषदुपायप्रवीण भगवन् ? त्वया मनःशल्यं वियोजितं, किंकृत्वा! मनोवचःकायानां चेष्टा बहिर्व्यापाररूपाः, संहहै त्य प्रतिषिध्य, किं सर्वा अपि? नेत्याह-कष्टाः कष्टहेतुत्वात् कष्टाः सावद्याः, कथं? सर्वथा सर्वात्मना। यदि पुनः क्वाप्यालम्बने
मनो नियोज्य वियोज्यमित्याह-श्लथत्वेनैव श्लथभावेनैव यतो विपरीतशिक्षिताश्ववन्नियन्यमाणं मनः सुतरां प्रसरति, श्लथं मुक्तं तु स्वयमेवावतिष्ठते, क्रमेण च निरिन्धनो वह्निरिव निर्विषयं मनः स्वयमेव विलीयते । यदाह भगवान् जिनभद्रः “ओसारिइन्धणाभरोजह परिहाइ कमसो हुयासुत्थ। थोविंधणो वसेसो निव्वाइ तओवणीओ य ॥१॥ ओसारिन्धणहीणो है मणोहुयासो कमेण तणुयंमि। विसइन्धणावसेसो निव्वाइ तओवणीओ य॥२॥” एवं चतोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगमणो जलं जाण ॥१॥' सर्वथा मनोविलयश्च केवलिनोऽव्युपरतस्य शैलेशीसमय एव भवति । तदेवं त्वया मनोरूपं शल्यं वियोजितमात्मनः सकाशात् पृथक्कृतं निरुपयोगित्वे सदप्यसदिव विहितम् । अन्योऽपि यः शरीरान्नाराचादिशल्यं वियोजयति स बाह्यचेष्टानिरोधेन विश्लथाङ्गो भवति तथास्थितस्य च सन्दंशादिप्रयोगेणेषत्करं शल्यवियोजनमिति ॥ एवं मनोविजयमभिधाय इन्द्रियजयमाह
संयतानि नचाक्षाणि नैवोच्छृङ्खलितानि च। इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृतः॥ २॥
॥४७॥
Jain Education a
nal
M
ainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
Jain Education In
हे भगवन् ? त्वया इन्द्रियजयः कृतः, कथमित्याह ? संयतानि नचाक्षाणि अक्षाणि स्पर्शनादीन्द्रियाणि स्वस्वविषयेषु प्रवर्त्तमानानि न नियन्त्रितानि विषयेभ्यश्च स्वयमेव व्यावृत्तानि नैव उच्छृङ्खलितानि उपेत्यापि किमित्याह ? यदि किल विषयोन्मुखान्येवाक्षाणि बलात्संयम्यन्ते, तदा अदृष्टस्वरूप स्वरूपाणि सकौतुकानि सस्पृहाणि च न प्रतिपद्यन्त एव नियन्त्रणां; यदा तु कियत्कालमुच्छृङ्खलं विषयेषु व्यापार्यन्ते, तदा विज्ञातविषयस्वरूपाणि निवृत्तकौतुकानि कृतकृत्यानि स्वयमेव निवर्त्तन्ते, नच भूयो विकृतिमुपयान्ति । श्रूयते च "येन संवत्सरो दृष्टः सकृत् कामश्च सेवितः । तेन विश्वमिदं दृष्टं पुनरावर्त्तते जगदिति" । एवं च त्वया इन्द्रियजयोपायं सम्यक्प्रतिपदा यथावत्प्रतिपदानेन हृषीकवशीकारः कृत इति ॥ एवं मनो विजयानन्तरं किलाष्टाङ्गयोगप्रवृत्तिरित्यपि व्यवहृतिमात्रमेवेति दर्शयन्नाह ॥
योगस्याष्टाङ्गता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोऽप्येष तव सात्म्यमुपेयिवान् ॥ ३ ॥
हे योगसागरपारीण भगवन् ? येयं योगशास्त्रादिषु योगस्याष्टाङ्गता यम, नियमासन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधि, लक्षणा श्रूयते, सापि निपुणं निरूप्यमाणा प्रपञ्च इव प्रक्रिया गौरवमिव प्रतिभाति । किमित्याह ? कथमन्यथा अन्यथा प्रपञ्चाभावे एष योगस्तव कथं सात्म्यं शैलेशीमुपेयिवान् । कुतः प्रभृतीत्याह ? आबालभावतः आशैशवात् । अयमाशयः 'भगवतो हि गर्भावतारात्प्रभृति ज्ञानत्रयधरस्य सहचर एव योगः, या चेयमष्टाङ्गता सा सामान्ययोगिजनापेक्षया, जगन्नाथस्तु योगिनाथः ततस्तस्य सात्म्यमेव योगस्येति न किञ्चिदसङ्गतम् ' । नच योगप्राप्तिक्रम एव तवालौकिकं किंत्विदमपीत्याह
ainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
॥४८॥
SOCCANCIENCETROCIRCREEN
विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि स्वामिन्निदमलौकिकम् ॥ ४॥ हे स्वामिंस्तवेदमप्यलौकिकं, किमित्याह ? यद्विषयेषु शब्दादिषूपनतेष्वपि निसर्गत एव विरागः, यदि पुनः पूर्वमपरिचितास्ते भविष्यन्तीत्याह-चिरं सहचरेष्वपि चिरमनादिभववासात्प्रभृति सहचरेषु प्रतिभवोपलालितेषु विरक्तिर्भवहेतुत्वात्तेषां| योगेऽदृष्टे पूर्वमपरिचिते सद्यः सङ्घटितेऽपि सात्म्यमेकीभावस्तस्यैव मोक्षाङ्गत्वादित्येतदपि तवालौकिकं लोकोत्तरमिति ॥
तथा भगवतः केवलोत्पत्तेरनन्तरं परिपत्रिमयोगफलस्य समुचितैव समशत्रुमित्रता, किंतु छद्मस्थस्य परिपठ्यमानयोगफलस्यापि लोकोत्तरैव समतेत्युपदर्शयन्नाह
तथा परे न रज्यन्त उपकारपरे परे । यथापकारिणि भवानहो सर्वमलौकिकम् ॥ ५॥ हे लोकोत्तरचरित्रोद्भासित भगवन्? परे योगरहस्यविश्रान्तिशून्याः कुतीर्थिनः परेऽन्यस्मिन्नुपकारपरे प्रवर्तितोपकारेप्यधिकाधिकोपकृतिस्पृहया, तथा तेन प्रकारेण, नरज्यन्ते न प्रीतिमुद्वहन्ति, यथापकारिणि सङ्घटितदुर्गोपसर्गेऽपि अहो साधु कर्मक्षयप्रवृत्तस्य ममायमनाहूतसहायः संपन्न इति परेऽन्यस्मिन् प्रीतिमुद्वहति, अहो इति विस्मये। तदेवं यद्यत्तव चरित्रमनुस्मयते तत्तत्सर्वमलौकिकं लोकोत्तरमेवेति ॥ पुनर्भगवतो योगसमृद्धिजं साम्यमुत्कर्षयन्नाहहिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ॥ ६ ॥
॥४८॥
Jain Education
ina
For Private Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
VI हे स्वामिनी त्वया हिंसका दुर्धरक्रोधोद्वद्धबधबुद्धयोऽपि परमकारुणिकेनोपकारिण इवोपकृताः शान्तेऽध्वनि सञ्चा
रिता यथा भगवता श्रीवर्धमानस्वामिना शूलपाणिचण्डकौशिकप्रभृतयः, तथा आश्रिता निर्णिक्तभक्तिव्यक्तिजुषः सन्ततं दाच चरणसरोजसेवाहेवाकिनोऽप्यपरिचितेनेव त्वयोपेक्षिता औदासीन्येन दीक्षिताः यथा तेनैव स्वामिना महात्मजनिस
टप्रलयानलप्रतिमतेजःपुञ्जजाज्वल्यमानतनू सर्वानुभूतिसुनक्षत्रमुनी । तदिदमेवंविधं चित्रमाश्चर्यचर्याकरमलौकिकं तव |चरित्रं, के वा कृतधियोऽपि, पर्यनुयुञ्जताम् किमर्थमिदमेवं स्वामी करोतीति प्रष्टुमप्युत्सहन्तामित्यहो तवाद्भुता वीतराग-1 तासहचरिता समतेति ॥ न च निन्दास्तुतितिरस्कारपुरस्कारेष्वेव तवौदासीन्यं किन्तु स्वात्मन्यपीत्युपदर्शयन्नाह| तथा समाधौ परमे त्वयात्मा विनिवेशितः। सुखी दुःख्यस्मि नास्मीति यथान प्रतिपन्नवान् ॥७॥
हे भगवन! त्वया, तथा तेन प्रकारेण, परमे त्वदितरयोगिनामगम्ये, समाधौ परमाराध्यात्मलये, आत्मा, विनवेशितो। || निष्पकम्पतामारोपितो यथाहं सुखी यदि वा दुःखी अस्मि नास्मीत्येतदपि न प्रतिपन्नवान् चिदानन्दात्मनि निलीनो न18| वेत्ति भवान् ॥ यस्माच्च सुखदुःखसत्त्वासत्त्वानि ध्यानावसरे विलीयन्ते तमेव स्वामिनो योगमहिमानमुदीरयन्नाह
ध्याता ध्येयं तथा ध्यानं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः॥en
हे योगोपनिषन्नयन स्वामिन् ! तव योगमाहात्म्यं परैः कथं श्रद्धीयतां! किमित्याह-इति, इतीति किं त्रयमेकात्मतां गतं. किंतत्रयं ? ध्याता ध्येयं ध्यानं च, तत्र ध्याताक्षपकश्रेण्यारूढः, ध्येयं षड्जीवनिकायहितं परमात्मतत्त्वं, ध्यानं च ध्येयवि
Jain Education
69
For Private Personel Use Only
Painelibrary.org
Page #112
--------------------------------------------------------------------------
________________
सविवर.
वीतराग पिया एकप्रत्ययसन्ततिः । एतच्च त्रयमयपरिपच्यमानध्यानावस्थायां पृथग् भवति । क्रमेण च समुन्मीलिते ध्यानपरि
पाके एकात्मतां याति ध्यातृध्याने ध्येये एव निलीयेते तदा चाहं सुखी दुःखी अस्मि नास्मीत्यादि न वेदयते । तदेवंप्र- ॥४९॥
कारं तव योगमाहात्म्यं परैः सूक्ष्माध्यात्मवर्त्तन्यप्रविष्टहृदयैः कथं केन प्रकारेण श्रद्धीयतां तथेतिप्रत्ययपूर्व हृदि निधीयताम् । सा च तेषामेवायोग्यता, तव तु स्वानुभवसुभगे वस्तुनि किं परप्रत्ययेनेतिभावः ।
इति वीतरागस्तोत्रे चतुर्दशस्य योगशुद्धिस्तवस्य पद्योजना ॥
GROCEROSCALARSANEMIC
अथातः स्तुतिकृदुत्तरोत्तरगुणमहिमनि भगवति परमात्मनि योगसमुलसिताद्भुतभक्तिभक्तिस्तवमुपक्षिपन्नाह__जगजैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्रयी ॥ १॥ | हे त्रातर्भवभयोपप्लुतसत्त्वपालक! तव संबन्धिनोऽन्येऽद्भुतस्तवमहिमस्तवादिवर्णिता जगजैत्रा जगद्धृतगुण (णि) गणगु-18 होणेभ्योऽनन्तगुणमहिमत्वेन जेतारो गुणास्तावदासतां दूरे तिष्ठन्तु ! किंतु मुद्रयापि त्वया जगत्रयी जिग्ये । किंविशिष्टया? | उदात्त शान्तया उदात्तया अनभिभवनीयया, तथाविधा च कदाचिद् धृष्यतयानभिगम्या स्यादित्याह-शान्तया सौम्यया | सकललोकलोचनानन्ददायिन्या मुद्रया मूर्त्यापि, जगत्रयी भूर्भुवःस्वःस्वरूपा जिग्ये न्यत्कृता । अर्हदनुरूपबललव|णिमादीनामप्यन्यत्राभावात् । एवं च
॥४९॥
Jain Education
a
l
For Private & Personel Use Only
l
ainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
M
E
CORRECTORRCHCRACCIENCEOCHAUCRk
मेरुस्तृणीकृतो मोहात् पयोधिोष्पदीकृतः। गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोहितः ॥२॥ हे स्वामिन् ? यैस्त्वमपोहितस्तैरिदमकारि। किं तदित्याह-मेरुयोजनशतसहस्रोच्छ्रायः सकलकल्याणमयमूतिर्मणिसानुः सुरभूधरस्तृणीकृतस्तृणगणनया मोहादृष्टः । तथा पयोधिोजनशतसहस्रविस्तारो रत्नाकरः समुच्छलदतुच्छकल्लोलकूटकलकलवाचालितरोदोऽन्तरालः सलिलनिधिरपि गोष्पदतुलया कलितः। यैः पाप्मभिः पापपटलविलीनचेतोभिः गरिष्ठेभ्योऽपि सुरासुरनायकेभ्योऽपि गुणाधिकतया गरिष्ठो गरीयांस्त्वमप्यपोहितः पृथगजनवदवज्ञया दृष्टः। किमुक्तं भवति ? |किल न खलु तैर्नृपशुभिः कृता मेरोस्तृणता पयोधेर्गोष्पदता; नैव च जगद्गुरोलघुता भवति । न केवलमनात्मज्ञेस्तैगुणम
त्सरिभिरेवमेवात्मा विलव्यते इति ॥ यथा च तवावज्ञा न दुरन्तदुरिताय तथा त्वच्छासनस्यापीति दर्शयन्नाह| च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा। यैस्त्वच्छासनसर्वस्वमज्ञानै त्मसात्कृतम् ॥ ३॥
हे भगवन्? यैस्त्वच्छासनमात्मसान्न कृतं तेषामिदमिदमभूत्, किं तदित्याह-तेषामभाविभद्राणां पाणेः कराच्चिन्तामणिर्म४/नश्चिन्तितार्थसार्थघटनपटुर्मणिश्युतो विघटितः, तथा अजरामरहेतुः सुधा कुतोऽपि देवालब्धाप्यनुपयोगेन मुधा वृथैव |गता, यैस्तव संबन्धि शासनं प्रवचनमेव सर्वस्वं सारद्रव्यमुपनतमप्यात्मसादात्मायत्तं न कृतम् । अयमाशयः 'किल चिन्तामणिपीयूषत्वच्छासनान्यगण्यपुण्यप्रचयमन्तरेण न तावत्सम्पद्यन्ते, दैवादुपनतानि तान्यपि ये सादरं न स्वीकुर्वन्ति; तेभ्योऽप्यन्यो जगति न जघन्य इति ॥ पुनर्भगवति भक्त्यतिशयं स्तुतिकृयनक्ति
ROCESCRECCANCIENCEOCHURCESS
Edu
a
re
For Private Personal Use Only
IAN
Page #114
--------------------------------------------------------------------------
________________
वीतराग यस्त्वय्यपि दधौ दृष्टिमुल्मकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ || सविवर,
टू हे स्वामिन् ! यस्त्वय्यपि विश्वजनीने कपायकलुषितमतिरुल्मुकाकारधारिणी ज्वलदलातप्रतिमां दृष्टिं दधाति धास्यति ॥५०॥ हैवा; तं दुरात्मानमाशुशुक्षणिर्वह्निः, अह्नाय साक्षाद्भूय इति वचसाभिधाय, भस्मीकरोत्विति च मनसि निधाय, पापभीरुः
स्तुतिकृदाह-आलप्यालमिदं हि वा, । वा अथवा इदं आलप्यास्य निस्तूंशोचितस्याप्यास्यालापनेनालं पर्याप्तं । किमुक्तं द्रभवति ! किल तावत्तस्य त्वद्विद्वेषिणः स्वस्य दुष्कृतस्य फलमवश्यं भविष्यत्येव; मम तु परमकारुणिककिङ्करस्य तं प्रति नो-18 चितमिदमाक्रोशकार्कश्यमिति ॥ किंच
त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हतात्मनाम् ॥ ५॥ हे भुवनमहनीयशासन? तव संबन्धिनः शासनस्य निवृत्तिपुरप्रस्थानघण्टापथायमानस्य त्वत्प्रवचनस्य शासनान्तरैर्दीर्घ-12 संसृतिपथपाथेयप्रतिमैः कुतीर्थिकतीर्थैः समं साम्यं ये ये मन्यन्ते तेषां हतात्मनां विगर्हितजीवितानां मते विषेण सद्यः-18 प्राणघातिना हालाहलेन पीयूषं मृतसञ्जीवनममृतं तुल्यं समानं किमुक्तं भवति ? किल यावन्मात्रं पीयूषविषयोरन्तरं ता-16
वत्त्वच्छासनकुशासनानामित्यहो तत्साम्यकृतां सुसंस्कृता मतिर्गुणागुणविचारे ॥ न च सर्वथा सदसद्विचारे परे| दापरिक्षीणमनीषाः, केवलमनादिमिथ्यावासनोल्लसदतुच्छमत्सरास्त्वय्यासूयन्ति ततस्तेषां स्तुतिकृन्मुखपरुषमायतिहितं च
किंचिदुत्तरयति
॥५०
For Private
Personel Use Only
jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
SAARCHECRECIRCLEARCHERS
अनेडमूका भूयासुस्ते येषां त्वयि मत्सरः। शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥ ६ ॥ हे स्वामिन् ! येषां त्वय्यपि निष्कारणवत्सले मत्सरोऽसूया ते अनेडमूका अवाक्श्रुतयो भूयासुर्यथा निर्मलगुणानुरागितभिर्मध्यस्थस्तावकैः स्तूयमानांस्त्वद्गुणानाकर्ण्य न मत्सरवशादसत्प्रलापमुखरमुखा न भवन्ति । नचायं तेषामुपक्रोशः
किंतु भवाभिनन्दिनां वैकल्यमिन्द्रियविकलतापि शुभोदर्काय शुभफलाय जायते । इदमुक्तं भवति-ते ह्यविकलेन्द्रिया निरङ्कशं पापकर्मसु त्वन्निन्दादिषु प्रवर्त्तमानाःप्रचुरतरमशुभराशिं सञ्चिन्वन्ति; विकलेन्द्रियास्तु 'स्वयं पंढो ब्रह्मचारी' इतिन्यायादसामर्थ्यप्रतिहतपापवृत्तयः स्वरूपमात्रेणावतिष्ठन्ते; तच्च तेषामायतौ हितमेवेति ॥ एवं भगवन्मत्सरिणः प्रच्छाद्य तच्छासनरतानुपस्तौति| तेभ्यो नमोऽञ्जलिरयं तेषां तान् समुपास्महे । त्वच्छासनामृतरसैरात्मा सिच्यतान्वहम् ॥ ७॥
हे भगवन्? आस्तां तावत्तुभ्यं त्वच्छासनाय च यदगण्यपुण्योपचितेभ्यस्तेभ्योऽपि नमो नमस्कारोऽस्तु तथा तेषामक्षीणभागधेयानामयमस्माभिरञ्जलिः सन्जितः। तथा प्रशस्यचरितांस्तानेव वयमुपास्महे। यैः किं ? दुष्कर्मदावपावकप्रदीप्तः स्वात्मा त्वच्छासनामृतरसैस्त्वत्प्रवचनपीयूषपूरैरन्वहं प्रतिवासरमसिच्यत । तस्यैव संसृतिसन्तापनिर्वापणप्रवणत्वादिति ॥ यदि वा त्वद्वचनामृतप्नुतमनसः स्फुटचेतनास्ते तावन्नमस्या एव, किंतु
भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् ॥ ८॥
Jain Educatio
n
al
For Private & Personel Use Only
A
w
.jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
वीतराग.
सविवर.
॥५१॥
CAMESSASURESSESE
तस्यै भुवे पृथिव्यै नमोऽस्तु, यस्यां तव पादनखाशवस्तव क्रमनखमयूखाश्चिरं चूडामणीयन्ते मौलिमणिमहिमानमुद्हन्ति । अतः परमपि वयं किमन्यद्महे । किमुक्तं भवति ? किल यदि त्वदध्यासनेन तीर्थप्रतिमापृथिव्यपि नमस्या ततः | किमन्यत्त्वद्गुणेष्वनुपादेयमिति । एवं च ___ जन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः। जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः॥ ९॥
एवं च सति स्वामिन्? अहमेव जन्मवान् सफलावतारोऽस्मि । तथा धन्यः पुण्यवानहमेवास्मि । तथा कृतकृत्यो निर्वर्तितसमस्तशस्तकर्त्तव्योऽप्यहमेवास्मि । यत्किं? यदहं मुहुरनुक्षणं त्वद्गुणग्रामरामणीयके तव गुणसमूहमनोहरत्वे लम्पटो बद्धगृद्धिर्जातोऽस्मि । अयमाशयः 'इदमेवास्य समग्रसामग्रीसङ्गतस्य जन्मनः फलमेतदेव च तत्त्वतो धन्यत्वमियमेव च निश्चिन्तता यदेकान्ताभिरामत्वद्गुणग्रामवर्णने न नैकतानं मनः समजनीति' ॥
इति वीतरागस्तोत्रे भक्तिस्तवस्य पञ्चदशस्य पदयोजना ॥
एवं स्तुतिकृद्भक्तिस्तवेन भगवतः स्वभक्तिमाविष्कृत्य साम्प्रतमात्मगर्हास्तवेन क्षीणितात्ति विज्ञापयन्नाह___ त्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ ! परमानन्दसम्पदम् ॥ १॥ हे विहितान्तरारातिप्रमाथ नाथ? इतोऽस्मिन्पक्षे त्वन्मतामृतपानोत्थास्त्वत्प्रवचनपीयूषास्वादनसमुद्भवाः शमरसोमयः
| ॥५१॥
Jan Education
a
l
For Private
Personal Use Only
R
ainelibrary.org.
Page #117
--------------------------------------------------------------------------
________________
ROCESSORRC-ECORRECIRCLECTEX
प्रशमामृतवीचयो मां परमानन्दसम्पदं चिदानन्दश्रियं पराणयन्ति प्रापयन्ति । भवत्येव परमप्रशमामृतसुहितस्यात्मनः किञ्चिच्चिदानन्दानुरूपं सुखमिति ।। ___इतश्चानादिसंस्कारमूर्छितो मूर्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥ |
हे भगवन् ? इतश्चास्मिन्पक्षे अनादिसंस्कारमूर्छितः प्रचुरतरभवोपलालनोपचितोरागोरगविषावेगोरागभुजङ्गगरलोद्गारोsलमत्यर्थ मां मूर्छयति मुकुलितसदसद्विचारं विधत्ते । एवंच सति किमहं हताशो विगलितप्रत्याशः करवाणि किं प्रतिविधानं विदधे? स्थाने च हताशत्वं यतो यस्यामृतमापिवतोऽप्युरगविषावेगः प्रसरति तस्य तन्निग्रहे किमपरमापयिक ? यस्य च परमवैराग्यप्रधानं जिनप्रवचनं परिशीलयतो रागावेगःस्फुरति स तदपरं तन्निग्रहोपायमपश्यन् भवत्येव विहताशः। रागवैकृतमेव व्यनक्तिरागाहिगरलाघ्रातोऽकार्ष यत्कर्म वैशसम् । तद्वक्तुमप्यशक्तोऽस्मि धिग्मे प्रच्छन्नपापताम् ॥३॥ हे स्वामिन्? अहं रागाहिगरलाघ्रातो रागोरगविषावेगास्कन्दितो यद्वैशसमसमञ्जसं कर्म व्यापारमकार्पमकरवम् तदधुना तेनैव स्वकर्मणा लज्जितस्तवापि विश्ववत्सलस्य पुरतो वक्तुं प्रकाशयितुं न शक्तोऽस्मि ततो धिगिति निन्दायां, मे मम, इमां प्रच्छन्नपापतां परोक्षदुष्कृतकारितां धिक्, युक्तः स्वात्मनि धिक्कारो यतः कृत्वापि दुष्कृतं यदि सत्पात्रे प्रकाश्यते तदा तदुचितप्रायश्चित्तादिना भवत्येवैनसः शुचिः, अप्रकाशितं तु दुष्कृतं नष्टशल्यमिवामरणान्तं व्यथयति भवान्तरं च सङ्क्रामतीति।।
न च राग एव केवलः प्रतिपन्थी किन्तु मोहादयोऽपीति व्यनक्ति
Join Education
anal
N
ow.jainelibrary.org
Page #118
--------------------------------------------------------------------------
________________
वीतराग. क्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी। मोहायैः क्रीडयेवाहं कारितः कपिचापलम् ॥४॥ द सविवर.
हे मोहद्रोहकारिन् ? त्वकिङ्करोह मोहाद्यैः कपिचापलं प्रापितः। कथमित्याह-क्षणं क्षणमात्रं मनोज्ञेषु शब्दादिषु साक्षा॥५२॥
कान्निबद्धरतिस्तिष्ठामि, क्षणं च दुरन्ततद्विपाकाम्बु (कवि) चिन्तनेन मुक्तो मुक्तरूप इव भवामि, क्षणं च केनापिक्वचिद्वाञ्छिते8 हस्खलिताभिलाषस्तं प्रति क्रुद्धः क्रोधवानस्मि, क्षणं च क्रोधफलोपभोगेन विलीनौदयिकभावो भावयन्वस्तुतत्त्वं क्षमी क्षमा
वान् भवामि । एवं मोहादिभिः क्रीडया मनोविनोदार्थम वेश्वरैरहं कपिचापलं कापेयं कारितः यथा सहजनिजचापलेन क्षणे २ कोऽपि विसदृशचेष्टो भवति तथाहमपि मोहादिभिरिति । यदि वा मुधैव मोहादयो मयोपालभ्याः यतः स्वकृतमेवेदं दुश्चेष्टितं (इति) दर्शयन्नाह| प्राप्यापि तव सम्बोधि मनोवाकायकर्मजैः । दुश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः॥५॥
हे सम्यक्शुभशक्तिसनाथ? तव सम्बधिनी सत् सम्यगृपां बोधि ज्ञानश्रद्धानलक्षणां पुण्ययोगात् प्राप्य लब्ध्वापि मनोवाक्कायकर्ममनोवचनतनुसमुद्भवैः पापानुवन्धिभिर्दुश्चेष्टितैमया स्वयमेव स्वशिरसि अनलः प्रचालितः। किमुक्तं भवति? यथा केनापि कृपालुना ज्वालितादालयादाकृष्टोऽप्यात्मवैरितया पुनः स्वमुनि दहनं दीपयति तथा मयापि भवशतसहस्रदुर्लभां निवृतिपुरीप्रस्थाननिरुपहतवर्तिनी तव बोधि लब्ध्वापि निरर्गलदुष्टयोगविचेष्टितैर्दुर्गतिदुःखान्यात्मन्युपचयता शिरस्यनल इव ज्वालितः, तत्त्वतस्त्वेतदपि भावारिविलसितमेव ॥
॥५२॥ १ कपिः.
Jain Educatio
n
al
For Private & Personel Use Only
O
w.jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
त्वय्यपि त्रातरि त्रातर्यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे ह्रियते हताशो हा हतोऽस्मि तत्॥६॥ || हे त्रातः? भावारिविधुरितभव्याङ्गिवर्गपालक त्वयि त्रिभुवनजनपरित्राणप्रवणपराक्रमे त्रातरि पुरः सत्यपि यन्मोहादिभिर्मलिम्लुचैः पाटच्चरेमें मम त्वयैव प्रसादितं ज्ञानदर्शनचारित्ररूपं रत्नत्रयं वियते बलाद्विलुप्यते । हा हत खेदे तदहं हत एव हताशः युक्तं च हताशत्वं! यतः प्रभोरसमक्षं यत् किमपि विलुप्यते तत्र किल स्वस्वामिनिवेदनेन प्रत्यानयिष्याम्यहमात्मीयं वस्त्विति भवत्येव प्रत्याशा; स्वामिसमक्षं तु गते वस्तुनि कौतस्कुती प्रत्याशेति ॥
ननु वीतरागतया यदि युष्मान् युष्मदाराध्योऽयमवधीरयति; तत्किमित्यनुत्साहहतैस्तीर्थान्तरोपास्तिन विधीयत इत्याशङ्कयाह ॥
भ्रान्तस्तीर्थानि दृष्टस्त्वं मयैकस्तेषु तारकः । तत्तवांही विलग्नोऽस्मि नाथ! तारय तारय॥ ७ ॥ हा हे स्वामिन् ? नाहमनुत्साहहतः! किं तु पुरैव निखिलान्यपि सौगतादितीर्थानि भ्रान्तः पर्यटितस्तेषु च मध्ये त्वमेवैकः | संसारपारावारतारणक्षम तीर्थ दृष्टः साक्षात्कृतः। तत्तस्मादहं तवैवाही विलग्नस्त्वञ्चलननलिनमूलमालम्बितस्तदेवं हे नाथ! मामस्मात्संसृतिपाथोनाथात्वरितं तारय तारय परमपदपरतट प्रापय । अत्यन्तार्तिख्यापनाय तारयेतिद्विरुक्तिः॥ नचाहं सर्वथैवायोग्यस्त्वदनुग्रहस्य, यतःभवत्प्रसादेनैवाहमियती प्रापितो भुवम् । औदासीन्येन नेदानीं तव युक्तमुपेक्षितुम् ॥ ८॥
JainEducationin
?
For Private 3 Personal Use Only
K
ainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
वीतराग.
॥५३॥
Jain Education
हे भगवन्! अहं भगवत्संबन्धिना प्रसादेनानुग्रहेणैव इयतीं त्वदुपास्तिस्तुतिविज्ञप्तियोग्यां भुवं सुदशां प्रापितः समानीतो|ऽस्मि । तदिदानीमपिविश्वैकवत्सलस्य तव औदासीन्येन माध्यस्थ्येनोपेक्षितुं न युक्तं, आश्रितोपेक्षणं हि न सुस्वामिधर्मइति । नच त्वं मां मोहादिभिर्विम्यमानं न वेत्सि, यतः
ज्ञाता तात त्वमेवैकस्त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥ ९ ॥
हे तात? संयमशरीरोत्पादक त्वमेवैकोऽप्रतिहतज्ञानदृष्टिर्मम दुर्दशाया ज्ञाता, ननु जानानोऽप्यकरुणः कथं परमनुगृह्णातीत्याह-त्वत्तोऽप्यन्यः परः क इव जगति निष्कारणकारुणिकः, न च मत्तो मत्सकाशादप्यपरः कोपि भवद्विधानां कृ| पापात्रं दयास्थानं । तस्मादेवं सति त्वदेकशरणे मयि किङ्करे तव सुस्वामिनो यत्कृत्यं यद्विधेयं तत्र कर्मणि त्वं कर्मठः शूर | एधि भव । यथाहमपि भवानिव भवभयानामभाजनं भवामि तथा प्रसीदेतिभावः ।
इति वीतरागस्तोत्रे षोडशस्यात्मगर्दास्तवस्य पदयोजना |
एवं स्तुति कृदात्मगर्हास्तवेन क्षीणितार्त्ति विज्ञप्य साम्प्रतं परमात्मना परमात्मानं शरणं प्रपित्सुः शरणस्तवमाहस्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ ? त्वच्चरणौ यामि शरणं शरणोज्झितः ॥ १ ॥ हे नाथ? योगक्षेमकारिन्नर्हस्त्वच्चरणौ शरणं यामि किं कुर्वन् ? स्वकृतं दुष्कृतं गर्हन् स्वयमात्मनानादौ संसारे मिथ्यात्वा
tional
- स
सविवर
॥५३॥
ww.jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
Jain Education
दिबन्धहेतुसान्निध्यात्कृतं बद्धनिधत्तादिरूपेणोपनिबद्धं यद्दुष्कृतं प्राणातिपाताद्यष्टादशपापस्थानरूपं तद् गर्हन् हा दुष्टमि - दं कर्म मया कृतमिति सानुतापं निरन्तरमनुस्मरन् । तथा स्वकृतं सुकृतमेवाश्रवद्वारसंवरलक्षणमनुमोदयन् सानन्दमन्तर्विभावयन्, त्वच्चरणौ त्वक्रमौ शरणं यामि प्रपद्ये । किंविशिष्टः ! शरणोज्झितः भावशत्रुसंत्रासादशरणः॥दुष्कृत गर्हामेवाहमनोवाक्कायजे पापे कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनः क्रिययान्वितम् ॥ २ ॥
हे भगवन् ? मनोवाक्कायजे मनोवचनतनुसमुद्भवे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे पापे कल्मषे कृतानुमतिकारितैः करणकारणानुमतिभिर्यन्मे पुरा कृतं दुष्कृतं दुष्कर्म तत्तवाचिन्त्यमहिम्नो माहात्म्यान्मिथ्या मुधास्तु कृतमप्यकृतमिव जायताम्, कथं ! अपुनः क्रिययान्वितं अपुनःकरणेन युक्तम् । किमुक्तं भवति ! किल यस्य हि पापस्य मिथ्यादुष्कृतरूपं प्रायश्चितमुपात्तं तद्यदि भूयोऽपि विधीयते तदा तन्मिथ्या कुम्भकृन्मिथ्यादुष्कृतमिव वृथैव स्यादित्यपुनः क्रिययेत्युक्तम् । सुकृतानुमोदनमाह
यत्कृतं सुकृतं किञ्चिद्रनत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं मार्गमात्रानुसार्यपि ॥ ३॥
हे स्वामिन्! यन्मया तथाविधशुभ सामग्रीयोगेन किञ्चिदल्पमपि सुकृतं रलत्रितयगोचरं ज्ञानदर्शन चारित्रानुगतं कृतमुपार्जितं तत्सर्वमहमनुमन्ये सप्रमोदमनुमोदयामि, किंविशिष्टोऽहं ? मार्गमात्रानुसार्यपि ज्ञानादियुक्तमार्गमात्रप्रविष्टोऽपि, अयमाशयः 'किल ज्ञानादयो हि यदैव सम्यगासेविताः स्युस्तदैवानुमोदनेन पुण्योपचयं कुर्युः, अहं तु रत्नत्रयमार्गानु
2tional
%
Page #122
--------------------------------------------------------------------------
________________
वीतराग.
॥५४॥
Jain Education
सार्येव नतु यथोक्तकारी, तथाकृतो हि सुकृतैव ( तमेव ) स्यात्तथापि यदल्पमपि ज्ञानादिगोचरं सुकृतं कृतं तदनुमोदयामीति' । मार्गमात्रानुसार्यपीति सुकृतविशेषणं च ॥ पुनः सुकृतानुमोदनमाह
सर्वेषामहदादीनां यो योऽर्हत्वादिको गुणः । अनुमोदयामि तं तं सर्वं तेषां महात्मनाम् ॥ ४ ॥ सर्वेषां नामस्थापनाद्रव्यभावभेदानां अतीतवर्त्तमानानागतरूपाणां सर्वास्वपि कर्मभूमिषु समुत्पन्नानामर्हदादीनां अर्ह - त्सिद्धाचार्योपाध्याय साधूनां यो योऽर्हत्त्वादिको गुणः यथार्हता महत्त्वं सिद्धानां सिद्धत्वमाचार्याणां पञ्चविधाचारचतुरत्वमुपाध्यायानां समयसूत्रोपदेशकत्वं साधूनां रत्नत्रयसाधकत्वमित्यादिको यो गुणस्तमहं सर्वमशेषमप्यनुमोदयामि । | गुणिगुणानुमोदनं वेतनमनश्वरपथपाथेयमतस्तेषां महात्मनां पुण्यकीर्त्तनानामहमपि गुणाननुमोदयामि | एवं दुष्कृतगर्हासुकृतानुमोदने विधाय प्रस्तुतं शरणममूनाह
त्वां त्वत्फलभूतान् सिद्धान् त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥५॥ हे भगवन्? अहमेतदेतच्छरणं प्रपन्नोऽस्मि । किं तदित्याह ! त्वां भावार्हद्रूपं भवन्तं, तथा सिद्धान् सकलकर्म्ममलपटलविगलन लघुभूतत्वेन लोकाग्रगतान्, किंविशिष्टान् ! त्वत्फलभूतान् अर्हताम् सिद्धत्वमेव फलं तथा त्वत्संबन्धिकुवासनापाशवि| शसनं यच्छासनं तत्र रतानासक्तमनसो मुमुक्षून्, तथा अपारसंसारपारावारपरपारप्रापणयानपात्रप्रतिमं त्वच्छासनं शरणं प्रपन्नः संश्रितोऽस्मि । कथं ? भावतो भावशुद्ध्या नतु परोपरोधादिना, भावं विना कृतं हि जिनशासनाद्यनुसरणं व्यापन्नदर्शनानामिवाफलं सफलं चे (दमि ) ति ॥
सविवर.
॥५४॥
wjainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
CALCARECHAR
एवं दुष्कृतगर्हासुकृतानुमोदनशरणगमनानि विधाय सत्त्वक्षामणामाह| क्षमयामि सर्वान् सत्त्वान् सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु त्वदेकशरणस्य मे॥६॥
हे क्षमाप्रधान! अहं सर्वानेकेन्द्रियादीन्पञ्चेन्द्रियपर्यवसानान् शत्रुमित्रदृष्टादृष्टपरिचितापरिचितभेदान्, सत्त्वान् प्राणिनः, स्वापराधस्वीकारेण क्षमयामि क्षमा ग्राहयामि, तेऽपि सत्त्वा मयि विषये कलुषतां विमुच्य क्षाम्यन्तु तितिक्षासुमनसो भवन्त, एवं च सति तेषु सर्वेष्वपि विषये मम मैत्री पूर्वोदितस्वरूपा अस्तु किंविशिष्टस्य मम? त्वदेकशरणस्य त्वच्चरणस्मरणमात्रशरणस्य । एवं सत्त्वक्षमणां विधाय ममत्वपरिहारार्थमेकत्वभावनां भावयन्नाह
एकोऽहं नास्ति मे कश्चिन्न चाहमपि कस्यचित् । त्वदंह्रिशरणस्थस्य मम दैन्यं न किञ्चन ॥७॥ हे विश्वजनीन ? यदेतत् कलत्रपुत्रधनधान्यादि बहिर्मुखैरात्मीयत्वेन व्यपदिश्यते तदपि न तावत्परभवादात्मना समं समेति न चाप्येवं तत्र गच्छन्तमनुगच्छति तस्मात् पृथग्भूतमेवेदमात्मनः। एवं च सत्यहं द्रव्यतः सपरिच्छदोऽपि भावत
एक एव । नचैतेषु स्वकार्यतात्पर्यवस्तुबान्धवादिषु कश्चिन्मम संबन्धी । नचाहमपि स्वकृतफलोपभोक्ता अमीषां संबन्धी। हैनन्वेवमेकान्तेनैककस्य तव महदैन्यमित्याशक्याह-नच मम त्वदंहिशरणस्थस्य प्रतिपन्नत्वच्छरणस्य किश्चन स्वल्पमात्रमपि दैन्यं दीनता प्रभुतारामस्य परमं स्वातन्त्र्यसुखमेव॥नच मत्पालनपरिश्रमोऽपि स्वामिनश्चिरं किल भावीति दर्शयन्नाह
यावन्नाप्नोमि पदवीं परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं मा मुचः शरणश्रिते ॥८॥
G
ESCRED
Santar.रा
H
ainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
वीतराग.
॥५५॥
Jain Education
हे विश्ववत्सल ? यावदहं त्वदनुभावजां सर्वाद्भुतत्वत्प्रभावप्रभवां, परां परानन्दस्वरूपां, पदवीं मुक्तिलक्षणां, नाप्नोमि न लभे, तावन्मयि शरणं श्रिते चरणतलनिलीने, शरण्यत्वं शरणोचितं पालकत्वं मा मुचः मा त्याक्षीः, प्राप्तश्च परमपदवीं स्वलीलयैव विलसन्न करिष्ये कस्यापि शरणादिप्रार्थनादैन्यमिति ॥
इति वीतरागस्तोत्रे सप्तदशस्य शरणस्तवस्य पदयोजना ||
एवं
स्तुतिकृत्रिजगद्गुरुशरणानुसरणसावष्टम्भस्तदितरदेवान्निभृतमुपहसितुकामः परिणामसुकुमारयापि मुखपरुषया गि| रा भगवन्तं तुष्टुषुः कठोरोक्तिस्तवमाह - तस्य चायं प्रस्तावना श्लोकः
नपरं नाम मृद्वेव कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं स्वामिने खान्तशुद्धये ॥ १ ॥
हे भगवन् ! एवंविधाय स्वामिने परं केवलं मृदु सुललितमेव न विज्ञप्यम् किं त्वन्तरान्तरा किञ्चन स्वल्पमात्रं कठोरं | परुषप्रायमपि । किंविशिष्टाय स्वामिने ! विशेषज्ञाय वक्तुरभिप्रायविशेषविदुषे । अयमभिसन्धिः १ यः किलोत्तान मतित्वेन यथाश्रुतयथादृष्टार्थमात्रग्राही प्रभुस्तं प्रति पादन्म ( यावन्म) नोरतये सुकुमारमेव वाच्यं यस्तु देशकालप्रस्तावौचित्यपुरुषस्तदाशयविशेषविद्वांस्तं प्रति यथार्थभाषिभिर्भृत्यैरनुकूलमितर च्चादुष्टभावैर्विज्ञप्यम्, तद्भावज्ञेन स्वामिनापि तद्वधार्यमेव, यतः " स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः " किमर्थमित्याह - स्वान्तशुद्धये स्वमनःकुविकल्पकल्पनापोहाय ॥ कठोरोक्तिमेव व्यनक्ति
tional
XI
सविवर.
॥५५॥
w.jainelibrary.org
Page #125
--------------------------------------------------------------------------
________________
न पक्षीत्यादितस्तदेवमितिपञ्चमश्लोके संबन्धः । हे भगवंस्त्वं परीक्षकैः कथं देवत्वेन प्रतिष्ठाप्यः, यतः सर्वदेवेभ्यो विलक्षणः कथमेवमुच्यमानप्रकारेण तदेव दर्शयति
न पक्षिपशु सिंहादिवाहनासीनविग्रहः । न नेत्रवक्रगात्रादिविकारविकृताकृतिः ॥ २ ॥
ये किलास्माभिरस्मिन् लोके देवा ददृशिरे ते पक्षिप्रमुखवाहनासीनविग्रहाः विहङ्गप्रभृतियानविन्यस्तवपुषः तथाहि ब्रह्मविष्णुस्कन्दा यथाक्रमं हंसगरुडमयूरगामित्वेन पक्षिवाहनाः, तथेश्वरवैश्वानरमरुतो यथाक्रमं वृषमेषमृगगामित्वेन पशुवाहनाः, भवानी च सिंहवाहना, आदिशब्दान्नरवाहनादित्रिदशपरिग्रहः । त्वं तु पक्षिप्रभृतिके नैकस्मिन्नपि वाहने विन्यस्तदेहस्तत एवेतरदेवेभ्यो विलक्षणः तथाहि देवा हि नेत्रवक्रगात्रादिविकृतिभृत एवास्माभिरुपलभ्यन्ते यथा - त्रिनयनः शम्भुः, चतुर्वक्रः स्वयम्भूः, षण्मुखो महासेनः, चतुर्भुजो विष्णुर्गजास्यो लंबोदरश्च गणेश इत्यादि । त्वं तु नेत्रवक्रगात्रादिविकारैर्न विकृताकृतिः किंतु निर्विकारः सर्वावयवसुन्दरस्तदेवमप्यन्यदेवेभ्यस्त्वं विसदृशः ॥
न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥ ३ ॥
देवा हि शूलचापचक्रादिभिः शस्त्रैरङ्कितकरपल्लवाः स्युर्यथा शूलभृत्पिनाकपाणिश्च हरः, शार्ङ्गभृञ्चक्रधरश्च हरिः, शक्तिधरः कुमारः, परश्वधायुधः सिंधुरास्य इति । तव तु पाणिपल्लवौ यदि रूपरेखारूपैरेव चापचक्रादिभिर्लाञ्छितौन | पुनरितरैः । ते हि अङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणाः कमनीयकामिनी मनोहरशरीरपरीरम्भसुभगम्भविष्णवस्तथाहि
Jain Educationonal
w.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. गङ्गागौरीभ्यां गिरीशः, गायत्रीसावित्रीभ्यां प्रजापतिः, राधारुक्मिणीभ्यां कमलाविलासी, नित्यमालिङ्गित एवास्ते, त्वं
तु स्वप्नेऽप्यशीलितललनाजनः॥ तथा ॥५६॥
न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥ ४॥ ते हि गहणीयैः पृथग्जनेभ्योऽप्यतिजघन्यैः स्वसुतारिरंसाऋषियोपिदुपलालनब्रह्मशिरश्छेदगोवधप्रभृतिभिश्चरितः प्रकम्पितमहाजनाः अहह महदकृत्यसाहसमिदमिति ससाध्वसीकृतशिष्टजनहृदयाः, त्वं पुन वंविधचरित्रः। तथा ते हि तथाविधापराधदुर्द्धरक्रोधप्रारब्धप्रधानविधयः सुरनरादीन् कदाचिच्छापवधादिभिर्विडम्बयन्ति, कदाचिच्च शिरःकमलोप-18 नयनतीव्रतपःप्रणिधानादिभिः प्रसन्नमनसस्तानेव वरप्रदानादिप्रसादैरनुगृह्य भूयो विडम्बयन्ति त्वं तु न तथा ॥ । न जगजननस्थेमविनाशविहितादरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः॥५॥ __ ते ह्यस्य जगतश्चराचरस्यापि जनने स्थेमनि विनाशे च विहितादराः किल कश्चिजगन्ति सृजत्यपरः परिपालयत्यहै न्यो विनाशयतीति, त्वं तु तत्राभ्युदासीन एव । तथा ते हि लास्यहास्यगीतादिभिर्नृत्यहसितगेयप्रभृतिविप्लवैनटविटोचित-2 चेष्टितैरुपप्लतस्थितयः, त्वं पुनः परप्रस्तुतेष्वप्यमीषु विलोकनेऽपि तन्द्रालुरिव॥
तदेवं सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्टाप्यः कथं नाम परीक्षकैः॥६॥ तत्तस्मात्कारणाद्धे भगवन्! एवं पूर्वोक्तप्रकारेण सर्वेभ्योऽपि हरिहरादिदेवेभ्यःसर्वथा सर्वैरपिचिह्नस्त्वं विलक्षणो विस-*
ALSAMACHAARAMS
॥५६॥
Jain Educatan
For Private Personal Use Only
Chainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
- S
achikAMSAGAROSAROKAR
दृशः । एवं सति परीक्षकैर्देवत्वेन देवोऽयमितिबुद्ध्या कथं प्रतिष्ठाप्यः केन प्रकारेण हृदि व्यवस्थाप्य इति । तदेव दृष्टान्तेन स्पष्टयति
अनुश्रोतः सरत्पर्णतणकाष्ठादि: प्रतिश्रोतः श्रयद्वस्तु कया युक्त्या प्रतीयताम् ॥७॥ ___ अनुश्रोतः सलिलप्रवाहं प्रति प्रस्तारेण सरत्संचरत् पर्णतृणकाष्ठादिवस्तु युक्तिमत् प्रत्यक्षप्रमाणप्रतिष्ठितत्वेन सर्वस्याप्यनुभवसिद्धत्वेन च यौक्तिकं, प्रतिश्रोतः सलिलप्रवाहात् प्रतीतं तु पर्णतृणादिवस्तु श्रयत्प्रवहत् कया युक्त्या केन प्रमाणवलेन प्रतीयतां निश्चीयताम् ! । एवं वर्तमानदेवलक्षणविलक्षणे त्वयि कथं देवत्वबुद्धिरुपजायतामिति ॥ एवंस्तुतिकृदसंविदान इव भगवत्स्वरूपं बहिर्मुखपरीक्षकपक्षकक्षीकारेण किमपि परुषप्रायमभिधाय भूयःस्वभावोक्तिं व्यनक्ति
अथवालं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन वैयात्येन जगद्गुरो? ॥ ८॥ अथवेति पूर्वोपक्षिप्तार्थोपसंहारे। हे जगद्गुरो! भुवनमहनीयामीभिः पूर्वोदितैर्मन्दबुद्धिपरीक्षकपरीक्षणैर्निर्विचारकविचारप्रकारैरलं पर्याप्तं, सर्वथैव त्वय्यनुपपन्नत्वात्तेषां । तथा ममाप्येतेन पूर्वोदितेन प्राकृतजनोचितेन वैयात्येन परीक्षावैदग्ध्यधार्थेन कृतं पर्याप्त, मनसाप्येवमसत्प्रलापस्य त्वयि चिन्तयितुमनुचितत्वात् । ननु यदि पूर्वोदितानि देवलक्षणानि न तथा क्षोदक्षमाणि तकिमन्यत्तदुपलक्षणाय लक्षणान्तरं मृग्यमित्याह
यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ ९॥
Jain Education
a
l
For Private
Personal Use Only
R
ainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. हे स्वामिन् ! यदेव सर्वसंसारिजन्तुरूपेभ्यः समस्तभवस्थशरीरिशरीरेभ्यो लोकोत्तरत्वेन विसदृशं, कृतधियो विद्वांसस्त
देव तव लक्षणं परीक्षन्तां। किमुक्तं भवति ! किल यानि परैः पक्षिपशुवाहनादीनि देवचिह्नत्वेनोदीर्यन्ते तानि सर्वसंसारि॥५७॥
जन्तुसाधारणानि, असाधारणगुणैश्च देवत्वमुपपद्यते । अत एव भगवान् विमुक्तसर्वसङ्गत्वेन न पक्षिपशुप्रभृतिष्वासीनदे-IN हस्तत एव मुक्तः। वाहनाधीनतनवस्तु सपरिग्रहत्वेन संसारिण एव । तथा सर्वोत्तमसमचतुरस्रसंस्थान एव भगवान्, नतु | नेत्रादिविकृतिमान , प्रोषितद्वेषत्वेन च शूलादिशस्त्ररहितः, विगतरागत्वेन च नाङ्गनालिङ्गिततनुः, अगर्हणीयचरितत्वेन च । विश्वविश्वानन्ददायी, परमसमभावभावितत्वेन च प्रकोपप्रसादादिभिर्न विडम्बितः, निष्ठितार्थत्वेन च न जगत्सर्गादिव्य
ग्रः, निर्मोहत्वेन च न लास्यहास्यादिभिरुपप्लुतः। पूर्वोदितस्वरूपाश्च परे । एवंविधं च यदिदं समस्तसंसारिरूपविलक्षणदूत्वं तदेव तव लक्षणमिति ॥ एतदेव स्पष्टयन्नुपसंहरति
| क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरोमृदुधियां वीतरागः कथञ्चन ॥ १०॥ । PI क्रोधलोभभयादिभिः प्रतीतैरन्तरारातिभिरिदं जगदाक्रान्तं । भगवांस्त्वस्माजगतः क्रोधादिभिरनाक्रान्तत्वेनैव विल-15
क्षणो विसदृशः । अत एव वीतरागत्वेनैव कथञ्चन केनाप्युपायेन मृदुधियां कोमलप्रज्ञानां बहिर्मुखाणामगोचरस्तदनुर-16 हैाहीतैरन्तर्मुखरेव तस्योपलभ्यत्वादिति ॥
५ इति वीतरागस्तोत्रे अष्टादशस्य कठोरोक्तिस्तवस्य पद्योजना ॥
॥५
॥
Jain Education
Codjainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
CARE SAXA
-CROSSRXARAGE
एवं जगद्विलक्षणैर्लक्षणरुपलक्षितोऽपि भगवान् यदाराधनेन स्वाराधितो भवति तां भगवदाज्ञामाज्ञास्तवेन स्तुतिकृत प्रस्तौति-तस्य चायमाद्यश्लोकः | तव चेतसि वर्तेऽहमिति वार्तापि दुर्लभा । मच्चित्ते वर्त्तसे चेत्त्वमलमन्येन केनचित् ॥ १॥
हे विश्वजनीन! किल भृत्यो हि नि कृत्रिमभक्तिक्रमेण सङ्कामत्येव स्वामिनश्चेतसीतिलोकस्थितिः, त्वयि तु लोकोत्तर-18 चरिते दुर्घटमिदमित्याह-तव संबन्धिनि विगतरागे चेतसि यदहं वर्ते निवसामि इत्येवंरूपा वार्तापि दुर्लभा दुष्प्रापैव, केवलं मदायत्ते मच्चित्ते चेद्यदि त्वं वर्तसे निरन्तरमधिवससि तदा ममान्येन त्वच्चेतसि स्वनिवसनादिना केनचिन्मनोर
थेनाप्यलं पर्याप्तं । मच्चित्ते त्वन्निवासमात्रेणैव कृतकृत्योऽहमिति भावः॥ किमर्थमियतैव चरितार्थ इति चेदाहद निगृह्य कोपतः काँश्चित् काँश्चित्तुष्ट्याऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ॥ २॥ |
यतः कारणात् हे स्वामिन् ! अमी त्वच्छन्यमनसो मृदुधियः परैरवीतरागदेवैः प्रतार्यन्ते विप्लाव्यन्ते कथमित्याहतत्समक्षं काँश्चिदात्मप्रतिकूलान् कोपतः क्रोधोद्वोधात शापवधादिभिर्निगृह्य । तथा काँश्चिदात्मनोऽनुकूलांस्तुष्ट्या प्रसादेन| वरादिप्रदानादनुगृह्य । किंविशिष्टैः परैः! प्रलम्भनपरैः वञ्चनप्रपञ्चचतुरैः। किमुक्तं भवति ! किल मृदुधियो ह्यायतिमनालो-18 च्य तात्कालिकी तेषां निग्रहानुग्रहशक्तिमनुचिन्त्य भीत्या प्रीत्या च तदनुवर्त्तनतत्पराः पतन्त्येवागाधे संसृतिपाथोधौ, हे त्वया च विश्ववत्सलेनालयते चेतसि न प्रभवति तेषां प्रतारणेति त्वयि चित्तवासिनि कृतकृत्य एवाहम् ॥
HaskGUSAREERCRACTRICARRIGARSA
Jan Education
For Private
Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
सविवर.
वीतराग. ननु यद्येकान्ततो वीतराग एवायं भवदाप्तस्तदा निरन्तरप्रयुक्तैरपि स्तुतिस्तोमैन प्रसादभाग्भवति । यदिच स्तुतिदो
पा(स्तोमा)त्प्रसीदति तदा नियतं न वीतरागोऽप्रसन्नश्च कीदृक्फलं दास्यतीति गलतालुशोषफल एवायं स्तुतिवादस्तस्मिन् | ॥५८॥
भवतामिति प्रलापिनः परान् प्राह1 अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ॥ ३॥ ६ | हे विद्वन्मानिनः! यदेतद्भवद्भिरुदीयते यदस्माद्वीतरागत्वेन स्तुतिशतैरप्यप्रसन्नात् भवद्भिः कथमीप्सितं फलं प्राप्यं लभ्यमिति? तदसङ्गतं तदिदं भवदुदीरितं वचः सर्वथैवासङ्गतमयौक्तिकम् । किमित्याह-न खल्वयं नियमो यत्प्रसन्न एव सेव्यः सेवाफलं ददातीति दृष्टान्तेन विघटयति-चिन्तेत्यादि, लोके हि ये किल चिन्तामणिमहौषधिप्रभृतयस्तद्विशेष-18 विद्भिः केनाप्यभिलाषेण प्रसाद्यन्ते ते विधिवदाराधिताः किं वाञ्छितफलैर्न फलन्ति! अपितु फलन्त्येव । किंविशिष्टाः! विचेतना विशिष्टचैतन्यशून्या अपि, प्रसादश्च विशिष्टचैतन्याविनाभूतः । अतश्चिन्तामण्यादीनां चैतन्यविशेषशून्यानामप्याराधनं यदि न निष्फलं तदस्माकं वीतरागस्यापि विज्ञानराशेर्भगवतः समाराधनं कथमिवाफलमिति यत्किञ्चिदेतत् ॥ __न चास्य भगवतः प्रसादनोपायोऽपि कोमलधियामधीनः पश्यन्न (यस्मात्) न खल्वयं देवान्तरादिवत्पूजाप्रणामस्तुतिप्रभृतिभिः प्रसीदति, किंवाज्ञाराधनेन। सैव च पूजादिभ्यः सविशेषफलवतीति दर्शयन्नाह
वीतराग सपर्यायास्तवाज्ञापालनं परम् । आज्ञाराद्धा विराद्धा च शिवाय च भवाय च ॥४॥
CAMERICARRORECHARACK
॥५८॥
Jain Education
For Private & Personel Use Only
ainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
Jain Education Intel
वीतराग! भगवंस्तव संबन्धिन्याः सपर्याया अपि पूजायाः सकाशादाज्ञापालनं निदेशकरणं परं प्रकृष्टफलदं, द्रव्यस्तवरूपत्वात् पूजाया भावस्तवरूपत्वाच्चाज्ञाराधनस्य, तयोश्च परस्परं सुमेरुसर्षपयोरिव सुदूरमन्तरं उक्तं च "कञ्चणमणिसोवाणं थंभसहस्सूसियं सुवण्णतलम् । जो कारिज जिणहरं तओवि तवसंजमो अहिओत्ति" । सपर्यापीतिपाठे आज्ञापालनं तावदुक्तयुक्तयैव प्रकृष्टतमं परं सपर्यापि तदधिकारिणामाज्ञापालन रूपत्वेन परम्परया मुक्तिफलत्वेन च वरैव । किंचेयं भगवदाज्ञा आराद्धा त्रिकरणशुद्ध्या सम्यगाराधिता शिवाय महोदयाय, विराद्धा अज्ञानप्रमादादिभिरवधीरिता भवाय संसाराय जायते, अतः क इव सहृदयस्तदाराधनेऽवधीरणां विदध्यादिति ॥ अथ केयमाज्ञा नाम उच्यते
आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥ ५ ॥
हे भगवन् ! आकालमा संसारमतीते वर्त्तमाने भविष्यति च काले ते तव संबन्धिनी इयं वक्ष्यमाणा आज्ञा शासनं । किंविशिष्टा ! हेयोपादेयगोचरा हेयविषया उपादेयविषया च । द्वैविध्यमेव व्यनक्ति - आश्रवेत्यादि, आश्रवत्यनेनात्मनि पापमित्या| श्रवः कषायविषयदुष्टयोगप्रमादाविरतिमिथ्यात्वार्त्तरौद्रलक्षणः सच सर्वथा मनोवाक्कायैः करणकारणानुमतिभिश्च यः परित्याज्यः । तथा पूर्वोदितस्याश्रवस्य विपक्षरूपः क्षमामार्दवार्जवसन्तोषसंयम गुप्तित्रयाप्रमादविरतिसम्यक्त्वशुभध्यानलक्षणः संवर उपादेयः सर्वात्मना स्वीकार्य इति भगवदाज्ञा ॥ अथ किमर्थमाश्रवत्यागे संवरोपादाने च इयानाग्रह
इत्याह
आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमाहती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥ ६ ॥
inelibrary.org
Page #132
--------------------------------------------------------------------------
________________
वीतराग. यतः कारणादयमाश्रवः पूर्वोदितो भवतुः संसारकारणं कषायादिकलुषित एवात्मा भवं भ्राम्यतीतिहेयः । संवरश्च सविवर,
पूर्वोदितस्वरूपो मोक्षस्यापुनर्भवस्य कारणं हेतुः सर्वसंवररूपत्वान्महोदयस्येत्युपादेयः। इतीयमेवंरूपा आहेती अर्हतः संव॥५९॥ हिन्धिनी मुष्टिः समस्तोपदेशार्थसार्थसारसङ्घहरूपा मूलग्रन्थिः । यच्चान्यदङ्गोपाङ्गमूलच्छेदग्रन्थादिरूपं तदस्या आश्रवत्याग-|
संवरादानरूपाया भगवदाज्ञायाः सर्व प्रपञ्चनं विस्तारणमेव ॥ पुनर्भगवदाज्ञाया एव प्रभावमुद्भावयन्नाह| इत्याज्ञापालनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये वचन निर्वास्यन्ति तथापरे॥७॥
हे स्वामिन् ! इत्येवंरूपायास्त्वदाज्ञायाः पालने सम्यगासेवने परास्तत्पराः । अतीते काले अनन्ता भव्याङ्गभाजः परि | सामस्त्येन सकलकर्मजालोन्मूलनपुरस्सरं निवृता निवृतिसुखभाजनतामयुः।तथा वर्तमानेऽपि काले ये केचन निर्वान्ति तेऽप्याज्ञापालनात् । तथा भविष्यति समये परेऽपि ये केचिनिर्वास्यन्ति तेऽपि त्वदाज्ञापालनात् । तदेवं सर्वथा सर्वज्ञाज्ञैव परमपदसुखानामविकलकारणमिति ॥ एवं च सति यनिश्चितं तदाह
हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ॥ ८॥ | हे विश्वेश? परैरपरमार्थवेदिभिः किलेदमुदीर्यते यत्प्रसन्नादेव प्रभोः फलं सुलभ, तच्च चिन्तामण्यादिदृष्टान्तेन पुरैव
Vi||५९॥ विघटितं, तस्मादिदं परोपन्यस्तं प्रसादनालक्षणं दैन्यं दीनत्वं, हित्वा विहाय, एकया निश्छद्मसमाराधितया त्वदाज्ञया
SASRACCOLCANORMALSECRECE
GIRLCHOREOGROLARKHERECTOR
Jain EducationHal
For Private Personel Use Only
W
jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
Jain Education
| तव शासनेन सर्वथा अपुनर्वन्धाय जन्मिनो भव्याङ्गभाजः कर्मपञ्जराद्विमुच्यन्ते सकलकर्मबन्धनविध्वंसेन सदानन्दं पदमधिश्रयन्ति । तस्मात्पर्याप्तं त्वदाज्ञाराधनादपरैः परमपदोपायपरिशीलनैरिति ॥
इति वीतरागस्तोत्रे एकोनविंशस्याज्ञास्तवस्य पदयोजना |
एवं स्तुतिकृद्भगवति वीतरागे विविधभणितिभङ्गीतरङ्गितां स्तुतिमभिधाय साम्प्रतं तदुपसंहाराय समाप्तिमङ्गलाय चाशीः स्तवं विभणिषुः साक्षात्पुरः स्फुरन्तमिव स्वामिनमुद्दिश्य भक्त्यतिशयेनाह -
पादपीठ
मूर्ध्नि मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥ १ ॥
हे विश्ववन्द्य ? तव पादारविन्दरजो मयि विशेषणसामर्थ्यान्मम मूर्ध्नि चिरमासंसारं निवसतां निलीयतां, किंविशिष्टे ? पादपीठलुठन्मूर्ध्नि, प्रस्तावात्त्वत्संबन्धिनि पादपीठे चलनन लिनसंस्पर्शपावनैरं हि विष्टरैलुठद्भत्तयतिशयेन विलुलन्मूर्द्धानं यस्य स तथा तस्मिन् रजः, किंविशिष्टं ! पुण्यपरमाणुकणोपमं, पौगलिकत्वात् कर्मणां पुण्यप्रकृतिबन्धहेतवो ये परमा|णुकणास्तदुपमं तत्तुल्यम् । इदमुक्तं भवति - येषां हि प्रणते शिरसि स्वामिनः पादरजो विश्रान्तं प्रायः पुण्यकर्मनिबन्धका एवेति ॥ तथा
शौमुखास हर्षवाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात्क्षालयतां मलम् ॥ २ ॥
tional
Page #134
--------------------------------------------------------------------------
________________
वीतराग.
॥६०॥
Jain Educatio
G
हे विश्वैकदृश्य ! मदृशौ मत्संबन्धिनी लोचने, त्वन्मुखासते त्वदाननन लिन निलीने, हर्षवाष्पजलोर्मिभिरानन्दाश्रुवारिवीचिभिरप्रेक्ष्याणां रागद्वेषमोहादिहेतुत्वेन विलोकयितुमनुचितानां यदकस्मादाकुट्या वा प्रेक्षणमवलोकनं तस्मादुद्भूतमुत्पन्नं यन्मलं कल्मषं तत्क्षणादपि क्षालयतां । समुचितं च जलोर्मिभिर्मलप्रक्षालनं भगवद्वदनावलोकनाच्च चिरसंचितपापपटलविगलनमिति ॥ किंच
त्वत्पुरो लुठनैर्भूयान्मन्द्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किणावलिः ॥ ३ ॥ हे परमेष्ठिपुरस्सर ! त्वत्पुरस्तव पुरो भागे, लुठनैर्भक्तयतिशयादसकृदवनीतलतालनैर्मद्वालस्य मत्संबन्धिनो ललाटपट्टस्य तपस्विनः पूर्वं त्वत्प्रणामवञ्चितत्वेन कृपास्पदस्य, किणावलिः क्षितिपीठवेष्टघट्टनोद्भूता क्षतततिः प्रायश्चित्तमघमर्षणं भूया - त् । ननु कस्य पापस्य प्रायश्चित्तमिदमित्याह- किंविशिष्टस्य ! कृतासेव्यप्रणामस्य, कृतो निर्वर्त्तितोऽसेव्यानां भवाभिनन्दित्वेनोपासनानर्हाणां प्रणामः प्रणतिर्येन स तथा तस्य, यश्चापराध्यति स द्रुतमनुभवत्येवापराधफलमिति ॥ अन्यच्च
मम त्वद्दर्शनोद्भूताश्विरं रोमाञ्चकण्टकाः । तुदन्तां चिरकालोत्थाम सद्दर्शनवासनाम् ॥ ४ ॥
शिरोमणे संबन्धि यद्दर्शनममन्दानन्दनिष्पन्दाक्षिनिरीक्षणं तस्मादुद्भूताः संघटिता ये रोमाञ्च कण्टकाः पुलकको कोदास्ते चिर कालोत्थामनादिभव भ्रमणोपचितामसद्दर्शनानामसर्वज्ञोपज्ञकुशासनानां दुर्वासनां चिरमत्यन्तं तुदन्तां व्यथोत्पादनेन निर्वासयतां (न्तां) । समुचितं च कण्टकैर्व्यथनं व्यथित (ते) वहिर्निर्याणमिति ।
tional
%%%
सविवर.
"ના
ww.jainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
SOCIENCCCCCCCCESCRRC
त्वद्वकान्तिज्योत्स्नासु निपीतासु सुधास्विव । मदीयैर्लोचनाम्भोजैः प्राप्यतां निर्निमेषता॥५॥ हे जगल्लोचनलोभनवदन! त्वत्संबन्धि यद्वक्रं मुखपीयूषद्युतिस्तस्य कान्तिर्लवणिमजलोत्पीलच्छविः सैव ज्योत्स्नाश्चन्द्रिकास्तासु नितरां पीतासु तृप्तिपर्यन्तमास्वादितासु, कास्विव ! सुधास्विव पीयूषपूरेष्विव मदीयैर्मत्संबन्धिभिर्लोचनाम्भोजैनयननलिनैर्निनिमेषता निष्पन्दता प्राप्यतामनुभूयताम् । योग्या च ज्योत्स्नापानादम्भोजानां निष्पन्दता, पीयूषपायिनां च निनिमेषता । अनिमिषत्वममरत्वमितियावत् ॥ तथा ___ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥६॥
हे विश्वैकमित्र! मम संबन्धिनी नेत्रे त्वदास्यलासिनी त्वन्मुखसुखवासदुर्ललिते भूयास्तां । तथा मम करौ पाणी अपि त्वदुपास्तिकरौ त्वच्चरणसरोजसपर्यापर्यवसितौ स्याताम् । तथा मम श्रोत्रे अपि त्वद्गुणश्रोतृणी त्वदीयाभिरामगुणग्रामश्रवणसावधाने भूयास्ताम् । कथं! सर्वदा सर्वकालं, यतस्त्वन्मुखमेव समस्तवीक्षणीयोपनिषद्भूतं, त्वमेव सर्वोपास्यरहस्यसीमा, त्वद्गुणा एव सर्वश्रोतव्यसर्वस्वं नान्यदितिभावः॥ किं च
कुण्ठापि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि स्वस्त्येतस्यै किमन्यया ॥७॥ हे भुवनमहनीय! मम संबन्धिनीयमेषा स्तुतौ व्याप्रियमाणा भारती वाणी चतुर्दशपूर्वधरदशपूर्वधरादिपूर्वपुरुषसिंहभारत्यपेक्षया सूक्ष्मार्थसार्थभेदनाक्षमत्वेन च कुण्ठाप्यतीक्ष्णापि यदि त्वद्गुणग्रहणं प्रति तवोत्कीर्तनमनु सोत्कण्ठा सस्पृहा तर्हि |
Jain Education
a
l
[w.jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
वीतराग.
॥६९॥
Jain Education
तदा एवंविधायै कुण्ठायै अध्येतस्यै मम वाण्यै स्वस्ति कल्याणमस्तु, अन्यया एतद्व्यतिरिक्तया त्वद्गुणग्रहणपराङ्मुखयाऽकुण्ठयापि कुतप्रवर्त्तनेन स्वपरयोरनर्थफलया भारत्या किं? न किंचित्, उक्तस्वरूपया स्ववाचैव मे चरितार्थत्वात्। एवमुत्तरभक्तिरागभाषितः स्तुतिकृद्भगवति परमात्मनि सर्वात्मनैवात्मानमुपनिनीषुः स्तुतिशेषमाह
तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व नाथ ! नातः परं ब्रुवे ॥८॥ | हे सर्वाद्भुतसनाथ नाथ! अस्मि अहं तत्र संबन्धी प्रेष्यो, दासः, सेवकः, किङ्करश्चास्मि । तत्र प्रेष्यते प्रभुणा स्वार्थसिद्धये यत्र तत्रेति प्रेष्यः । दासश्च क्रयक्रीतोऽङ्कितकादिः। सम्यक् स्वामिचित्तानुरूपसेवानिपुणः सेवकः । प्रतिक्षणं किं करोमीतिमुखरमुखः किङ्करः सोऽहमेवंविधस्तावत्तवास्म्येव । सेवकाश्च सेवानुरूपं फलमिच्छन्ति तथापि त्वत्तस्त्रिभुवनलक्ष्मीविश्राणनस्थूललक्षादपि न किंचिदहमधिकं प्रार्थयिष्ये केवलमोमित्यक्षरमात्रमुच्चार्य मदीयस्त्वमिति मां प्रतिपद्यस्त्र, अतः परमेतदधिकं न किश्चित् ब्रुवे विज्ञापयिष्यामि त्वदङ्गीकारमात्रेणैव कृतकृत्यत्वात् । अयमाशयः 'किल न खलु त्वमात्मस्वीकारेणायोग्यमनुगृह्णासि त्वदङ्गीकाराच्चावगतस्वयोग्यत्वस्य मम संमुखान्येव समग्राण्यपि श्रेयांसि ततः किमधिकं प्रार्थ्यतामिति । अनी च वीतरागाः किल कलिकाल सर्वज्ञप्रायैर्हेमचन्द्रसूरिभिर्भगवति वीतरागे समुत्तरङ्गभक्तिराग सागरैः श्रीकुमारपालभूपालानुग्रहाय ग्रथिता इत्येतदेव व्यनक्ति
श्री हेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥ ९ ॥
২
सविवर.
॥६९॥
jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
श्रीहेमचन्द्राचार्यप्रभवात्संदर्भितादितः पूर्वोदितस्वरूपाद्वीतरागस्तवात् कुमारपालभूपालः श्रीकुमारपालदेवाभिधानश्ची-1 लुक्यचक्रवर्ती ईप्सितं मनोऽभिलषितमैहिकामुष्मिकं च फलं प्राप्नोतु लभतां एवंविधाच्च सद्भूतस्तुतिस्तोमजन्यागण्यप्रभावादभिलषितसिद्धिः स्तोतुः श्रोतुश्च सुलभैवेति समञ्जसम् ॥
इति श्रीवीतरागस्तोत्रे विंशतितमस्याशी:स्तवस्य पदयोजना ॥२०॥
चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः प्रभुर्वभूवाभयदेवसूरिः। नवाङ्गवृत्तिच्छलतो यदीयमद्यापि जागर्ति यशःशरीरम् ॥ १॥ तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौधैः ।
विपश्चितां संयमिनां च दुर्गे धुरीणता तस्य यथाधुनापि ॥ २॥ तेषामन्वयमण्डनं समभवत्संजीवनं दुष्षमामूर्छालस्य मुनिव्रतस्य भव(भृन् निःसीमपुण्यश्रियः श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैर्द्रष्टुं तादृशमाश्रयान्तरमहो दिक्चक्रमाक्रम्यते ॥ ३॥
RRRRRRRRR
Jain Educa
t ional
For Private & Personel Use Only
Page #138
--------------------------------------------------------------------------
________________
वीतराग.
४. सविवर.
॥६२॥
CARRORAKAAS
यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावरोगयोगा जगति रसायनतां यदीयवाचः ॥ ४॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् ।
स वीतरागस्तवनेष्वमीषु विनिर्ममे दुर्गपदप्रकाशम् ॥ ५॥ | एवं सपादशतयुतविंशतिशतपरिमितः (समादर्शः)। प्रथमादर्श गणिना लिखितो हर्षेन्दुना शमिना ॥६॥
इति श्रीकलिकालसर्वज्ञश्रीहेमचन्द्रप्रभुप्रणीताः श्रीदेवभद्रमुनीन्द्रशिष्यरन
श्रीप्रभानन्दमुनीद्रोपज्ञविवरणोपेताः स्तवाः विंशतिः
4X*XXSAXSHILASHX
॥६
॥
ASS
For Private
Personel Use Only
mainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
Jain Educatio
अथ श्रीवीतरागस्तोत्रस्यावचूर्णिः ।
॥ ॐ ॥ जयति श्रीजिनो वीरः सर्वज्ञः सर्वकामदः । यस्याङ्गियुगलं कल्पपादपैर्युग्मजातकम् ॥ १ ॥ नत्वा निजगुरून् सारसारस्वतविभाद्भुतान् । वीतरागस्तवान्वर्थे बालगम्यं करोम्यहम् ॥ २ ॥ तथाहि - पूर्व स्वर्गसहोदरे पत्तननगरे निजसहजपराक्रमाक्रान्तराजचक्रः परमप्रभुतानुकृतशको दुर्द्धरविरोधिसिन्धुरभयकरकरालकरवालः दशदिमण्डपाखण्डमण्डनकीर्तिव्रततिवितानालवालः प्रजापालश्रीकुमारपालश्चतुः सागरावधि धात्रीधवतां दधातिस्म, सच कलिकालसर्वज्ञश्वेता|म्बरादिषड्दर्शनाखण्डिताज्ञस्वप्रज्ञापराभूतसुरसूरिश्री हेमसूरिवचनामृतेन गलितमिथ्यात्वगरलः सरलतर श्रीजिनमार्ग प्रतिपन्नवान्, श्रीजिनोत्तनवतत्त्वानि श्रद्धधानः प्रथमत्रतेऽष्टादशदेशेष्वमारिप्रवर्तनं मारिशब्दश्रवणेऽपि क्षपणकरणं, द्वितीये विपर्ययेणाऽसत्यवचने आचाम्लं, तृतीये द्विसप्ततिलक्षनिवींराधनमोचनं, चतुर्थे धर्मप्रात्यनन्तरं पाणिग्रहणनियमः | चतुर्मास के त्रिधा शीलपालनं, भोपलदेवाद्यष्टभार्यामरणे प्रधानप्रभृतिभिर्वहु कथनेऽपि पाणिग्रहणाकरणं, पञ्चमे पडष्टौ कोव्यः सुवर्णरूप्ययोः दशशततोलका महार्घ्यमणिरत्नानां द्वात्रिंशत् २ सहस्रमणानि तैलघृतयोः त्रीणि २ लक्षाणि शाल्यादिधान्यपुटकानामेकादश शतानि गजानां पञ्चाशत्सहस्रा रथानामेकादशलक्षास्तुरङ्गमानां सर्वसैन्यमीलनेऽष्टादश लक्षा अष्टा विंशतिलक्षाः सुभटानां सहस्रमुष्ट्राणामशीतिसहस्रा गवां पञ्च २ शतानि गृहासभायानपात्र शकटवाहिन्यादीनां षष्ठे चतुमसके पत्तनपरिसरादधिकदिग्गतिनिषेधः, सप्तमे मद्यमांसम धुम्रक्षणत्रहुवीजपञ्चोदुन्वरानन्तकाय घृतपूरादिनियमः ।
tional
w.jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
वीतराग.
अवचू.
॥६३॥
CACHECRROCACARRECRUARCASSES
| अष्टमे त्वाज्ञामध्ये सप्तव्यसननिषेधः, नवमे उभयकालयोः प्रतिक्रमणं सामायिके गृहीते श्रीहेमसूरिपादान्विनाऽन्येन | सहाजल्पनं, दशमे वर्षासु कटकाकरणमेकादशेऽष्टमीचतुर्दश्योःपौषधग्रहणं कायोत्सर्गे पादलग्नस्य मर्कोटकस्य दयया स्वतन्वा सह परतःकरणं, द्वादशे सीदन्साधर्मिकाणां द्वासप्ततिलक्षकरमोचनं प्रतिवर्ष साधर्मिकोद्धारायैककोटिदीनारदा नं पारणकदिने पर शतानामपि दृष्टिप्राप्तश्राद्धानामात्मना सह भोजनं चेत्यादिनियमानङ्गीकृत्य प्रभुपार्थे प्राकृतदुष्कृतप्रक्षालनाय प्रायश्चित्तं प्रार्थितवान् , नैश्च समयरहस्यं हृदि विमृश्य दत्तं तच्चेदं-चतुश्चत्वारिंशदुत्तरचतुर्दशशतं १४४४ नव्यप्रासादनिर्मापणं, पोडशशतजीर्णोद्धारविधापनं, सप्त महायात्रा एकविंशतिर्ज्ञानकोशा इत्यादि । विशेषतो विहिताभक्ष्य| भक्षणद्वात्रिंशद्दशनविशुद्धये एकस्मि व पीठे दशनसङ्ख-यप्रासादा विधाप्याः, प्रत्यहं प्रातर्द्वात्रिंशत्प्रकाशाः चकाचैदी|प्तौ प्रकर्षण काश्यन्ते दीप्यन्ते आन्तरमलापनयनेन दशना एभिरिति प्रकाशा गुणनीयाः इति तं प्रतिपाद्य श्राद्धविधिप्रवृत्तिप्ररूपका द्वादशयोगशास्त्रस्य वीतरागभक्तिमया विंशतिश्चामी श्रीप्रभुभिराम्नाता इति मूलसम्बन्धस्तेपूत्तराणां विंशतेः प्रकाशानामर्थमात्रं लिख्यते-प्रभुश्रीहेमचन्द्रसूरयः शिशुशिष्यशेमुषीविशेषोन्मेषाय प्रथमस्तवे यत्तच्छब्दयोः सप्तविभक्त्येकवचनव्युत्पत्तिं प्रदर्शयन्तो निजभक्ति प्रकटयन्ति यथा
यः परात्मा परंज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्ण तमसः परस्तादामनन्ति यम् ॥१॥ यः परात्मेति परश्चासावात्मा च परात्मा सर्वसंसारिजीवेभ्यः प्रकृष्टस्वरूपः, पुनः किंविशिष्टः ? परंज्योतिः परं सकलकर्ममलकालुष्यरहितत्वेन केवलं ज्योतिर्ज्ञानमयं यस्य स तथा परमिति केवलार्थेऽव्ययं, परमे सदानन्दरूपे पदे तिष्ठन्तीति
ARCHICAGRECAREER
Jan Education 11
For Private Personel Use Only
Jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
*AHOROSKOSARASHOREOG
परमेष्ठिनोऽर्हदादयः पञ्च तेषां परमः प्रधानभूतः परमत्वं चास्य मुक्तावस्थामधिकृत्य, परमेष्ठिनामिति षष्ठी सप्तमी चाविभागे निर्धारणे इति(२-२-१०९)सूत्रेण तथा यं वीतरागं तमसः परस्तादामनन्ति ध्यायन्ति तत्स्वरूपोपलब्धये मनीषिणः, क? परस्तात्परस्मिन्पारे, कस्य ? तमसोऽज्ञानरूपस्य, किम्भूतं? यमादित्यवर्णमादित्यस्येव वर्ण उद्योतो यस्य तं तथा भानोरुपमानमन्यस्य तथाविधस्य वस्तुनोत्राऽभावात् पुरस्तादितिपठितं तमसोऽज्ञानरूपान्धकारस्याग्रे आदित्यवर्ण भूयसां | तद्विनाशकमित्यर्थः १
सर्वे येनोदमूल्यन्त समूला: क्लेशपादपाः। मुनी यस्मै नमस्यन्ति सुरासुरनरेश्वराः॥२॥ सर्वे० येन सर्वे समस्ताः क्लेशा रागद्वेषादयस्त एव पादपा वृक्षा नरकादिकटुफलदायित्वेन समूला मिथ्यात्वमूलसहिता उदमूल्यन्त उन्मूलिताः, यस्मै मूर्धा सुरासुरनरेश्वरा नमस्यन्ति नमस्कुर्वन्ति ॥२॥
प्रावर्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः। यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥ ३ ॥ प्राव० यतो यत्सकाशाद्विद्याः शब्दविद्यादिकाश्चतुर्दश, धर्मार्थकामादिपुरुषार्थानां प्रसाधिका विधायिकाः, प्रावर्तन्त | अभूवन् , यद्वा द्वादशाङ्गीगता विद्याः सुवर्णसिद्ध्यादिप्ररूपिकाः, यस्य ज्ञानं भवद्भाविभूतभावावभासकृदतीतानागतवर्णमानवस्तुप्रकाशकमस्तीति गम्यम् ॥३॥
यस्मिन्विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः प्रपद्ये शरणं च तम् ॥ ४॥ यस्मिन् यस्मिन्विशिष्टं ज्ञानं विज्ञानं केवलज्ञानमानन्दमकृत्रिममुखं ब्रह्म च परमपदं त्रीण्यप्येकात्मतामैक्यं गतानि
Jain Educatio
For Private & Personel Use Only
Rww.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
अवचू.
STERS
वीतराग.
स एव वीतरागजीवः स एव ज्ञानं ज्ञानकरूपत्वात्तस्य स एव च सुखं दर्शनस्पर्शनादिबाह्यस्य कस्यापि तत्राऽभावात्स एव
| मुक्तिरन्यस्य मुक्तिरूपस्याभावादथ तच्छन्दं दर्शयन्त आहुः स श्र० स पूर्वोक्तपरात्मादिविशेषणविशिष्टः श्रद्धेयः स्वहृदयरु॥६४॥
चिविषयः कार्यः, च पुनः स ध्येयो रूपातीततया ध्यातव्यस्तं तमसः परस्तादाम्नातं शरणं प्रपद्ये स्वीकरोमि ॥ ४॥
तेन स्यां नाथवाँस्तस्मै स्पृहयेयं समाहितः। ततः कृतार्थो भूयासं भवेयं तस्य किङ्करः॥५॥ तेन तेनोन्मूलितक्लेशपादपेन नाथवान् सनाथोऽहं स्यां भवामि, तस्मै सुरासुरनमस्कृतायाहं समाहितस्तदेकतानमनाः स्पृहयेयं वाञ्छामि, ततः प्रकटितपुरुषार्थसाधकविद्यासमुदायादहं कृतार्थः कृतकृत्यः प्राप्ताभीष्टकार्यो वा भूयासं भवामि दि भविष्यामीत्यर्थः, तस्य त्रिकालज्ञानवतः किङ्करो भवेयमस्मि ॥५॥
तत्र स्तोत्रेण कुयर्या च पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे जन्मिनां जन्मनः फलम् ॥६॥
तत्र तत्र विज्ञातानन्दब्रह्मरूपे स्वां सरस्वती वाणी, स्तोत्रेण कृत्वा पवित्रां कुर्या करोमि, को हेतुः? हि यस्मात्कारणात् Hभवकान्तारे संसारारण्ये, जन्मिना जीवानां, जन्मनः पादपरूपस्य इदमेव वीतरागस्तवनं फलं नान्यत् ॥६॥ | अथ प्रभव आत्मनो गर्वपरिहारं कुर्वन्तो वदन्ति
काहं पशोरपि पशुर्वीतरागस्तवः कच । उत्तितीर्घररण्यानी पद्भ्यां पङ्गुरिवारम्यतः॥७॥ क्वाहं व अहं पशोरपि पशुः सर्वविचारबाह्यः च पुनः क वीतरागस्तवः सुरगुरुणाप्यशक्यानुष्ठानः अतः कारणादहं में पङ्गुरिव पद्भ्यां पादाभ्यामरण्यानीमटवीमुत्तितीर्घः उल्लिलङ्घयिषुरस्मि ॥७॥
॥६॥
Jain Educaticie
n
For Private Personal use only
T
w
.jainelibrary.org
INI
Page #143
--------------------------------------------------------------------------
________________
-SCANTOSCROSTELECOCKR
तथापि श्रहामुग्धोऽहं नोपालभ्य स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥ पुनः कारणान्तरं विमृश्य स्तवोद्योगं दर्शयन्ति-तथा० तथापि निर्विचारत्वे सत्यपि श्रद्धामुग्धो वासनाप्रेरितस्वान्तोऽहं स्तवने स्खलन्नपि स्वल्पमपि मया गुणानन्त्यं प्रकटयितुमशक्नुवन्नपि नोपालभ्यः मूर्ख मा वदेति न निराकार्यः यतः कारमाणात् श्रद्दधानस्य श्रद्धावतो विशृङ्खलाऽसम्बद्धापि वाग्वृत्तिर्वचनरचना शोभते ॥८॥
श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥९॥ - आयुक्तसम्बन्धं सूचयन्तः प्रोचुः-श्रीहेम० इतः प्रस्तुतात् श्रीहेमचन्द्रविरचिताद्वीतरागस्तवात्कुमारपालभूपाल ईप्सितं दर्शनविशुद्धिलक्षणं फलं कर्मक्षयमित्यर्थः । प्राप्नोतु समासादयतु ॥९॥
इति प्रथमप्रकाशावचूर्णिः ॥ १ ॥ प्रियङ्गस्फटिकस्वर्णपद्मरागाञ्जनप्रभः। प्रभो तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥१॥ सहजातिशयचतुष्टयं व्यावर्णयन्ति-प्रियं० हेप्रभो! तव कायो देहोऽधौतशुचिरक्षालितपवित्रः, के सुरनरादिकं नाक्षि|पेत् नोत्कंचितं कुर्यादपितु सर्वमपि, इवोऽवधारणे, किम्भूतः कायः? प्रियङ्ग नीलवर्णो वृक्षः स्फटिकस्वर्णे प्रतीते पद्मरागो | रक्तमणिरञ्जनं कज्जलं तद्वत्प्रभा कान्तिर्यस्य स तथा यतः “पउमाभवासुपुजा. १ वरकणय. २” इत्यादि पञ्चपरमे|ष्ठिरूपतया वा वीतरागदेहस्य पञ्चवर्णत्वम् ॥१॥
SSCARECRUASEASRUSSOCIA
Jain Educatio n
TWI
al
For Private Personal Use Only
OR-jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
वीतराग.
॥६५॥
Jain Education
मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाङ्गे भृङ्गतां यान्ति नेत्राणि सुरयोषिताम् ॥ २ ॥
मन्दा० हेवीतराग! मन्दारदामवत् कल्पद्रुमपुष्पमालावन्नित्यं सर्वदापि अथवा कृत्रिमपरिमलकलिते तवाङ्गे शरीरे सुरयोषितां देवाङ्गनानां नेत्राणि नयनानि भृङ्गतां भ्रमरभावं यान्ति प्रयन्ति । " स्त्रीणामक्ष्णां कटाक्षाणां शुक्लता श्यामताऽथवेति” वचनाद्भृङ्गतारोपणम् ॥ २ ॥
दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ ! नाङ्गे रोगोरुगवजाः ॥ ३ ॥
दिव्या० हे नाथ! ते तवाङ्गे देहे रोगाः कासश्वासादयस्त एवोरुगाः सर्पास्तेषां व्रजास्ते न पोषो वर्द्धनं तेन प्रतिहताः पराङ्मुखीकृता इव इवोपमायाम् ॥ ३ ॥
त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथापि वपुषः कुतः ॥ ४ ॥
त्वया० त्वयि आदर्शतलालीनप्रतिमाप्रतिरूपके दर्पणतलप्रतिबिम्वितरूपसदृशेऽपरं मलादि दूरे क्षरत्स्वेदविलीनत्वकथा स्रवत्स्वेदक्लिन्नत्ववार्तापि वपुषश्शरीरस्य कुतः श्रमसाध्वसादेः स्यादित्यध्याहार्यमिति प्रथमातिशयश्चतुर्भिः श्लोकैः ॥४॥
न केवलं रागमुक्तं वीतराग? मनस्तव । वपुः स्थितं रक्तमपि क्षीरधारासहोदरम् ॥ ५ ॥ द्वितीयं दर्शयन्ति-न के० हेवीत केवलमेकं तव मनश्चित्तं रागमुक्तं रागेण संसारमूर्छया रहितं नास्ति, वपुः स्थितं शरीरस्थं रक्तमपि रुधिरमपि क्षीरधारासहोदरं दुग्धधाराघवलं रागमुक्तमित्यर्थः ॥ ५ ॥
जगद्विलक्षणं किंवा तवान्यद्वक्तुमीश्महे । यदविश्रमबीभत्सं शुभ्रं मांसमपि प्रभो ! ॥ ६ ॥
2-1
अवचू.
॥६५॥
jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
AHAR
O
KARUCHARACHAR
जग० हेवीतराग! वाऽथवा तव जगद्विलक्षणं जगतः सुरनरादेर्विसदृशं अन्यत्प्राकारत्रयच्छत्रचमरेन्द्रध्वजासङ्ख्यसुराखण्डलपादलुठनादिकं किं वक्तुं वदितुं ईश्महे समर्था भवामः! अपितु न भवामः यद्यस्मात्कारणात् हे प्रभो! तव मांसमप्यविसमकलुषमबीभत्समजुगुप्सनीयं, शुभ्रं गोदुग्धधारानुकार्यस्ति द्वितयेन द्वितीयः ॥६॥
जलस्थलसमुद्भूताः संत्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः॥७॥ जल० हे वीतराग? जलस्थलसमुद्भूता जलस्थलोद्भवाः सुमनःस्रजः कुसुममालाः संत्यज्य विमुच्य तव निःश्वाससौरभ्यं वदनामोदं मधुव्रता भ्रमरा अनुयान्ति अभिमुखीभवन्तीति तृतीयः॥७॥ | लोकोत्तरचमत्कारकरी तव भवस्थितिः। यतो नाहारनीहारौ गोचरश्चर्मचक्षुषाम् ॥ ८॥ __ लोका. हे वीतराग? तव भवस्थितिस्तीर्थकरजन्ममर्यादा लोको० लोकशब्देन लोकमध्यस्थिता हरिहरादिदेवा ज्ञायन्ते तेभ्य उत्तीर्णस्तैः कदाचिन्न कृत इति लोकोत्तरः सचासौ चमत्कारश्च तत्करणशीला। यतः कारणात्तवाहारनीहारौ भोजनोत्सर्गविधी, चर्मरूपाणि चक्षुषि येषां ते (तथा) तेषां मनुष्याणामित्यर्थः।न गोचरो न विषयो न दृश्यत इति तात्पर्यमाविष्टलिङ्गत्वादेकवचनं गोचर इति ॥८॥
इति द्वितीयप्रकाशावचूर्णिः ॥२॥ सर्वाभिमुख्यतो नाथ! तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः ॥१॥ कर्मक्षयजातिशयान्विशेषयन्त आहुः सर्वा० हे नाथ! तीर्थकृन्नामकर्मजात् नामकर्मण एकाशीतितमभेदात्तीर्थकर
Jain Educat
i
onal
For Private & Personel Use Only
O
w
.jainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
वीतराग.
॥६६॥
Jain Education
नामकर्मणो जातात् सर्वतः सर्वासु दिक्षु सम्मुखत्वात् परमार्हन्त्यपदवी सहचरितात् सर्वाभिमुख्यतातिशयात् सर्वथा सम्मुखीनः केवलालीकरोचिषापि सर्वतोमुखस्त्वं प्रजा नरामरादिकाः यदानन्दयसि प्रीणयसि तीर्थङ्करा हि सर्वतः सम्मुखा एव नतु पराङ्मुखाः क्वापि, यदिति वक्तुमुपक्रान्त एकादशश्लोकैः स एष सर्वोऽपि तवैव योगसाम्राज्यमहिमेति द्वादशमश्लोके सम्बन्धः ॥ १ ॥
यद्यजनप्रमाणेऽपि धर्मदेशनसद्मनि । संमान्ति कोटिशस्तिर्यग्नृदेवाः सपरिच्छदाः ॥ २ ॥
प्र० हे वीतराग? यद्योजनप्रमाणेऽपि चतुर्गच्यूतमात्रेऽपि धर्मदेशनसद्मनि समवसरणे तिर्यग्नृदेवाः तिर्यञ्चो गजादयः | नरा नरेन्द्रादयः सुराः सुरेन्द्रादयः सपरिच्छदाः सपरिवाराः कोटिशः बहुकोटिमिताः संमान्ति बाधारहितमुपविशन्ति॥२॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं यत्ते धर्मावबोधकृत् ॥ ३ ॥
तेषां हे वीतराग ? यत्ते तवैकरूपमप्येकश एकभाषया उक्तमपि वचनं तेषां त्रयाणां तिर्यग्नृदेवानामेव, स्वस्वभा० निजश्वाक् तथा श्रवणेन रम्यं धर्मावबोधकृत्पुण्यप्ररूपकं भवति ॥ ३ ॥
ग्रेप योजनशते पूर्वोत्पन्ना गदाम्बुदाः । यदञ्जसा विलीयन्ते त्वद्विहारानिलोम्मिभिः ॥ ४ ॥ सा० हे वीतराग ? यत्तव विहारानिलोर्मिभिः पादावधारणसमीरणकल्लोलैरयं चतुर्थभागः साग्रेपि सपञ्चविंशतियोजनशतेऽपि पूर्वोत्पन्नाः प्राग्जीवाः उपलक्षणादग्रे षण्मासान् यावदुत्पित्सवोऽपि गदाम्बुदा रोगमेघा अञ्जसा वेगेन सामस्त्येन वा विलीयन्ते क्षयं यान्ति ॥ ४ ॥
अवचू.
॥६६॥
jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
RECEMAD
SGARCASRASAIRICIC
नाविर्भवन्ति यद्भूमौ मूषकाः शलभाः शुकाः।क्षणेन क्षितिपक्षिप्ता अनीतय इवेतयः ॥५॥ नावि० हे वीतराग! यद् त्वयि विहरति मूषकाः शलभाः शुकास्तिस्र ईतयो भूमौ भुवि नाविर्भवन्ति न प्रकटीभवन्ति, इव यथाऽनीतयोऽन्यायाः क्षितिपक्षिप्ता राज्ञा निरस्ताः क्षणेन वेगेन दूरीभवन्ति ॥५॥
स्त्रीक्षेत्रपद्रादिभवो यद्वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले ॥६॥ स्त्रीक्षे० हे वीतराग? यत् स्त्रीक्षेत्रपद्रादिभवो वैराग्निर्वैरदहनो भुवस्तले प्रशाम्यति इवोत्प्रेक्षायां । त्वत्कृपा० तव कृपारूपपुष्करावर्त्तः सर्वोत्कृष्टो मेघविशेषस्तद्वर्षाद्वष्टेरिव ॥६॥
त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेडिण्डिमे । सम्भवन्ति न यन्नाथ मारयो भुवनारयः॥७॥ त्वत्प्र० हे नाथ? यत्त्वत्प्रभावेऽचिन्तितमाहात्म्ये भुवि भ्राम्यति प्रसरति सति भुवनारयोऽनिष्टत्वेन जगद्वैरिरूपा मारयो दुष्टव्यन्तरशाकिन्यादिजनिता न सम्भवन्ति नोत्पद्यन्ते। यतस्त्वत्प्रभाव किंविशिष्टे? अशि० अशिवानामुपद्रवाणामुच्छेदो विनाशनं तत्र डिण्डिमे पटहसदृशेऽन्योपि यश्चौरादिरुच्छेद्यते स पटहवादनेन सकललोकसमक्षं, विशेषणरूपो हेतुः॥७॥
कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा भवेद्यन्नोपतापकृत् ॥८॥ सूचिकटाहनयेन वैरमारिद्वयं सुखसाध्यत्वादल्पदेशस्थितत्वाच्च प्रथमं निरस्य शेषमीतिचतुष्टयक्षयमाहुः-का० हे वीतराग? त्वयि विश्वै० निष्कारणकरुणापरे लोकानां काम मनोभीष्टदायिनि विजयिन्यतिवृष्टिवृष्टेराधिक्यमवृष्टिरवहर्षणं वोपतापकृत् सन्तापकारी यन्न भवेत् ॥८॥
AMROGREATEOCOM
JanE-१२ ।
For Private Personel Use Only
w
.jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
अवचू.
वीतराग.
॥६७॥
LORDCRORECASSOC
स्वराष्ट्रपरराष्ट्रेभ्यो यत्क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् सिंहनादादिव द्विपाः॥९॥ स्वरा० हे वीतराग! त्वत्प्रभावात्तव महिमातः स्वरा० स्वचक्रपरचक्रेभ्यो जाता इति गम्य, क्षुद्रोपद्रवाः क्षुद्राण्युच्चाटनमन्त्रादिकृतान्युपद्रवाः शस्त्रजलानलादिकृता ग्रामभङ्गाद्या यत् द्रुतं शीघ्र विद्रवन्ति नश्यन्ति इव यथा सिंहनादात् द्विपा गजेन्द्राः॥९॥
___ यत्क्षीयते च दुर्भिक्षं क्षितौ विहरति त्वयि । सर्वाद्भुतप्रभावाख्ये जङ्गमे कल्पपादपे ॥१०॥ | यत्क्षी० हे वीतराग? त्वयि क्षितौ पृथिव्यां विहरति यद् दुर्भिक्षं दुष्कालःक्षीयते कमका प्रयोगोऽयं, यत्त्वयि कथम्भूते? सो० सर्वेऽद्भुता आश्चर्यकारिणो ये प्रभावास्तैराढ्ये समृद्धे, पुनःकिम्भूते! जङ्गमे लोकहिताय गमनागमनकृति ॥१०॥15 ___यन्मूर्ध्नः पश्चिमे भागे जितमार्तण्डमण्डलम् । मा भूतपुर्वरालोकमितीवोत्पिण्डितं महः ॥११॥
यन्मभंः० हे वीतराग! यत्तव मूर्ध्नः शिरसः पश्चिमे भागे पृष्ठभागे उत्पिण्डितं पिण्डीकृत्य सुरैः स्थापितं महः शरीरतेजोऽस्ति, किंविशिष्टं ? जित जितं मार्तण्डमण्डलं सूर्यबिम्बं येन तत्, उत्पिण्डितं कुत! इत्याह मा भू० वपुस्तेजःपुञ्जपरीततया दुरालोकं दुर्लक्ष्यं मा भवतु इतीव इति हेतोः ॥११॥ ___ स एष योगसाम्राज्यमहिमाविश्वविश्रुतः । कर्मक्षयोत्थो भगवन्कस्य नाश्चर्यकारणम्! ॥ १२ ॥ स एष० हे भगवन् ? स इति यच्छब्देन पुरा प्रतिपादित एष प्रत्यक्षलक्ष्यो योग योगो ज्ञानादित्रयं तस्य साम्राज्य
॥६७॥
Jan Education
For Private Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
सामस्त्यं तन्महिमा कस्य सचेतनस्याश्चर्यकारणं न स्यात् , महिमा किंवि० ! कर्मक्षयोत्थः घातिकर्मणां क्षयेनोत्पन्नः, पुनः किं०! विश्वविश्रुतः त्रैलोक्यप्रसिद्धः ॥ १२॥
अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कर्मकक्षमुन्मूलयति मूलतः ॥१३॥ अनं० हे वीतरागानन्तकालेनानन्तपुद्गलपरावतःप्रचितमुपार्जितमनन्तमपि कर्मकक्ष कर्मकाननं त्वत्तोऽन्योऽपरो हरिहरादिर्मूलतस्सर्वथा सर्वप्रकारैर्नोन्मूलयति न छिनत्ति ॥१३॥
तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यदानिच्छन्नुपेयस्य परां श्रियमशिश्रियः ॥ १४॥ तथो० हे वीतराग! त्वं क्रियासमभिहारतः क्रियायाः पौनःपुन्येन नैरन्तर्येणोपाये चारित्ररूपे तथा प्रवृत्तः आदृतवान् | यथोपेयस्योपायसाध्यस्य परमपदस्य परां प्रकृष्टां श्रियं परमार्हन्त्यलक्षणामवाञ्छन्नप्यशिश्रियः प्राप्तवान्नपिगम्यः ॥१४॥ | मैत्रीपवित्रपात्राय मुदितामोदशालिने । कृपोपेक्षाप्रतीक्षाय तुभ्यं योगात्मने नमः॥१५॥ | पूर्वोक्तस्य सर्वस्य रहस्यभूतं मैत्र्यादिचतुष्कं प्रकाशयन्त आहुः-हे वीतराग! 'मा कापीकोऽपि पापानि, मा च भूत्कोऽपि दुःखितः। मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥१॥' इत्युक्तलक्षणा मैत्री तस्याः पवित्रपात्राय निर्मलभाजनाय, मुदितः पुष्टो य आमोदः प्रमोदः 'अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः सः प्रमोदः प्रकीर्तितः॥२॥ इत्युक्तलक्षणस्तेन शालिने शोभमानाय 'दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥३॥' ईदृशी कृपा कारुण्यं 'क्रूरकर्मसु निःशङ्क देवतागुरुनिन्दिषु।आत्मशंशिषु योपेक्षा तन्माध्यस्थ्यमुदीरित
SACROSMOCRACAREECEOS
SUSNESS
Join Educati
o
nal
For Private Personal Use Only
Miw.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
वीतराग.
अवचू.
॥६॥
AARSELOOSOLYOSASTO
म् ॥४॥' एवंविधोपेक्षा माध्यस्थ्यमित्यर्थः ताभ्यां कृत्वा प्रतीक्षाय पूज्याय योगात्मने योगस्वरूपाय तुभ्यं नमोऽस्त्विति॥१५॥
इति श्रीवीतरागस्तोत्रे तृतीयकर्मक्षयस्तवस्यावचूर्णिः ॥ ३ ॥ मिथ्यादृशां युगान्तार्कः सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः पुरश्चकं तवैधते ॥१॥ सुरकृतातिशयान्प्रकटयन्ति-मिथ्या० हे वीतराग! तव पुरः पदतले धर्मचक्रमेधते दीप्यते किंविशिष्टं? मिथ्यादृशां 5 | मिथ्यात्विनां युगान्तः प्रलयकालस्तत्सूर्यः सन्तापकत्वात्, सुदृशाममृताञ्जनमिव, तीर्थकरपदव्या भाले तिलकमिव ॥१॥
एकोऽयमेव जगति स्वामीत्याख्यातुमुच्छूिता । उच्चैरिन्द्रध्वजव्याजातर्जनी जंभविद्विषा ॥२॥ एकोय. जगति त्रैलोक्य एकोऽयं वीतराग एव स्वामी धनिकस्त्रातेत्याख्यातुं ज्ञापयितुंजभविद्विषा इन्द्रेणोच्चैरिन्द्रध्वजव्याजासहस्रयोजनमानोच्चमहेन्द्रध्वजच्छलात् तर्जन्याद्याङ्गल्युछित ऊवीकृतास्तीति गम्यते॥२॥
यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥३॥ यत्र. हे वीतराग? यत्र तव पादौ पदं न्यासं धत्तः कुरुतस्तत्र सुरासुराः पङ्कजव्याजान्नवकनककमलच्छलतः पङ्कजवासिनीं श्रियं लक्ष्मी किरन्ति मुञ्चन्ति ॥३॥
दानशीलतपोभावभेदाडम्म चतुर्विधम् । मन्ये युगपदाख्यातुं चतुर्वक्रोऽभवद्भवान् ॥ ४॥ __ दान हे वीतराग! दानशीलतपोभावभेदाच्चतुर्विधं चतुष्प्रकारं धर्म युगपत्समकालमाख्यातुं भवाश्चतुर्वक्रश्चतूरूपो बभूवेत्यहं मन्ये ॥४॥
॥६॥
Jain Educat
For Private & Personel Use Only
Villw.jainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
त्वयि दोषत्रयात्रातुं प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयोऽपि त्रिदिवौकसः॥५॥ त्वयि० हेवीतराग ! त्वयि त्रैलोक्यं दोषत्रयान्मनोवाक्कायलक्षणाद्रागद्वेषमोहरूपाद्वा त्रातुं रक्षितुं प्रवृत्ते त्रयोऽपि वैमा| निकज्योतिष्कभवनपतयस्त्रिदिवौकसो देवाः प्राकारत्रयं रत्नस्वर्णरूप्यमयं चक्रुर्दुर्गयोगेन हि रक्षा सुसाध्या ॥५॥
अधोमुखाः कण्टकाः स्युर्धात्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं तामसास्तिग्मरोचिषः ॥६॥ ___ अधो० हेवीतराग! तव धान्यां पृथ्व्यां विहरतः कण्टका वदर्यादीनां दुर्जना अप्यधोमुखान्यग्मुखाः। दृष्टान्तमाहतिग्मरोचिषो रवेस्तामसास्तमसां समूहा अन्धकारकारिणो घूकादयो वा किं संमुखा भवेयुरपितु न भवन्त्येव ॥६॥
केशरोमनखश्मश्रु तवावस्थितमित्ययम् । बाह्योऽपि योगमहिमा नाप्तस्तीर्थकरैः परैः ॥७॥ __केश. हेवीतराग ! केशाः शिरोरुहा, रोमाण्यपरोपाङ्गसम्भवानि, नखाः करचरणभवाः, श्मश्रु कूर्च समाहारद्वन्द्वः तव केशरोमनखश्मश्रु अवस्थितं दीक्षाग्रहणावसरे यथा समारचितं भवति तत्तथैवावतिष्ठते न वर्द्धत इत्यर्थः। इत्ययं बाह्योऽपि योगमहिमा परैस्तीर्थकरैर्हरिहरादिभिर्नाप्तः नासादितः। अन्तरङ्गस्तु सर्वाभिमुख्येत्यादिस्तवोक्तौ तु (क्तस्तु) दूरे ॥७॥ - शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचराः। भजन्ति प्रातिकूल्यं न त्वद्ने तार्किका इव ॥ ८॥
शब्द० हेवीतराग! शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचरा विषयास्त्वदने तार्किका इव बौद्धनैयायिकादय इव प्रातिकूल्यं विपरीतभावं न भजन्ति ॥ ८॥
त्वत्पादावृतवः सर्वे युगपत्पर्युपासते । आकालकृतकन्दर्पसाहायकभयादिव ॥९॥
RRRRRRRRAAK
JainEducation
For Private
Personal Use Only
Jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
अव
वीतराग.
॥६९॥
त्वत्पा० हेवीतराग ! त्वत्पादौ सर्वे वसन्ताद्या ऋतवो युगपदेकवारं पर्युपासते आश्रयन्ति, समवसरणसमीपस्थवनेषु| सर्वर्तुकपुष्पसम्भवात् पुष्पप्रकरे सर्वर्तुकपुष्पसम्भवाद्वा कुतः आकालमासंसारं तैः कृतं यत्कन्दर्पस्य भगवत्प्रतिपक्षस्य | साहायक साहाय्यं तेन यद्भयं तस्मादिव । श्लोकद्वयेन एकोऽतिशयः॥९॥
सुगन्ध्युदकवर्षेण दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शी पूजयन्ति भुवं सुराः ॥१०॥ सुगं० हेवीतराग! भावित्वत्पादसंस्पर्शा भावी तव पादयोः स्पर्शो व्याख्याऽवसरे षड्घटिकावधि यस्यास्तां भुवं सुराः पूजयन्ति, केन? सुगं० सुरभिजलवर्षणेन, पुनः केन? दिव्य स्वस्तिकश्रीवत्सादिरचनाविशेषेण देवै रचितत्वादिव्यो यः पञ्चवर्णपुष्पप्रकरस्तेन । अतिशयद्वयम् ॥ १० ॥
जगत्प्रतीक्ष्य त्वां यान्ति पक्षिणोऽपि प्रदक्षिणम् । का गतिमहतां तेषां त्वयि ये वामवृत्तयः॥११॥ जगत्प० हे जगत्प्रतीक्ष्य त्रैलोक्यपूज्य! पक्षिणो जम्बूचाषमयूराद्या अज्ञाना अपि प्रदक्षिणं दक्षिणावर्त्त यथा सुशकुन|मित्यर्थः त्वां यान्ति तेनेतिगम्यं तेषां मांनुष्यविवेकशास्त्रादिना महतां का गतिर्नरकगतानां तेषां निर्गमोऽसम्भाव्य इत्यर्थः। के ते? ये त्वयि वामवृत्तयः वामा प्रतिकूला वृत्तिवर्त्तनं येषां ते प्रतिपक्षा इत्यर्थः ॥११॥
पञ्चेन्द्रियाणां दौःशील्यं क भवेद्भवन्तिके । एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥१२॥ पश्च० भगवत्समीपे पञ्चेन्द्रियाणां संज्ञानां मनुष्यादीनां दौःशील्यं दुष्टत्वं व भवेत्? न भवेदितियावद्यतः कारणादेके|न्द्रियोप्यनिलो वातः प्रतिकूलतां मुश्चति पृष्ठतःस्फुरणेन ॥ १२॥
॥६९॥
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
ESCA
SUSASUSASEOSKOSMOCESSOS
मूर्धा नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थ शिरस्तेषां व्यर्थ मिथ्यादृशां पुनः ॥१३॥ मूर्धा हेवीतराग! त्वन्माहात्म्यचमत्कृतास्तरवो वृक्षा मूर्धा शिरसा नमन्ति, विहारावसरे एकेन्द्रियाणामपि भयरा| गादिसंज्ञावच्चमत्कारोपि सुसम्भवस्ततस्तेषां शिरः शिखरं कृतार्थ कृतकृत्यमस्ति, मिथ्यादृशां पुनः शिरः शीर्ष व्यर्थमकार्यकरम् ॥ १३ ॥
जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः। भाग्यसम्भारलभ्येऽर्थे न मन्दा अप्युदासते ॥१४॥ | जघ० हेवीतराग ! सुरासुरा जघन्यतोऽपि कोटिसङ्ख्याः कोटिमानास्त्वां सेवन्ते, हेतुमाह-भाग्य० पुण्यातिशये प्राप्ये द पदार्थे मन्दा मूर्खा अपि नोदासते नालस्यमादधते किम्पुनर्ज्ञानसारविचारा विबुधा इति ॥ १४ ॥
इति श्रीवीतरागस्तोत्रे चतुर्थप्रकाशावचूर्णिः ॥ ४॥ गायन्निवालिविरुतैर्नृत्यन्निव चलैलैः । त्वद्गुणैरिव रक्तोऽसौ मोदते चैत्यपादपः ॥ १॥ सुरकृतातिशयैकोनविंशतिमध्ये चतुर्दश व्याख्याय शेषाः पञ्च प्रातिहार्यान्त भूता अतस्तान्येवाहुः । गाय० हेवीतराग! चैत्यपादपोऽशोको जिनतनुमानावादशगुणस्कन्धो मोदते दृप्यतीवालिविरुतैः कुसुमसौरभलुभ्यअमररवैर्गायन्निव चलैर्वातान्दोलितैर्दलैः पत्रैर्नृत्यन्निव नाटकं कुर्वन्निव तव गुणैर्गुणरागैरिव रक्तः एतानि हि प्रमोदलक्षणानि ॥१॥
आयोजनं सुमनसोऽधस्तान्निक्षिप्सबन्धनाः । जानुदनीः सुमनसो देशनोा किरन्ति ते ॥२॥
॥
४
॥
R ROSAROCUREMOROSAROKES
Jain Education
For Private & Personel Use Only
(GOww.jainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
A
अवचू
-
वीतराग. आयो० हेवीतराग! ते तव देशनोा समवसरणे सुमनसो देवा अध० अधःकृतबिंटा जानुदनीः जानुप्रमाणाः
सार्द्धहस्तोच्छ्रिताः सुमनसः पुष्पाण्यायोजनं योजनं यावत् किरन्ति स्तृणन्ति ॥२॥
मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षाद्रीवैर्मगैरपि ॥३॥ माल० हेवीतराग० तव देवैर्वेणुवीणाधुपकरणश्रुतिधरणेन विस्तारितत्वादिव्यो ध्वनिहर्षोद्रीवैविस्मयोन्मुखैम॒गैरपि पीतः सस्पृहमाकर्णितः। मृगग्रहणं ध्वनिप्रियत्वात् । अपिशब्दात्पुनरशेषपशुभिरपि । ध्वनिः किंविशिष्टः ? माल० मालवकेशिकी वैराग्यव्यञ्जकोऽतिसरसो रागविशेषः, तन्मुख्यास्तदादयो ये ग्रामावसाना रागास्तैः पवित्रितः॥३॥
तवेन्दुधामधवला चकास्ति चमरावली । हंसालिरिव वक्राब्जपरिचर्यापरायणा ॥४॥ तवे हेवीतराग! तव चमरावली चमरमालेन्दुधामधवला चन्द्रकिरणशुभ्रा चकास्ति शोभत इवोत्प्रेक्षते-हंसालिहसश्रेणी कथम्भूता? वक्रा० प्रभुवदनकमलसेवापरा ॥४॥ ___मृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् । श्रोतुं मृगास्समायान्ति मृगेन्द्रमिव सेवितुम् ॥५॥
मृगे० हेवीतराग ! त्वयि मृगेन्द्रासनमारूढे उपविष्टे देशनां धर्मोपदेशं तन्वति ददति सति श्रोतुमाकर्णयितुं मृगाः समायान्त्यागच्छन्तीवोत्प्रेक्षे मृगेन्द्र सिंहासनसिंहं सेवितुं, जात्यैकवचनं मृगेन्द्रमिति साभिप्राय, यो येषामिन्द्रः स तैसे स्सेव्य इति ॥५॥
SAMROGRECEUMSAMACHCHECK
॥७
॥
JainEducational
For Private
Personel Use Only
How.jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
भासां चयैः परिवृतो ज्योत्स्नाभिरिव चन्द्रमाः। चकोराणामिव दृशां ददासि परमां मुदम् ॥६॥ भासां० हेवीतराग ! त्वं भासां चयैर्भामण्डलेन परिवृतः सहितः सुजनदृशां परमां मुदं ददासि ॥ ६ ॥
दुन्दुभिर्विश्वविश्वेश पुरो व्योन्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं साम्राज्यमिव शंसति ॥७॥ दुन्दु० हे विश्वविश्वेश! सर्वजगन्नायक दुन्दुभिर्भेरीविशेषो देवतासम्बन्धी व्योम्नि गगनस्थः पुरोऽग्रे प्रतिध्वनन् |स्वयं शब्दं कुर्वञ्जगत्याप्तेषु सर्वदेवेषु प्राज्यं प्रकृष्टं साम्राज्यमैश्वर्यं ते तव शंसति कथयतीवेवोत्प्रेक्षायाम् ॥७॥
तवोर्ध्वमूर्ध्वं पुण्यर्डिक्रमसब्रह्मचारिणी । छत्रत्रयीत्रिभुवनप्रभुत्वप्रौढिशंसिनी ॥८॥
तवो० हेवीतराग! तव शिरसीति गम्यं छत्रत्र!ध्वमूर्ध्वमुपर्युपरि व्यवस्थिता, त्रिभु त्रिभुवनस्य यत्प्रभुत्वं तस्या या ६ प्रौढिः प्रकर्षस्तच्छंसिनी ज्ञापिकाऽस्ति कथम्भूता? पु० पुण्यस्यर्द्धिस्तस्याः क्रमः प्रथमं सम्यक्त्वं, ततो देशविरतिरित्यादि-1 स्तस्य सब्रह्मचारिणी सदृशी नैर्मल्यादिना ॥८॥
एतां चमत्कारकरी प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा नाथ मिथ्यादृशोऽपि हि ॥९॥ एतां हेवीतराग! हेनाथैतां प्रत्यक्षां पूर्वोक्तां चमत्कारकरी तव प्रातिहार्यश्रियं दृष्ट्वा के मिथ्यादृशोऽपि न चित्रीयन्ते नाश्चर्य कुर्वन्ति ? अपितु सर्वेपि, प्रातिहाण्यतिशयविशेषा नन्वतिशयाश्चतुस्त्रिंशदेव? अनंतातिशयत्वात्तस्य चतुस्त्रिंशत्सङ्ख्यानं बालावबोधाय ॥९॥
इति पञ्चमप्रातिहार्यस्तवस्यावचूर्णिः ॥ ५॥
PROGRESS BARRIOSOS SOCIOS*
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org
Page #156
--------------------------------------------------------------------------
________________
FOCUS
वीतराग.
अवचू.
॥७२॥
यथा चक्रवर्तिनश्चक्रादिचतुर्दशरत्नादिसामग्रीसंभवे वैरिजयायोत्साहः । एवं प्रभोरपि धर्मचक्रादि प्रदर्य प्रतिपक्षनिरासमाह
लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय किम्पुनर्देषविप्लवः ॥१॥ लाव हेवीतराग! त्वयि लावण्यं लवणिमा तेनाभिलपणीयकाये नेत्राणां नयनानाममृताञ्जनवत्प्रकाशकरे दृष्टे इति गम्य, माध्यस्थ्यमुदासीनतापि दौःस्थ्याय दुःखाय स्यात् यथा चिन्तामणिं वीक्ष्यानादृतवतो नरस्य मतिमभिर्निदेवोऽयमि-12 ४|त्यपवादः पुनर्व्वेषविप्लवो द्वेषेणेjया विप्लवोऽसहूषणोघोषणं किं ? तेनाऽनिर्वाच्यं किंचि नरकादि प्राप्स्यतीत्यर्थः ॥१॥18
तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्यापि किं जीवन्ति विवेकिनः॥२॥ तवा० हेवीतराग! तवापि निष्कारणनिखिलवत्सलस्यापि प्रतिपक्षो रिपुरस्ति, सोऽपि प्रतिपक्षः कोपादिभिः क्रोधादिभिविप्लुतो व्याप्तः। अनया किंवदन्त्यापि वार्त्तयापि किमिति पृच्छायां विवेकिनो ज्ञातारो जीवन्त्यपितु न, अश्रव्य श्रवणात् प्राणत्यागोऽपि वरम् ॥२॥
विपक्षस्ते विरक्तश्चेत्स त्वमेवाथ रागवान् । न विपक्षो विपक्षः किं! खद्योतो द्युतिमालिनः ॥३॥ विप विपक्षो विरक्तः स्याद्रागवान् वेति मनसि विकल्प्योत्तरयन्ति-हेवीतराग! ते तव विपक्षो वैरी चेद्यदि विरक्तो राग-1
OSTOSASOS RESSEM
॥७
॥
Jan Education
For Private Personel Use Only
Mainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
RESSROOMARUTORS
रहितोऽस्ति तदा स त्वमेव वीतरागाणां सर्वेषामैक्यादथ स वैरी रागवानस्तीतिपक्षस्तर्हि स न विपक्षस्तव कुतः? द्युतिमालिनः सूर्यस्य खद्योतः पतङ्गः किं विपक्षो भवति! अपितु नैवं । रागवानपि तवाग्रे पतङ्गप्राय एव ॥३॥
स्पृहयन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः। योगमुद्रादरिद्राणां परेषां तत्कथैव का ॥४॥ स्पृह हेवीतराग ! त्वद्योगाय तव मार्गाय तेऽपि लवसत्तमाः सप्तलवमानायुरभावेनानुत्तरगता अपि देवा अपि स्पृहयन्ति वाञ्छन्ति । तत्ततो योगमुद्रादरिद्राणां बाह्यरजोहरणमुखपोतादियतनोपकरणविकलानां परेषां साङ्खयादित्वत्प्रति8पक्षाणां तस्य योगस्य कथैव वातैव का! न कापि, योगमार्गासन्नो नास्तीत्यर्थः ॥ ४ ॥
अथ कवयः संसाररूपैकस्थानस्थितत्वेप्यात्मनस्तेभ्यः पृथक्त्वं दर्शयन्ति । त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किम्ब्रूमः किमु कुर्महे ॥५॥ त्वांप्र० हेवीतराग! वयं त्वां नाथं योगक्षेमकरं प्रपद्यामहे स्वीकुर्मः, वयं स्तुमः, वयं त्वामुपास्महे सेवामहे, यतस्त्वत्तो|ऽपरोऽन्यः न त्राता न रक्षकः । तव स्तवादपरं किम्ब्रूमः स्तुतिमात्रफलत्वाचनस्य, तव सेवनादपरं किमु कुर्महे सृजामः परिचर्यामात्रफलत्वान्नजन्मनः, अपरमित्यर्थवशाद्विभक्तिलिङ्गपरिणामोक्तियेऽपि ॥५॥ अथ “सरुषि नतिस्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः। दानमुपकारकीर्तनममूलमन्त्रं वशीकरणम्" इत्युक्तेः प्रभुद्वेषिणि द्वेषं मुञ्चयन्तः प्रोचुः।
खयं मलीमसाचारैः प्रतारणपरैः परैः । वश्यते जगदप्येतत्कस्य पूत्कूर्महे पुरः ॥६॥
Jain Education
Etional
For Private & Personel Use Only
Page #158
--------------------------------------------------------------------------
________________
वीतराग.
॥७२॥
Jain Education
स्वयं ० स्वयमात्मना मलीमसा चारैर्मलिनाचारैर्लोकानां विप्रलम्भनप्रभुभिः परैर्ब्रह्मादिभिर्देवैर्यज्ञादिरतैर्गुरुभिश्चैतज्जगदपि वश्यते तेन वयं त्वां विनाऽन्यस्य कस्य पुरः पूत्कुर्महेबुब्बां कुर्मः ॥ ६ ॥
नित्यमुक्तान् जगज्जन्मक्षेमक्षयकृतोद्यमान् । वन्ध्या स्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ॥ ७ ॥ नित्य० तथा हेवीतराग ! कश्चेतनः सुधीः देवांस्त्वदन्यान् श्रयेत् कथंभूतान् ? नित्यमुक्तान्सर्वदापि कर्म्मरहितान् पुनः किंविशिष्टान् ? जग० जगतो जन्मोत्पादनं, क्षेम पालनं, क्षयः संहारस्तेषु कृत उद्यम उपक्रमो यैस्तान्, यदि नित्यमुक्तास्त| हिं कथं जगद्व्यापारपरा इत्येवंविरोधः । अत एव कथम्भूतान् वन्ध्यासुतसदृशानसत इत्यर्थः ॥ ७ ॥ अथ श्लोकद्वयेन
तद्भक्तस्वरूपमाह -
कृतार्था जठरोपस्थदुः स्थितैरपि दैवतैः । भवादृशान्निहुवते हाहा देवास्तिकाः परे ॥ ८ ॥ कृता० हेवीतराग! जठरमुदरमुपस्थेन्द्रियवर्गस्ताभ्यां दुःस्थितैर्विह्वलैरपि दैवतैः कृतार्थाः कृतार्थमन्या अन्ये जना भवादृशान् त्वत्सदृशान् गुणैरुत्कृष्टान् निह्नवतेऽपलपन्ति हाहेति खेदेऽपरे द्विजादयो देवास्तिका देवविषयास्तावन्त इत्युपहासः ॥८॥ पुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा न गेहेनर्दिनः परे ॥ ९ ॥ ayo वीतराग ! परे परवादिनः खपुष्पप्रायमाकाश कुसुमकल्पमुत्प्रेक्ष्य स्वचेतसि विचार्यैक एव हि भूतात्मा भूते भूते व्यवस्थित इत्यादि किञ्चिन्मानं प्रमाणं स्वचिन्तनसाधकं प्रकट्य प्रकाश्य च गेहेनर्दिनो गेहेशूराः सन्तो गेहे स्वदर्शने देहेऽपि मदोद्रेकेण न संमान्ति ॥ ९ ॥
66
अवचू.
॥७२॥
w.jainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
कामरागलेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥१०॥ काम० हेतुमाह-हेवीतराग! यतः कामरागः स्यादिविषयः स्नेहरागः पुत्रादिविषयस्तैरीपत्करनिवारणौ सुखनिवायौं तु | परं दृष्टिरागो मदीयमिति लक्षणः पापीयान् क्लिष्टतरः सतामपि दुरुच्छेदः कष्टपरिहार्यः॥१०॥
प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥११॥ ___ अथ परदेवानां तद्भक्तानामपि मौढ्यं दर्शयन्ति-प्र० हेवीतराग! तवास्यं वदनकमलं प्रसन्नमस्ति, दृशौ मध्यस्थे रागद्वेषाऽविप्लुते स्तः, वचो वचनं लोकम्पृणं लोकप्रियमस्ति हितसत्यत्वात् । इत्यमुना प्रकारेण प्रीतिपदे प्रेमस्थानेऽपि 8 त्वयि बाढमत्यर्थ मूढाः परतीर्थिका उदासतेऽनादृतवन्तः॥११॥
तिष्ठेद्वायुवेदद्रिचलेजलमपि कचित् । तथापि ग्रस्तो रागाद्यैर्नासो भवितुमर्हति ॥ १२ ॥ स्वहृदयनिर्णयमाहुः-तिष्ठे० क्वचिद्वायुस्तिष्ठेस्थिरीभवेदद्रिद्भवेत् द्रवतां श्रयति, जलमपि ज्वलेदग्निवद्दहति, तथापि रागाद्यैर्ग्रस्त आक्रान्त आप्तः सम्यक्तत्त्वज्ञो भवितुं नाहति । त्वां विनाऽन्यदेवेषु रागादिरहितत्वं देवत्वं नास्तीति भावः ॥१२॥
इति षष्ठप्रतिपक्षनिरासप्रकाशावचूरिः ॥ ६॥ धर्माधर्मों विना नाङ्गं विनाङ्गेन मुखं कुतः । मुखादिना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥ अन्यदप्यसङ्गतं तेषु बहिति दर्शयन्ति-धर्मा० धर्माधों पापपुण्ये विनाझं शरीरं न स्यात् न स्यादेव, मुखाद्विना
A
jainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
वीतराग.
॥७३॥
Jain Education In
न वक्तृत्वं स्यात्तत्तस्मात्कारणात्परे देवाः कथं शास्तारः शास्त्रकर्त्तार उपदेशदातारो वा, विना ते तृतीया व (२-२-११५) द्वितीयातृतीयापञ्चम्यः ॥ १ ॥
अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किंचित्वातन्त्र्यान्न पराज्ञया ॥ २ ॥ शास्त्राद्युपदेशं निषिध्य जगत्कर्तृत्वं निरस्यन्ति - अदे० हेवीतराग ! अदेहस्याशरीरस्य जगत्सर्गे जगतः सृष्टौप्रवृत्तिः प्रवर्त्तनमपि नोचिता स्वदेहानिष्पत्तेर्नच किंचित्प्रयोजनं कार्यमस्ति तेषां परवादिभिः कृतकृत्यत्वेन मन्यमानत्वात्, शिवास्तिकाः प्रोचुः स भगवान्न पराज्ञया प्रवर्त्तते, किन्तु स्वातन्त्र्यात्स्वेच्छयैव ॥ २ ॥
क्रीडया चेत्प्रवर्त्तेत रागवान्स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥ ३ ॥ इच्छाप्रवृत्तिरपि क्रीडया कृपया वा स्यादिति मनसि विकल्प्योत्तरयन्ति — क्रीडा० स शम्भुश्चेद्यदि क्रीडया प्रवर्त्तेत तदा रागवान् स्यात्कुमारवत् बालकवत्, यथा शिशवो जलक्लिन्नवालुकया देवकुलादि निर्माय क्षणं क्रीडित्वा स्वयमेव सर्व संहृत्य यथागतं यान्ति, तथा कृपया दयया जगत्सृजेत्तर्हि सकलं सुख्येव सुखासक्तमेव सृजेन्नचैवं दृश्यते ॥ ३ ॥
दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता ॥ ४ ॥ दुःख० एवं सति दुःखानीष्टवियोगादीनि दौर्गत्यं दारिद्र्यं दुर्योनयः श्वानचाण्डालनरकादयः, जन्म जन्नावस्था| जायमानाऽत्यन्तकष्टमादिशब्दाज्जरामरणरोगादयः इतरेतरद्वन्द्वस्तैः कृत्वा यः क्लेशस्तेन विह्वलं विधुरं जनं जात्यैकवचनं तु पुनः सृजतः कुर्वतस्तस्येश्वरादेः कृपालोः कृपावतः का कृपालुता दयामयता ? न कापीत्यर्थः ॥ ४ ॥
अवचू.
॥७३॥
ainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
कर्मापेक्षस्स चेत्तर्हि न खतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना?॥५॥ पर आह-कर्मा० तस्य भगवतः कृपालुतैवाऽस्ति परं येन यादृशं कर्म कृतं तदपेक्षयैव शुभाशुभं सृजत्येवं यदि स क-15 र्मापेक्षया तर्हि न स्वतन्त्रोन स्वयशोऽस्मदादिवढूषणान्तरमाहुः-कर्म वैचित्र्ये शुभाशुभसधननिर्द्धनादिलक्षणे कर्मजन्ये स्वस्वकर्मनिष्पादिते मन्यमानेऽनेन शिवेन शिखण्डिना नपुंसकेनाऽकिश्चित्करेणाजागलस्तनायमानेन किं स्यात्! न किश्चिदित्यर्थः॥५॥
अथ स्वभावतो वृत्तिरविता महेशितुः। परीक्षकाणां तडेंष परीक्षाक्षेपडिण्डिमः॥३॥ पुनः पर आह-अथ अथानन्तरं महेशितुरीश्वरस्य स्वभावतः स्वेच्छाया वृत्तिर्जगत्करणादिका अविता अवि|चार्या न देवचरितं चरेदितिवचनात्तह्येष ईश्वरः परीक्षकाणां परीक्षाकर्तृणां परीक्षाक्षेपडिण्डिमो विचारणानिरासपटहः अतः परं कस्यापि वस्तुनः परीक्षा न कार्या यथेश्वरस्येत्यनित्य(ट)प्रसञ्जनम् ॥ ६॥
सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥७॥ वचनचातुरीप्रतिहते परे स्वयमाशङ्कयाह-सर्व० यदि सर्वभावेषु पदार्थतादिसकलपदार्थेषु ज्ञातृत्वमेव कर्तृत्वं सम्मतं तवाऽभीष्टं, तर्हि नोऽस्माकं मतं सिद्धसाध्यता, न इति घण्टालालान्यायेनाऽग्रेपि सम्बन्ध्यते, यतो नोऽस्माकमपि सर्वज्ञाः केवलालोकावलोकिताऽविकलभावा मुक्ताः कर्मरहिताः कायभृतो दग्धरज्जुप्रायआयुष्कादिना देहभृतोऽपि सन्ति विजयन्ते कश्चित्कालमितिगम्यम् ॥७॥
Jain Edue
metional
For Private & Personel Use Only
Page #162
--------------------------------------------------------------------------
________________
1
वीतराग.
॥७४॥
Jain Education
सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि ॥ ८ ॥
उपसंहरन्त आहुः—सृष्टि० हे नाथेति पूर्वोक्तप्रकारेणाप्रमाणकं युक्तिरहितं सृ० जगत्सर्गवादकदाग्रहमुन्मुच्य परित्य - ज्य, त्वच्छासने त्वदागमे, ते पुरुषा रमन्ते येषां त्वं प्रसीदसि प्रसन्नोऽसीतिभावः ॥ ८ ॥
इति सप्तम जगत्कर्तृनिरासप्रकाशावचूरिः ॥ ७ ॥
सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ १ ॥ _ अथ तद्वचनानामप्रामाण्यमाहुः सत्त्व० हेवीतराग! त्वया सत्त्वं वस्तुतत्त्वं नित्यानित्यात्मकं स्याद्वादमयं केवलज्ञानेन दृष्टं तथैव चाऽभिहितम्, तस्य च साङ्ख्या एकान्तेन नित्यत्वमङ्गीकुर्वते, तथैव सति कृतनाशाकृतागमनामानौ दोषौ स्यातां तथाहि-घटो यदि सर्वदापि निष्पन्नसिद्धस्तदा कृतनाशः कृतं कुम्भकारस्य मृदानयनक्लेदन चक्रारोपणाद्युपक्रमस्तस्य नाशो नैरर्थक्यं भवति घटस्य नित्यं निष्पन्नत्वादथाऽकृतागमो यथा यदि सर्वं सर्वदापि नित्यं तदा घटाकारोपि नित्यं तथा सति मृत्पिण्डे पूर्वमदृष्टो घटाकारो नित्यत्वादकृत एवागतः एवं च कृतनाशाकृतागमदूषणं स्यात् । तथा सत्त्वस्य द्रव्यस्य बौद्धा एकान्तनाशमेकान्तेन विनश्वरत्वं मन्यन्त एवमपि कृतनाशाकृतागमौ स्यातां यथैकस्मिन्क्षणे (यद्) मृत्पिण्डद्रव्यमभूत्तद् द्वितीयक्षणे सर्वथा विनष्टं ततः कुम्भकारेण तत्र कृतोऽपि घटाकारो नश्यति इति कृतनाशस्तथा मृद्रव्यं यदि निःशेषं नष्टं तर्हि स्थासकोशकुशूलबुभोदरकर्णादि कुलालेन व क्रियते तदृते चक्षुषाऽतोऽकृतागमः ॥ १ ॥
अवचू.
॥७४॥
Page #163
--------------------------------------------------------------------------
________________
आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगःसुखदुःखयोः॥२॥ एवं सामान्येन नित्यानित्यत्वमभिधायात्मनोपि तद्दर्शयतिआत्म० हेवीतराग! आत्मनि जीवे एकान्तनित्येऽङ्गीक्रियमाणे सुखदुःखयो गो न स्यात्कुतः? यदि सुखं भोक्तुमारब्धं तर्हि सर्वदापि सुखमेव यदि दुःखं तदा (तदेव) भवेदन्यथा सुखमुपभुज्य दुःखस्य, दुःखं चोपभुज्य सुखस्योपभोग्यात्मा सुखिहतया विनश्य दुःखितयोत्पन्नस्तया वा विनश्य सुखितयोत्पेद इत्येकान्तानित्यरूप्येष्यात्मनि सुखदुःखयो गोन स्यादुत्पत्त्यन न्तरं क्षणविनष्टत्वात्सुखदुःखे तु चन्दनाङ्गनारोगकण्टकादिसाधनयोगोपभोगाभ्यां बहुक्षणनिर्वृत्ताभ्यां साध्य इति ॥२॥
पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने ॥३॥ ___ दोषान्तरमाहुः-हेवीतराग! नित्यैकान्तदर्शनयात्म(नि) नित्यत्वाङ्गीकारमते पुण्यपापे बन्धमोक्षौ कर्मबन्धतत्क्षयौ च | न स्युः तथाहि-आत्मनो यदि पुण्यं तर्हि पुण्यमेव, यदि पापं तर्हि पापमेव, नित्यत्वात् यथा शशिन औज्वल्यं तर्हि न कदापि तदेवं यदि बन्धस्तर्हि बन्ध एव यथा मेरोः पृथ्वीपीठे वसतः यदि मोक्षस्तहि स एव नतु बन्धः यथा मनस उक्तं च एवम्। “ मन एकडबक्कडओ जइ कामइ थिर थाइ । चंदिलिहा बउलीहडी तिदणि ऊभि वाहु ॥१॥" तथाऽनित्यैकान्त-15 दर्शने क्षणक्षयिजीवमतेपि पुण्यपापे बन्धमोक्षौ नच सम्भवतः क्रमेण तेषां स्वीकारे चतुःक्षणस्थायित्वं स्यात् युगपद्यदि तदा छायातपवजलाग्निवच्च विरुद्धानां तेषां कथमेकत्रात्मन्यवस्थानं स्यादिति ॥३॥
क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥४॥
PASHAARASSANALISA
For Private
Personal Use Only
w.jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
वीतराग.
अवचू.
॥७५॥
अन्यत्किं ? जीवाजीवादिपदार्थानां नित्यानित्यतां विनाऽर्थक्रियेव न स्यादित्याहुः-क्रमा हेवीतराग! नित्यानां वस्तूनां क्रमाक्रमाभ्यामर्थक्रिया न युज्यते न घटते, यथा यदि घटो नित्यस्तदा जलाहरणं न करोति कुतो? नित्य एकरूप एव नतु रिक्तभृताद्यवस्थावैचित्र्यं भजते, तथा पदार्थानामेकान्तक्षणिकत्वे विनश्वरत्वेऽप्यर्थक्रिया जलाहरणादिका न घटते, बहुक्षणनिष्पाद्यत्वात्तस्याः, अर्थक्रियाया अभावेऽसत्त्वमेव ॥ ४॥
यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यदात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥५॥ पूर्वोक्तमेव निगमयन्त आहुः-यदा यदा तु पुनः स्तम्भकुम्भाम्भोरुहादेवस्तुनो नित्यानित्यत्वरूपता कथंचिन्नित्यानित्य| स्वभावता भवेत्तदा कश्चन दोषो विरोधादि व नास्त्येव, हेभगवन्! यथा त्वमात्थ कथितांस्तथैव न दोष इत्यर्थः॥५॥
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । यात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥ तदवष्टम्भाय दृष्टान्तमाहुः-गुडो० यथैकाकी गुडः कफस्य श्लेष्मणो हेतुः स्यात्, नागरं शुण्ठी पित्तस्य कारणं, द्वयात्मनि द्वयोरेकत्रकरणे कृते गुडनागरभेषजे गुडिकाविशेषयुन्मीलनानाम्नि न दोषः पित्तादिः, किन्तु प्रत्युत पुष्ट्यादिगुणः | स्यात् तस्मात् ॥ ६॥
द्वयं विरुडं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥७॥ दृष्टान्तोपनयनमाहुः-द्वयं द्वयं नित्यानित्यलक्षणमेकत्र घटादौ न विरुद्धमयुक्तं कुतः? असत्प्रमाणप्रसिद्धितः सतां
॥७५॥
Jain Education
For Private Personel Use Only
Mainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
विद्यमानानां प्रमाणानां युक्तीनामभावात् ताः काश्चन युक्तयो न सन्ति याभिनित्यानित्ये विरोधादयः साध्यन्ते विरु० हियस्माद्विरुद्धानां कृष्णश्वेतादीनां वर्णानां, योगः सङ्करो, मेचकेषु शबलेषु, वस्तुषु पटादिषु, दृष्टः प्रत्यक्षेणोपलब्धः ॥७॥3 | विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥८॥
प्रभोः पुरः परतीथिकानां यथास्थितं स्वरूपं विज्ञप्य क्रुद्धः प्रभुर्द्विषां सेवकानामपि न हित इति पुनः प्रसादनाय प्रकारान्तरेण विज्ञपयन्ति । विज्ञा० विज्ञानस्यैकमाकारं स्वरूपं, नाना विचित्रा य आकारा घटादीनां तैः करम्बितं मिश्रमि
च्छन्नभिलषन् , तथागतो बौद्धोऽनेकान्तं स्याद्वादं, न प्रतिक्षिपेदुत्थापयेत्कथम्भूतः! प्राज्ञो ज्ञाता, प्रकर्षणाज्ञो मूर्योऽपि ते यतः स्याद्वादं स्वीकुर्वस्त्वां नोपास्ते ॥ ८॥
चित्रमेकमनेकश्च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥९॥ | चित्र एक चित्रं रूपमनेकमनेकाकारमयं, प्रामाणिकं प्रमाणसिद्धं, वदन यौगो नैयायिको, वैशेषिकोऽप्यनेकान्तं नाद प्रतिक्षिपेत् ॥९॥
इच्छन्प्रधानं सत्त्वायैर्विरुद्धैगुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥१०॥ इच्छ० तथा हेवीतराग! प्रधान प्रकृति, सत्त्वाद्यैः सत्त्वरजस्तमोलक्षणैर्विरुद्धैगुणैर्गुम्फित मिश्रितमिच्छन् सङ्खचावतां विदुषां मुख्यः सालयोऽनेकान्तं न प्रतिक्षिपेत् ॥१०॥
विमतिसम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥११॥
For Private Personal Use Only
Fiww.jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
वीतराग.
॥७६॥
विमति० हे वीतराग! चार्वाकस्य नास्तिकस्य, विमतिविरुद्धप्रतिपत्तिः, सम्मतिः सम्यक्प्रतिपत्तिा, न मृग्यते न वि-5 अवचू. चार्यते, कुतः? यस्य चार्वाकस्य, शेमुषी बुद्धिः, परलोकात्ममोक्षेषु परलोके जीवे मोक्षे च, मुह्यति मूढा स्यात् , ये बालगोपालप्रसिद्धं जीवाद्यपि न जानन्ति तस्य वा विमतिः सम्मतिर्वेत्यर्थः ॥११॥
तेनोत्पादव्ययस्थेमसम्भिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तुतस्तु सत् ॥१२॥ । अथोपसंहारं कुर्वन्त आहुः । तेनो० हे वीतराग! तेन कारणेन ये केचित्कृतधियो ज्ञातारस्त्वदुपज्ञं त्वयैव प्रथममुपदिष्टं वस्तुतस्तु सत् परमार्थरूपं, प्रपन्नाः स्वीकृतवन्तः, वस्तु किंविशिष्टमुत्पा० उत्पत्तिक्षयस्थिरतामिश्रं किंवत् ? गोरसा-12 दिवत् यथा गोरसं दुग्धतया विनश्यद्दधितयोत्पद्यमानं गोरसतया तिष्ठत्येव ॥ १२ ॥
इत्यष्टमप्रकाशावचूरिः ॥ ८ ॥ यत्राल्पेनापि कालेन त्वद्भक्तैः फलमाप्यते । कलिकालः स एकोऽस्तु कृतं कृतयुगादिभिः ॥१॥ इत्थं प्रतिपक्षक्षेपमाख्याय वीतरागस्य धर्मचक्रवर्तिनः कालसौष्ठवज्ञापनपूर्वमेकच्छत्रतां प्रकटयन्ति । यत्र हे वीतराग! | यत्राल्पेनापि कालेन त्वद्भक्तैः फलमाप्यते आसाद्यते।यत उक्तं "कृते वर्षसहस्रेण, त्रेतायां हायनेन च। द्वापरे यच्च मासेन, अहोरात्रेण तत्कलौ ॥१॥” इत्यतः स एकः कलिकालोऽस्तु, कृतयुगादिभिः कृतं सृतम् ॥१॥
| ॥७६॥ सुषमातो दुःषमायां कृपा फलवती तव । मेरुतो मरुभूमौ हि श्लाघ्या कल्पतरोः स्थितिः॥२॥
SISUSTUSOSSESSIES
C+
Jain Educatio
n
al
For Private Personal Use Only
( H
w
.jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
सुष० हे वीतराग! सुषमातः कृतयुगादितो, दुःषमायां कलौ, तव कृपा प्रसत्तिःफलवती फलदायिनी। दृष्टान्तमाहुः-हि यस्मात्कारणान्मेरुतो मरुभूमौ वृक्षमात्ररहिते देशे, कल्पतरोः स्थितिरवस्थानं, श्लाघ्या शोभनतरा ॥२॥
श्राडः श्रोता सुधीवक्ता युज्येयातां यदीश तत् । त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ॥३॥
श्राद्धः हे ईश! श्रोता त्वद्वचनाकर्णयिता, श्राद्धः परमश्रद्धावान्, वक्ता प्ररूपकः, सुधीरत्वदागमरहस्यज्ञः, यद्यभावे वितै (यदि संभावने) युज्येयातां मिलतस्तत्तर्हि त्वच्छासनस्य कलावष्यतिशयरहितेऽपि काले साम्राज्यमेकच्छत्रमेकातपत्रं सार्वत्रिकमित्यर्थः श्रोत्रा कुमारपालेनात्मना च प्ररूपकत्वेनाऽनुभवसिद्ध कवेर्वचनमिदम् ॥३॥
युगान्तरेऽपि चेन्नाथ! भवन्त्युच्छृङ्खलाः खलाः । वृथैव तर्हि कुप्यामः कलये वामकेलये ॥४॥ एवमेकच्छत्रराज्यमधितिष्ठन्प्रभुः पिशुनापराधदर्शनान्मा कुष्यत्वित्याहुः। युगा० हे नाथ! युगान्तरेऽपि कृतयुगादावपि खला दुर्जना, उच्छृङ्खला उद्धताश्चेद्यदि भवन्ति, तर्हि वामकेलये सजनानुचितचरिताय, कलये कलियुगाय, वयं वृथैव | निरर्थक, कुप्यामः यतो न कदाचिदनीदृशं जगदिति ॥४॥
कल्याणसिद्धय साधीयान्कलिरेव कषोपलः । विनाग्निं गन्धमाहिमा काकतुण्डस्य नैधते ॥५॥ अथ श्लोकचतुष्टयेन कलिदोषमपनयन्ति । कल्या० हे वीतराग! कल्याणसिद्ध्यै शुभसम्प्राप्त्य, कलिरेव साधीयान् साधुतरः, कषोपलः कषपट्टः, कल्याणं श्रेयः, कनकमपि भव्यानामितिगम्यं यथा काकतुण्डस्यागरोरग्निं विना गन्धमहिमा नैधते न वर्द्धते ॥५॥
SASUSAK **********
416405**XHAFA
YANSHAAL
JainEducation
For Private Personal Use Only
p
a inelibrary.org
Page #168
--------------------------------------------------------------------------
________________
वीतराग.
॥७७॥
Jain Education
निशि दीपोsagat arपं मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं त्वत्पादाजरजःकणः ॥६॥ निशि० हे वीतरागाऽयं त्वत्पादान० त्वच्चरणरेणुकणः, कलौ दुरापो दुर्लभः, यथा रात्रौ प्रदीपः, समुद्रे द्वीपं मरौ जङ्गलदेशे वृक्षः, शीतकाले शिखी ॥ ६ ॥
युगान्तरेषु भ्रान्तोऽस्मि त्वद्दर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वद्दर्शनमजायत ॥ ७ ॥ युगा • हे वीतरागास्म्यहं त्वद्दर्शनविनाकृतस्त्वच्छासनरहितः कृतयुगादिषु भ्रान्तः संसारारण्ये तेन कलये नमोऽस्तु यत्र त्वद्दर्शनमजायत त्वं दृष्ट इत्यर्थः ॥ ७ ॥
बहुदोषो दोषहीनात्त्वत्तः कलिरशोभत । विषयुक्तो विषहरात्फणीन्द्र इव रत्नतः ॥ ८ ॥ बहु० हे वीतरागाष्टादशदोषरहितात् त्वत्तो बहुदोषोऽसत्यमात्सर्यादियुक्तः कलिरशोभत इव यथा विषयुक्तो भुजगेशो विषहराद्वलात् शोभते ॥ ८ ॥
इति नवमप्रकाशावचूरिः ॥ ९ ॥
मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि प्रसीद् भगवन् ! मयि ॥ १ ॥ हे भगवन्! मत्प्रसत्तेर्मम मनःप्रसन्नतानुसारेण त्वत्प्रसादः स्यात् तदनुसारेण च मे मनःप्रसत्तिरित्यमुना प्रकारेणोत्पन्नमन्योन्याश्रयं भिन्धि स्फोटय, मयि मद्विषये प्रसीद तुच्छां मत्प्रसत्तिमवगणय्य प्रागेव प्रसादं कुरु त्वयि प्रसन्ने मत्प्रसत्तिरवश्यं भविष्यतीत्यर्थः ॥ १ ॥
अवचू.
॥७७॥
ainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
Jain Education In
निरीक्षितुं रूपलक्ष्मीं सहस्राक्षोऽपि न क्षमः । खामिन्! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२॥ निरी० हे स्वामिन्! ते तव रूपलक्ष्मीं निरीक्षितुं सहस्राक्षोऽपि सहस्रनयनोऽपि न क्षमः न शक्तः, ते गुणान्वक्तुं सहस्र| जिह्वोपि न समर्थः ॥ २ ॥
संशयान् नाथ ! हरसेऽनुत्तरस्खर्गिणामपि । अतः परोऽपि किं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः ॥ ३ ॥ संश० हे नाथ! त्वमहस्थ एवानुत्तरस्वर्गिणां द्वादशयोजनैः सिद्धेरर्वाक्स्थितानामपि संशयान् सन्देहान् हरसेऽतः संशयापनोदात् परोऽन्यपि कोपि गुणो वस्तुतः परमार्थतः स्तुत्यः स्तवनयोग्यः, किमस्ति ! नास्तीत्यर्थः ॥ ३ ॥
इदं विरुद्धं श्रतां कथमश्रद्दधानकः । आनन्दसुखसक्तिश्च विरक्तिश्च समं त्वयि ॥ ४ ॥ अद्भुतचरितं प्रकटयन्ति । इदं० हे वीतरागाऽश्रद्दधानकस्तव लोकोत्तरचरितानभिज्ञ इदं विरुद्धं परस्परामिलन्द्वयं कथं श्रद्धत्तां मन्यतामिदं किम् ! त्वयि समं युगपदानन्दसुखसक्तिरनन्तानन्दरूपे सुखे संलीनता विरक्तिः सर्वसङ्गविरतिश्च स्तः चकारो तुल्यकक्षतार्थम् ॥ ४ ॥ Marrier
दुर्घटा घटतां कथम् । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥ ५ ॥
to हे नाथेयं द्वय घट्यमानापि त्वयि प्रत्यक्षेण दर्शनान्मन्यमानापि दुर्घटाऽन्यत्र क्वाप्यदर्शनात्कथं घटतां कथमस्त्वियमिति किम् । सर्वसत्त्वेषु सकलजीवेषूपेक्षा माध्यस्थ्यं रागद्वेषाभावेन परमा प्रकृष्टा च पुनरुपकारिता ज्ञानादिदर्शनेन वत्सलतास्ति ॥ ५ ॥
ainelibrary.org
Page #170
--------------------------------------------------------------------------
________________
बीतराग. ॥७८॥
Jain Education
द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्धता परा या च या चोच्चैश्चक्रवर्त्तिता ॥ ६ ॥ द्वयं० हे भगवन् ! तत्र द्वयं विरुद्धमन्यस्य कस्यचिद्धरादेनैवास्ति तद्वयं किमित्याहुः - नि० या परोत्कृष्टा निर्ग्रन्थता निरीहतैकतोऽपरतश्वोश्चैरतिशयेन धर्मचक्रवर्तित्वमिति ॥ ६ ॥
नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्र को वा वर्णयितुं क्षमः ॥ ७ ॥
arrot atara ! हर्निशं कर्मवश तो वर्षकोटा कोटीरसङ्ख्या दुःखमनुभवन्ति न कदाचिद्विश्रामस्ते नारका अपि यस्य | तव कल्याणपर्वसु च्यवनादिकल्याणकेषु मुहूर्त्तमुद्योतवेदनोपशमेन मोदन्ते हर्षमनुभवन्ति, तस्य तव शुचि चारित्रं (त्र्यं) | चरितं वर्णयितुं व्याकर्तु को बृहस्पत्यादिरपि क्षमः समर्थः ॥ ७ ॥
शमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ८ ॥ शमो० हे वीतराग ! बहु किं ? तव शमः समताश्चर्यकारी, रूपमद्भुतं, सर्वजीवेषु दया कृपाद्भुता, सर्वेषामद्भुतानामा|श्चर्याणां निधीशाय महानिधानाय भगवते ऐश्वर्यादिषङ्कवते तुभ्यं नमोऽस्तु ॥ ८ ॥
इति दशमप्रकाशावचूरिः ॥ १० ॥
निघ्नन्परीषहचमूमुपसर्गान्प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां कापि वैदुषी ॥ १ ॥ अथाऽचिन्त्यमाहात्म्यमाहुः । निघ्नन्० हे वीतराग! त्वं परि समन्तात्रिकरणशुद्ध्या सह्यन्ते साधुभिरिति परीषहास्तेषां
अवचू.
॥७८॥
w.jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
SESSAGESSATE SHOES
चमूश्रेणी निघ्नन् निराकुर्वन्नुपसृज्यन्ते सत्पथात् प्रच्याव्यन्ते कातरा नरा एभिरित्युपसर्गास्तान् प्रतिक्षिपन दूरे निरस्यन् , शमसौहित्यं शमामृततृप्तिं, प्राप्तोऽस्यतः कारणान्महतां वैदुषी चतुरता काप्यपूर्वास्ति ॥१॥
अरक्तो भुक्तवान्मुक्तिमद्विष्टो हतवाद्विषः । अहो महात्मनां कोऽपि महिमा लोकदुर्लभः ॥२॥ ___ अर० हे वीतराग! त्वमरक्तो रागरहितो, मुक्तिकामिनी भुक्तवानद्विष्टो द्वेषरहितस्त्वं द्विषः कषायादीन् हतवान्निरस्तवानहो इत्याश्चर्ये, महात्मनां महानुभावानां, महिमा गुरुत्वं, कोप्यपूर्वो लोकदुर्लभः प्राकृतदेवैरप्रायः॥२॥ ___ सर्वथा निर्जिगीषेण भीतभीतेन चागसः । खया जगत्रयं जिग्ये महतां कापि चातुरी ॥३॥
हे वीतराग! सर्वथा सर्वप्रकारैर्निर्जिगीषण परपराभवेच्छारहितेनागसः पापादीतभीतेन विभ्यता त्वया जगत्रयं सुरासुरनरलक्षणं जिग्ये आज्ञा माहितमित्यर्थे महतां भवादृशां, चातुरी काप्यपूर्वा ॥३॥ __दत्तं न किञ्चित्कस्मैचिन्नात्तं किश्चित्कुतश्चन । प्रभुत्वं ते तथाप्येतत्कला कापि विपश्चिताम् ॥४॥
दत्तं हे वीतराग! त्वया किञ्चिद्रामग्रासादि कस्मैचित्सेवकाय न दत्तं नार्पित, कुतश्चन किश्चिद्दण्डादिन गृहीतं, तथापि ते प्रभुत्वमैश्वर्यमेतत्समवसरणादिलक्ष्मीदर्शनेन वचनातिगमतो विपश्चितां विदुषां कला काप्यपूर्वा ॥४॥ । यद्देहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ! पादपीठे तवालुठत् ॥५॥
यद्दे हे नाथ! यत्सुकृतं परैःसुगतादिभिः शरीरवितरणेनापि नोपार्जितं तदुपकारित्वलक्षणमुदासीनस्य मध्यस्थस्यापि 18|| तव पादपीठ इत्यवज्ञादर्शनं तथाविधोग्रतपःक्षमादमादीनां प्रभौ सद्भावात् ॥५॥
AKARMARKARSANSARAN
Jain Edu.१४
For Private
Personal Use Only
Plainelibrary.org
Page #172
--------------------------------------------------------------------------
________________
वीतराग.
॥७९॥
Jain Education
रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥ ६ ॥ • वीतराग! त्या रागादिषु नृशंसेन निर्दयेन, सर्वात्मसु सर्वजीवेषु, कृपालुना दयावता, भीमाः प्रतापादयः, कान्ताः शमादयस्तैर्गुणा यस्य तेनोच्चैरतिशायि साम्राज्यं साधितं स्वीकृतम् ॥ ६ ॥
सर्वेसर्वा माsन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाणं सभासदः ॥ ७ ॥ सर्वे० हे वीतराग ! सर्वे दोषाः सर्वात्मनाऽन्येषु हरादिषु सन्ति त्वयि पुनर्गुणाः सर्वे सर्वात्मना सन्तीयं स्तुतिस्तव चेद्यदि मिथ्याऽसत्या, स्यात् तत्तर्हि सभासदः सभ्याः प्रमाणं सत्यं स्यात्तदा त एव वदन्तु ॥ ७ ॥
महीयसामपि महान्महनीयो महात्मनाम् । अहो मे स्तुवतः खामी स्तुतेर्गोचरमागमः ॥ ८ ॥ अहो इत्याश्च ! स्तुवतो मे मम महत्तरेभ्योऽपि महानुभावः महात्मनामिन्द्रादीनां महनीयः पूज्यः स्वामी स्तुतेगोचरं विषयमागमः प्राप्तः ॥ ८ ॥
इत्येकादशप्रकाशस्यावचूरिः ॥ ११ ॥
भ्यासादः पूर्व तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म तत्सात्मीभावमागमत् ॥ १ ॥ प्रभोरियत्सम्पत्प्राभ्युपायं प्रकटयन्ति - पव० हे वीतराग ! त्वं प्राग्भवे वैराग्यं पटुभिः स्पष्टैः, अभ्यासादरैः सेवनासा| तत्यैस्तथा आहरः स्वात्मन्यानीतवान्, यथेह जन्मनि तीर्थङ्करभवे आजन्म जननावधि, तद्वैराग्यमात्मीभावं सहजभावमागमत् प्राप ॥ १ ॥
अवचू.
॥७९॥
ainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
दुःखहेतुषु वैराग्यं न तथा नाथ ! निस्तुषम् । मोक्षोपायप्रवीणस्य यथा ते सुखहेतुषु ॥२॥ दुःख० हे वीतराग! दुःखहेतुषु वियोगादिषु, वैराग्यं तव न तथा निस्तुषं निर्व्याज, मोक्ष० सम्यग्ज्ञानत्रयप्रवणस्य तव सुखहेतुषु यथा वैराग्यं विशदं वर्त्तते कोऽर्थः यदुःखहेतुषु वैराग्यं तत्कापरिचक्षणिकं यच्च सुखहेतुषु ख्यादिषु, तन्निश्चलत्वेन मोक्षसाधकम् ॥२॥
विवेकशाणैर्वैराग्यशस्त्रं शातं त्वया तथा । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ॥३॥ विवे० हे वीतराग ! त्वया विवेकशाणैर्वैराग्यरूपं शस्त्रं तथा शातं तीक्ष्णीकृतं, “शाणशब्दः पुल्लिङ्गेप्यस्ति शराण्यर्थे" | यथा मोक्षे महोदये पक्षेऽव्यापारेपि तदकु० अप्रतिहतसामर्थ्यमभूत् ॥३॥ ___यदा मरुन्नरेन्द्र श्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रति म विरक्तत्वं तदापि ते ॥४॥
यदा हे नाथ ! त्वया यदा सुरराज्यादिलक्ष्मीर्भुज्यते, नामेति कोमलामन्त्रणे, यत्र तत्र तव रतिः कोऽर्थः यत्र यथैव |स्थितस्तत्र तथैव रतिःसमाधिस्तदापि ते तव विरक्तत्वं साध्वियं श्रीरुपनतोपस्थितं कर्म ममेदं भोगं विना नक्षीयत इत्यादिप्रकारेण ॥४॥
नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥५॥ नित्यं० हे वीतराग ! त्वं नित्यं दीक्षाग्रहणात्प्रागपि कामेभ्यो विषयेभ्यो, विरक्तो यदा योग ज्ञानदर्शनचारित्ररूपं, प्रप| उसे गृह्णासि, तदा ते तव, प्राज्यं प्रभूतं, वैराग्यमस्त्येभिर्विषयैर्भुक्तभोग्यत्वादलं सृतमितिप्रकारेण ॥५॥
Jain Educati
o
n
For Private & Personel Use Only
Www.jainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
वीतराग.
॥८०॥
Jain Educate
सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नासि ! विरागवान् ॥ ६ ॥ सुखे सुखे दुःखे भवे मोक्षे यदा त्वमुदास्यं माध्यस्थ्यमीशिषे करोषि तदापि तव वैराग्यमेवास्तीतिहेतोस्त्वं कुत्र विरागवान्नास्यपि तु सर्वत्र ॥ ६ ॥
दुःखगर्भे मोहगर्भे वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं त्वय्ये कायनतां गतम् ॥ ७ ॥ दुःख० हे वीतराग ! दुःखगर्भे स्त्रीविरहादिभवे, मोहगर्भे कुशाग्रप्रणीताध्यात्मलव श्रवणाद्राज्य त्यागादिरूपे, वैराग्ये परे परतीर्थिका निष्ठिताः निलीनास्तु पुनर्ज्ञानगर्भं यथास्थित संसारस्वरूपावगमोद्भवं वैराग्यं त्वय्येकायनतामेकीभावं गतं प्राप्तम् ॥ ७ ॥
औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८ ॥ औदा० हे वीतराग! माध्यस्थ्येऽपि नित्यं निखिलजगदुपकर्त्रे तायिने पालकाय, परमात्मने परमब्रह्मरूपाय वैराग्यतत्पराय, तुभ्यं नमोऽस्तु ॥ ८ ॥
इति द्वादशवैराग्यस्तव प्रकाशस्यावचूरिः ॥ १२ ॥
अनाहूत सहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥ १ ॥ सर्वत्र स्वेच्छाप्रवृत्तिं दर्शयन्ति प्रभोः - अना० हे वीतराग ! त्वं मुक्तिपथि यातां जीवानामनाहूतसहायोऽनाकारित एव सखा त्वमका० स्वार्थी विना हितकरस्त्वमप्रार्थित एव साधुः परकार्यकरस्तथा सम्बन्धं स्वाजन्यं विना बान्धवोऽसि ॥ १ ॥
अवचू.
॥८०॥
Page #175
--------------------------------------------------------------------------
________________
निररररर-55
अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ अन० अनक्तस्निग्धमनसं ममत्वस्नेहेनादिग्धं स्निग्धं मनो यस्य तं मृजामुद्योतनं विनोज्वलो वाक्पथो वाक्सञ्चारो यस्य तमधौतमक्षालितमेवाऽमलं शीलमाचारो यस्य तं शरण्यं शरणाय हितं, त्वां शरणमहं श्रये गच्छामि ॥२॥ ___अचण्डवीरवृत्तिना शमिना शमवर्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥
(अक्रोधा या सुभटता तद्वता इन्द्रिय नोइन्द्रियविकारशमकेन शमप्रधानाचारपरायणेन, परीषहोपसर्गजयकारणनिर्ग्रन्थाचारचारिणा काममत्यन्तं, अपुनर्बन्धतया कुटिलाः वक्रतया कण्टकवघ्यथाभरविधायित्वात्कर्मकण्टका निरकाश्यन्त) ॥३॥
अभवाय महेशाय गदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद्भवते नमः ॥४॥ ___ अभ० हे वीतराग! भवते तुभ्यं, कस्मैचिदनिर्वाच्यस्वरूपाय नमोऽस्तु, यतः किंविशिष्टाय ? अभवाय महेशायातिसमृद्धाय, पक्षे रुद्रायागदाय निरोगाय, पक्षे गदानामशस्त्ररहिताय नरकच्छिदे पक्षे विष्णवे रजोगुणरहिताय ब्रह्मणे, पक्षे ज्ञानस्वरूपाय ॥४॥
अनुक्षितफलोग्रादनिपातगरीयसः। असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥५॥ अनु० हे वीतरागाऽसिक्तफलपरिपूर्णादनिपातेनाऽभ्रष्टतया, पक्षेऽपतनेन गरिष्ठादचिन्तितवाञ्छितप्रदकल्पद्रुमात्त्वत्तोहमैहिकामुष्मिकं फलमवाप्नुयां प्रामोमि ॥५॥
असङ्गस्य जनशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनकस्तेऽस्मि किङ्करः ॥६॥
Jain Educati
o
nal
For Private Personal use only
Jv.jainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
वीतराग.
॥८१॥
Jain Education
असं ० हे वीतराग ? निर्मोहस्य निखिलनरस्वामिनो निर्ममस्य दयावतो मध्यस्थस्योदासीनस्य विश्वरक्षितुस्तवानङ्को निष्कलङ्कः, पक्षे ललाटादौ त्रिशूलाद्यङ्करहितः किङ्करः सेवकोऽस्मि ॥ ६ ॥
अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्ने च त्वय्यात्मायं मयार्पितः ॥ ७ ॥ अगो० हे वीतरागाsभूमिनिहिते गुणरलनिधाने, कर्मवृत्तिरहिते कल्पतरौ, मोक्षफलप्रदत्वेन चिन्तातिगे चिन्तामणौ, त्वयि मयाऽयमात्माऽर्पितोऽत्र क्रमेण सप्तविभक्तिषु युष्मदो रूपाणि ज्ञातव्यानि ॥ ७ ॥
फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किङ्कर्तव्यजडे मयि ॥ ८ ॥
I
फला० हे वीतरागाऽहं फलानुध्यानवन्ध्यः ज्ञानादीनां फलं सिद्धत्वं, तस्यानुध्यानं यथावस्थिततया स्मरणं, तस्मिन्वन्ध्योऽसिक्तोऽस्मि, भवान् फलमात्रतनुः सिद्धत्वादतो मयि किंकर्त्तव्यजडे ? किं कर्त्तव्यं मयेति व्यामूढे सति कथं ध्येयो | देवः ? यतः कृत्यविधौ यन्मया विधेयं तस्मिन्विधौ प्रकारे प्रसीद कोऽर्थः ? तथा प्रसादं कुरु यथाऽहमपि त्वमिव कर्मजा - | लमुन्मूलयामीति भावोऽत्र सर्वत्र विरोधालङ्कारः ॥ ८ ॥
इति हेतुनिरासत्रयोदशप्रकाशस्यावचूरिः ॥ १३ ॥
मनोवचः कायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनः शल्यं वियोजितम् ॥ १ ॥ योगशुद्धिमभिदधते । मनो० हे वीतराग ! मनोवचः कायव्यापारान् कष्टाः कष्टकारिणः सावद्यान् सर्वथा संहृत्य
अवचू.
॥८१॥
jainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
Jain Education
त्यक्त्वा, श्लथत्वेनैव स्वभावेनैव मनःशल्यं मनोरूपशल्यं, वियोजितं सदप्यसदिव विहितं निरुपयोगित्वादन्योऽपि यः शरीरान्नाराचादि वियोजयति स चेष्टानिरोधेन श्लथाङ्गः स्यात् ॥ १ ॥
संयतानि नचाक्षाणि नैवोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृतः ॥ २ ॥ संय• हे वीतराग! त्वयाऽक्षाणीन्द्रियाणि न संयतानि बलान्नियन्त्रितानि बलाद्वध्यमानान्यदृष्टविषयस्वरूपत्वात्सकौतुकानि नियन्त्रणां न प्रतिपद्यन्ते न च त्वया तान्युच्छृङ्खलितानि लौल्येन प्रवर्त्तितानीत्यमुना प्रकारेण सम्यक् प्रतिपदा सव्यबुद्ध्या त्वयेन्द्रियजयः कृतोऽयं च सविशेषणकर्मणां चरम देहानामेव प्रकारः, शेषैस्तु सर्वबलेनापि यतनीय मिन्द्रियजये ॥२॥
योगस्याष्टाङ्गता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोप्येष तव सात्म्यमुपेयिवान् ॥ ३ ॥
योग० हे वीतराग ! योगस्याष्टाङ्गता यम १ नियम २ आसन ३ प्राणायाम ४ प्रत्याहार ५ धारणा ६ ध्यान ७ समाधि ८ लक्षणाऽन्यशास्त्रेषु निरूप्यमाणा । नूनमिवार्थे प्रपञ्च इव विस्तर इव प्रतिभासतेऽन्यथा कथमेष योगस्तव जन्मावधि सात्म्यं सहजतामुपेयिवानागतः कोऽर्थ आसनादिवाह्यविस्तरं विनैव तव परमज्ञानवैराग्यादिरूपो योगः सहज एव ॥ ३ ॥
विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि खामिन्निदमलौकिकम् ॥ ४ ॥ विष० हे वीतराग ! ते तव चिरमन्तकालं यावत्परिचितेष्वपि शब्दादिषु विरागोऽनासङ्गोऽस्ति योगे जन्मावध्यदृष्टेपि | सात्म्यं हे स्वामिन्! इदं पूर्वोक्तचरितमलौकिकं लोकाविषयम् ॥ ४ ॥
jainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
वीतराग.
॥८२॥
Jain Educatio
तथा परे न रज्यन्त उपकारपरे परे । यथाऽपकारिणि भवानहो सर्वमलौकिकम् ॥ ५ ॥ तथा० हे वीतराग ! परे परतीर्थिकोपकारकर्त्तरि सेवके न रज्यन्ते स्निह्यन्ति यथा कमठगोशालकादावपकारिण्युपसर्गकर्त्तरि भवान्रक्तः सन्मार्गप्रापणेनाहो इत्याश्चर्ये तव सर्व लोकाप्रसिद्धम् ॥ ५ ॥
हिंसका अपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ॥ ६ ॥ हिंस० हे वीतराग ! हिंसकाः चण्डकौशिकादय उपकृता सुगतिप्रापणेन त्वया आश्रिताः सर्वानुभूतिसुनक्षत्रादयोप्युपेक्षितास्त्वयैहिकापद्भ्यो न रक्षिता इदं चित्रमाश्चर्यकारि तव चरित्र के पर्यनुयुञ्जतां किमर्थमिदं स्वामी करोतीति प्रष्टुमप्युत्सहतां न केऽपीत्यर्थः ॥ ६ ॥
तथा समाधौ परमे त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति यथा न प्रतिपन्नवान् ॥ ७ ॥ तथा० हे वीतराग ! त्वया परमे समाधौ ध्याने, तथाऽऽत्मा विनिवेशितः स्थिरीकृतः, यथा न प्रतिपन्नवानितीति किमहं | सुख्यस्म्यथवा दुःखीति ॥ ७ ॥
ध्याता ध्येयं तथा ध्यानं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः ॥ ८ ॥ ध्याता० ध्याता क्षपकश्रेण्यारूढो, ध्येयं परमात्मस्वरूपं, ध्यानं ध्येयविषयोपगप्रत्ययसन्ततिः । हे वीतराग ! एतत्रयं तवैक्यं | प्राप्तं ध्याता त्वं केवलित्वेन शुक्लध्यानत्वात्, सिद्धा एव हि ध्येया अतो ध्येयोऽपि त्वं सिद्धरूपत्वात्, ध्यानं ज्ञानविशेष -
अवचू.
॥८२॥
w.jainelibrary.org
Page #179
--------------------------------------------------------------------------
________________
स्तन्मयत्वाद्ध्यानमपि त्वमितिभावः इति प्रकारेण तव योगमाहात्म्यं परैः परब्रह्म (त्त्व)सूक्ष्ममार्गाप्रविष्टहृदयैः कथं श्रद्धीयतां? मन्यतामिति ॥८॥
इति चतुर्दशयोगसिद्धिस्तवप्रकाशस्यावचूरिः॥ १४ ॥ जगजेत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्रयी ॥१॥ योगशुद्धहृदये प्रतिभासात् किं व्यनक्ति! जग हे त्रातः रक्षक, तव त्रैलोक्यजित्वरा अन्ये गुणा दूरे आसतां तिष्ठन्त्वनभिभवनीयसौम्ययैकया मुद्रयैवमुपतिष्ठन्त्यैव जगत्रयी जिग्येऽन्यत्कृता ॥१॥ __ मेरुस्तृणीकृतो मोहात्पयोधिोंष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोदितः ॥२॥
मेरु० हे वीतराग ! यैमूखैस्त्वं गरिष्ठेभ्य इन्द्रादिभ्यो गरीयानपोदितो नादृतः तैर्मेरुः स्वर्णाचलस्तृणीकृतस्तृणलेख्ये कृतो मोहादज्ञानात्समुद्रो गोष्पदवद् गणितः॥२॥ ___ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्ते शासनसर्वखमज्ञान त्मसात्कृतम् ॥३॥
च्युतः तेषामभाग्यशेखराणां कराचिन्तारत्नं पतितममृतमपि प्राप्तं निरर्थकं यैस्तव शासनमेव सर्व(स्वं)द्रव्यं नात्मसास्कृतमात्मायत्तं नाकारि ॥३॥
यस्त्वय्यपि धौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥
Jain Educat
For Private Personel Use Only
How.jainelibrary.org
Page #180
--------------------------------------------------------------------------
________________
वीतराग.
॥८३॥
Jain Education
यस्त्वय्य. हे वीतराग ! यो निर्भाग्यस्त्वयि निष्कारणनिखिलवत्सलेपि दृशं ज्वलदनलसदृशामीयरुणवक्रां दत्तवान् तं वह्निः साक्षात्प्रत्यक्षीभूय भस्मीकरोत्वितिवदन्पापभीरु स्तुतिकृदिदमालप्यालमालापेनाऽलं पर्याप्तमित्याह ॥ ४ ॥
त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हृतात्मनाम् ॥ ५ ॥ त्वच्छा० हे वीतराग ! तव शासनस्य ये दर्शनान्तरैः साम्यं मन्वते तेषामज्ञानोपहतानां हन्तेति खेदे पीयूषं हालाहलेन समानमेव ॥ ५ ॥
अनेडमूका यासुस्ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥ ६ ॥
अ० हे वीतराग! ते नरा अनेडमूका वाक्कर्णरहिता भवन्तु येषां त्वयि मत्सर ईष्या, यतः पापेषु परनिन्दादिषु | कर्मसु व्यापारेषु वैकल्यं वाक्कर्णरहितत्वं शुभोद०शुभः शोभनो य उदर्क आगामिकाले फलपाकस्तस्मै स्यात्कोऽर्थः वैकल्यात्वन्निन्दादि कर्तुमशक्तास्तथाविधदुर्गतिं नाप्नुवन्तीति ॥ ६ ॥
तेभ्यो नमोऽञ्जलिरयं तेषां तान्समुपास्महे । त्वच्छासनामृतरसैर्यैरात्मा सिच्यतान्वहम् ॥ ७ ॥ तेभ्यो हे वीतराग ! तेभ्यः पुण्यवद्भ्यो नमोऽस्तु तेषामयं प्रत्यक्षलक्ष्योऽञ्जलिः करयोजनं, तान्वयं सेवामहे, यैस्तव शासनामृतैरात्मा निरन्तरमासिच्यत सुस्थीकृतः ॥ ७ ॥
भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् ॥ ८ ॥
अवचू.
॥८३॥
Jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
Jain Education
Pro वीतराग ! तस्यै भूमये नमोऽस्तु यस्यां तव चरणनखकिरणानि चिरं चूडामणीयन्ते रक्तत्वादतः परमतोऽधिकं वयं किम्ब्रूमो ? भगवत्पाद स्पृष्टेर्भूमेर्नमस्कारादपरस्याधिकस्य भक्तिवचसोऽभावात् ॥ ८ ॥
जन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥ ९ ॥ जन्म० हे वीतरागाऽहम् ! सफलावतारोऽस्मि, धन्यः पुण्यवानस्मि, कृतार्थोऽस्मि, यद्यस्मान्मुहुर्वारंवारं तव गुणसमूहरूपे रामणीयके लम्पटस्तदेकव्यसनोऽस्मि ॥ ९ ॥
इति पञ्चदशभक्तिस्तवप्रकाशावचूरिः ॥ १५ ॥
त्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ! परमानन्दसम्पदम् ॥ १ ॥ अथ प्रभोः पुरो रावां करोति । त्वन्मता० हे नाथ ! तवागमपीयूषपानोद्भवा उपशमर सतरङ्गाः परमाहूलादलक्ष्मीं मां पराणयन्ति प्रापयन्ति इतः एकतः ॥ १ ॥
इतश्चानादिसंस्कार मूच्छितो मूर्च्छयत्यलम् । रागोरुगविषावेगो हताशः करवाणि किम्! ॥ २ ॥ इत० हे वीतरागेतः अपरतश्चानादि० अनन्तकालभवभ्रमणवासना सञ्चितो रागभुजगगरलोद्गारोऽलमत्यर्थं मूर्छयति सज्ज्ञानशून्यतां प्रापयत्यतः कारणादहं हताशः प्रतिहतमनोरथः, किं करवाणि किं कुर्वे ॥ २ ॥ युग्मम्
रागाहिगरला घातोऽकार्षं यत्कर्मवैशसम् । तद्वक्तुमप्यशक्तोऽस्मि धिग्मे प्रच्छन्नप्रापताम् ॥ ३ ॥
jainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
वीतराग.
॥८४॥
Jain Educatio
रागा० हे वीतराग! भुजङ्गविषाक्रान्तोऽहं यद्वैशसमसमञ्जसं कर्माकार्ष कृतवान् तत्तत्वाग्रे वक्तुमपि न शक्नोमि । अतो मे मम प्रच्छन्नप्रापतां प्रच्छन्नाऽकृत्यतां धिगस्तु ॥ ३ ॥
क्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयैवाहं कारितः कपिचापलम् ॥ ४ ॥ क्षणं० हे वीतराग ! क्षणं कदाचित्संसारसुखादावासक्तः, क्षणं मुक्तः सर्वत्र निर्लोभः, क्षणं क्रोधवान्क्षणमुपशमवानेवमहं रागादिभिः कौतुकेनैव मर्कटचापलं कारितः ॥ ४ ॥
प्राप्यापि तव सम्बोधिं मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः ॥ ५ ॥ प्रा० हे नाथ ! तब सम्बोधिं धर्मविधिं प्राप्यासाद्यापि मनोवचनकायव्यापारजातैर्दुराचारैर्मया शिरसि मस्तकेऽग्निरेव ज्वालितो दुर्गतिदुःखमुपार्जितमित्यर्थः ॥ ५ ॥
त्वय्यपित्रातरि त्रातर्यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे हियते हताशो हा हतोऽस्मि तत् ॥ ६॥ त्वय्य. हे त्रातस्त्वय्यपि त्रैलोक्यरक्षाक्षमे त्रायके सति यन्मम ज्ञानदर्शनचारित्रत्रयं मोहादिवैरिभिर्हियते मुध्यते तदहं | हेति खेदे हताशः प्राणाधिकरत्नत्रयहरणेन हतोऽस्मि व्यापादितोऽस्मि ॥ ६॥
भ्रान्तस्तीर्थानि दृष्टस्त्वं मयैकस्तेषु तारकः । तत्तवाङ्गौ विलग्नोऽस्मि नाथ ! तारय तारय ॥ ७ ॥ भ्रान्त० हे वीतरागाहं तीर्थानि लौकिकलोकोत्तराणि भ्रान्तो गतस्तेषु त्वमेव मया संसारतारणक्षमो ज्ञातस्ततस्तव | पादे विलग्नोऽस्मि । हे नाथातः कारणात्त्वं मां तारय तारय संसारसागरान्निस्तारय निस्तारयौत्सुक्यतो वीप्साऽत्र ॥ ७ ॥
tional
अवचू.
॥८४॥
w.jainelibrary.org
Page #183
--------------------------------------------------------------------------
________________
Jain Educat
94
भवत्प्रसादेनैवाहमियतीं प्रापितो भुवम् । औदासीन्येन नेदानीं तव युक्तमुपेक्षितुम् ॥ ८ ॥ भव० हेवीतराग! अहं त्वत्प्रसादेनैव तव प्रसत्तितयैवेयतीं त्वदुपास्तियोग्यां भुवं सुदृशां प्रापितो नीतस्तत इदानीमधुनौदासीन्येन माध्यस्थ्येनोपेक्षां कर्तुं तव नोचितं नोपेक्षणीयः सर्वथा ॥ ८ ॥
ज्ञाता तात त्वमेवैकस्त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥ ९॥ ज्ञाता० तात पितस्त्वमेवैकोऽद्वितीयः ज्ञातासि, सर्वोपायचतुरोऽसि, ज्ञात्रापि दयारहितेन किं स्यादित्याहुस्त्वत्तोऽन्यः कृपापरो नास्ति तेनापि किं यदि दयाविषये न स्यादिति पुनराहुः, नान्यो० अन्यो परो मत्तः कृपापात्रं करुणास्थानं नास्ति । एवं सति त्वं यत्कृपा यत्कृत्यं यद्विधेयं तत्र कर्मठस्तत्परः एधि भव ॥ ९ ॥
इति आत्मगर्हास्तवप्रकाशावचूरिः ॥ १६ ॥
स्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ त्वच्चरणौ यामि शरणं शरणोज्झितः ॥ १ ॥ अथ शरणप्रतिपत्तिमाहुः । स्वकृत० हे नाथाऽनन्तभवेष्वात्मना निष्पादितं दुरितं निन्दैस्त्वदनुष्ठानादि वाऽनुमोदयननुमन्वन् त्वदपरशरणरहितस्त्वत्पादौ शरणं यामि श्रयामि ॥ १ ॥
मनोवाक्कायजे पापे कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनः क्रिययान्वितम् ॥ २ ॥ मनो० हे वीतराग ! मनोवचनकायभवे पापे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे करणकारणानुमोदनैकगुणभूतैर्मे मम दुष्कृतं मिथ्याऽकृतमिव भूयाद्भवतु कथंभूतं मिथ्यादुष्कृतमन्वितं सहितं, कयाऽपुनः क्रिययाऽपुनःकरणेन ॥ २ ॥
inelibrary.org
Page #184
--------------------------------------------------------------------------
________________
वीतराग.
॥८५॥
SACARRASSAMAY
यत्कृतं सुकृतं किंचिद्रनत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं मार्गमात्रानुसार्यपि ॥ ३॥ यत्कृतं हे वीतराग! यद् ज्ञानादिविषयं किञ्चित्सुकृतं पुण्यं सदाचारो विहितस्तन्निखिलमहमनुमोदयामि मार्ग० त्वन्मतमात्रानुसार्येव नत्वन्यत् ॥३॥
सर्वेषामहदादीनां यो योऽहत्त्वादिको गुणः । अनुमोदयामि तं तं सर्व तेषां महात्मनाम् ॥४॥ सर्वे. हे वीतराग ! सर्वेषामहत्सिद्धाचार्योपाध्यायसाधुश्राद्धानां यो योऽहत्त्वसिद्धत्वाध्यापनादिको गुणोऽस्ति |तन्तमहमनुमन्ये सकलं तेषां महामहिम्नाम् ॥ ४॥
त्वां त्वत्फलभूतान सिद्धांस्त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः॥५॥ त्वां त्व. हे वीतराग! त्वां त्वत्फलभूतांस्त्वदनुष्ठानफलरूपान्मोक्षप्राप्तान सिद्धांस्त्वदाचारचतुरानृषीन त्वत्प्रवचनं चाहं भावतो हृदयशुद्धेः शरणं प्रतिपन्नोऽस्मि श्रितोऽस्मि ॥५॥
क्षमयामि सर्वान्सत्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु त्वदेकशरणस्य मे ॥६॥ क्षम० हे वीतराग! सर्वान् चतुरशीतिलक्षजीवयोनिगतान्जीवानहं क्षमयामि क्रोधोपशमेन निर्वापयामि, सर्वे ते मयि मद्विषये क्षाम्यन्तु क्रोधं त्यजन्तु तेषु निखिलेषु त्वदेकशरणस्य मम मैत्री हितबुद्धिरस्तु ॥६॥
एकोऽहं नास्ति मे कश्चिन्न चाहमपि कस्यचित् । त्वदशिरणस्थस्य मम दैन्यं न किश्चन ॥७॥
SHISISHASUSISAASAASAASAEX
॥८५॥
Jan Educatan
For Private
Personal Use Only
Jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
Jain Education
एको० हे वीतरागाहमेकाकी पितृभ्रातृपुत्रशिष्यादिषु निर्ममत्वान्मम नास्ति कश्चिदहमपि कस्यचित्कस्यापि सम्बन्धी नास्मि । एवं सति स्वसेवकस्य दैन्यं नावधार्यमित्याहुः त्वदं० तव चरणशरणस्थितस्य मम दैन्यं किश्चन नास्ति ॥ ७ ॥ यावन्नामोम पदवीं परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं मा मुञ्चः शरणंश्रिते ॥ ८ ॥ याव० हे वीतरागाऽहं त्वदनुभावजां त्वत्प्रसादसम्भवां परां प्रकृष्टां पदवीं मुक्तिलक्षणां यावन्नासादयामि तावत् शरणङ्गते मयि शरण्यत्वं शरणागतवत्सलतां मा मुचः मा त्यजः ॥ ८ ॥
इति सप्तदशप्रकाशस्यावचूरिः ॥ १७ ॥
न परं नाम मृदेव कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं खामिने स्वान्तशुद्धये ॥ १ ॥
प्रभुं शरणतया प्रपद्योपेक्षाविगतभयाः किंचित्कठोरं विज्ञपयन्ति । न प० हे वीतराग ! विशेषज्ञायैकान्तर्हितैषिणे स्वामिने नामेति कोमलामन्त्रणे परं केवलं मृद्वेव वादेन न विज्ञप्यं किन्तु किञ्चन कियत्कठोरं कठिनमपि स्वचित्तेऽज्ञानेन प्रतिभासमानं स्वान्तशुद्धये संशयापनोदाय ज्ञाप्यते तत्क्षणम् ॥ १ ॥
न पक्षिपशु सिंहादिवाहनासीनविग्रहः । न नेत्रगात्रवक्रादिविकारविकृताकृतिः ॥ २ ॥
अथ पञ्चभिः श्लोकैः सम्बन्धः । हे वीतराग ! पक्षिणो हंसगरुडादयः पशवोऽजवृषादयः सिंहा मृगेन्द्रास्तदादीनि यानि वाहनानि तेष्वासीनोऽधिरूपविग्रहः कायो यस्य स एवंविधस्त्वं नासि नयनवदनशरीराणां ये विकारा रागद्वेषनिष्पाद्यास्तैः विकृता विरुद्धावस्थां प्रापिता आकृतिः संस्थानं यस्य स एवंविधोऽपि त्वं नासि हरिहरादिवत् ॥ २ ॥
tional
IIIIIIII
w.jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________
वीतराग.
अवचू
॥८६॥
न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥ न शू० हे वीतराग! शूलधनुश्चक्रादीनि शस्त्राण्यङ्के उत्सङ्गे येषामीदृशौ करपल्लवौ यस्य स ईदृक्षो नासि । तथा सुभगरामाङ्गालिङ्गनपरोऽपि ॥ ३ ॥
न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः॥४॥ नग० हे वीतराग! गर्हणीयैर्निन्द्यैः स्वसुतारिरंसाऋषियोषिदुपलालनब्रह्मशिरश्छेदमातृवधप्रभृतिभिश्चरितैः प्रकम्पिताः करुणाकातरीभूता महाजना उत्तमा येन स तैस्तादृशः प्रकोपप्रसादादिभिर्विडम्बिता विगोपिता नरामरा येन स तादृशोऽपि नासि ॥४॥
न जगजननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥५॥ न ज० जगतो जननपालनविनाशनकृतोद्यमस्त्वं नासि । लास्यं नृतं हास्यं हसनं गीतं स्मरोद्दीपकाः शब्दरचनाविशेषास्तदादयो ये विप्लवा नटविटोचिता विलासास्तैरुपप्लुतोपहृता स्थितिर्मुद्रा यस्य स ईदृशोऽपि नासि ॥५॥
तदेवं सर्वदेवेभ्यस्सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः कथं नाम परीक्षकैः ॥६॥ तदे० हे वीतराग! तत्तस्मात्कारणाद्ब्रह्मा चतुर्वको हंसयानो जपमालाकरो गायत्रीसावित्रीश्लिष्टो रम्भादिदर्शनार्थकृत- पश्चमुखो जगजनकः १ विष्णुर्गरुडस्थश्चतुर्भुजश्चापचक्रादिकरो लक्ष्म्यादिलिङ्गितो रुक्मिणीहरो दैत्यघ्नो वृन्दावने । कृतस्त्रीरूपो जगत्पालकः २ हरो हास्यलास्यकरो वृषवाहनो ब्रह्मशिरश्छिदर्धाङ्गस्थभवानीकस्त्रिनेत्रो जगत्संहारकः ३
RECORRECCARRECACA
4
६॥
Jain Education
Donal
For Private Personal Use Only
Jainelibrary.org
Page #187
--------------------------------------------------------------------------
________________
Jain Education
| इत्येवं प्रकारेण सर्वलौकिकदेवेभ्यः सर्वधा शस्त्रादिप्रकारैर्विलक्षणो विसदृशस्त्वं देवत्वेन हृदि देवतया नामेति कोमला - मन्त्रणे परीक्षकैः प्रेक्षावद्भिः कथं केन लक्षणेन प्रतिष्ठाप्यः स्थाप्यः १ ॥ ६ ॥
अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतः श्रयद्वस्तु कया युक्तया प्रतीयताम् ? ॥ ७ ॥ एतदृष्टान्तमाह । अनु० हे वीतराग ! पर्णतृणकाष्ठादि वस्त्वनुश्रोतो जलप्रवाहप्रसरणाध्वना सरत्संचरन्युक्तिमद्युक्तं सर्वत्र तथा दृष्टत्वात्परं प्रतिश्रोतः प्रवाहसंमुखं श्रयच्चद्वस्तु पर्णादि कया युक्त्या केन प्रकारेण लोकैः प्रतीयतां प्रतिपद्यतां ! तथा क्वाप्यदृष्टत्वात् ॥ ७ ॥
अथवाऽलं मन्दबुद्धिपरीक्षक परीक्षणैः । ममापि कृतमेतेन वैयात्येन जगत्प्रभो ! ॥ ८ ॥
अथ हे वीतरागाथवाऽल्पमतयो ये परीक्षकास्तेषां परीक्षणैर्विचारणैरलं सृतं हे जगत्प्रभो ! ममाप्येतेन वैयात्येन त्वत्परीक्षाधार्थेन कृतं पर्याप्तम् ॥ ८ ॥
यदेव सर्वसंसारजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ ९ ॥ यदे ० हे वीतराग ! सर्वे संसारिणो ये जन्तवो जीवास्तेषां रूपं स्वरूपं तस्माद्विलक्षणं विसदृशं यदेव यत्किञ्चित्कृतधियो विद्वांसः परीक्षन्तां विचारयन्ति (न्तु) तदेव तव लक्षणं देवत्वाभिज्ञानमस्तु ॥ ९ ॥
क्रोध लोभ भयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथञ्चन ॥ १० ॥
jainelibrary.org
Page #188
--------------------------------------------------------------------------
________________
वीतराग.
अवच.
॥८७॥
क्रोध हे वीतरागेदं जगत्सुरासुरनररूपं क्रोधलोभभयोपप्लुतमस्ति तेनास्माज्जगतो विसदृशस्त्वं कथंचन केनापि| प्रकारेण मृदुधियां जिनशासनबहिर्मुखाणां न गोचरोऽसि परोक्षोऽसीत्यर्थः ॥१०॥
इत्यष्टादशप्रकाशस्यावचूरिः ॥ १८ ॥ तव चेतसि वर्तेऽहमितिवार्तापि दुर्लभा । मच्चित्ते वर्तसे चेत्त्वमलमन्येन केनचित् ॥१॥ कठोरं विज्ञप्यात्मनो (न) आज्ञां द्रढयन्ति। तव हे वीतराग!तव चेतसि चित्तेऽहं वर्ते वसामीति वार्तापि दुर्लभा अपरन्तु दूरे, तव केवलित्वेन चित्ताभावान्मम चित्ते यदि त्वं वर्त्तसे स्थिरीभवस्यन्येन केनचित्प्रसादप्रभुताप्रदानादिनाऽलं | सृतम् ॥१॥
निगृह्य कोपतः कश्चित् कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः॥२॥ निगृ० हे वीतराग! परैर्वञ्चनतत्परैहरिहरादिभिः कांश्चिदात्मप्रतिकूलान्भक्तान तुट्या प्रसादेनानुगृह्य संतोष्य मृदुधियो मुग्धचित्ताः प्रतार्यन्ते वश्यन्ते त्वत्पवित्रितचित्तान्मदीयादीन्विना ॥२॥
अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः॥३॥ - अप्र० रागद्वेषाभावेनाप्रसन्नाद्वीतरागात्कथं फलं मोक्षादि प्राप्यं! यतः सुप्रसन्न एव प्रभुः फलं दत्ते, प्रसत्तिश्च रागलक्षणं, हे वीतरागैतत्परेषां वचोऽसङ्गतमनुचितं । यतश्चिन्तामणिकामघटादयो विचेतना अपि विशेषचैतन्यरहितत्वेनाऽप्रसन्ना अपि विधिवदाराधिताः किं न फलन्ति अपितु फलन्त्येवैवं वीतरागोऽपि फलदः॥३॥
॥८७॥
Jain Education
a
l
A
dv.jainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
RECASS
CALOCALCARROR
वीतराग! सपर्यातस्तवाज्ञापालनं परम् । आज्ञाराडा विराडा च शिवाय च भवाय च ॥४॥ वीत. हे वीतराग! तव सपर्यातः सेवात आज्ञाराधनं परं प्रकृष्ट फलदं भावस्तवरूपत्वात् हेतुमाह-यतस्तवा वाराद्धाराधिता (शिवायापुनर्भवाय) भवाय संसाराय च स्यात् ॥४॥
आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः॥५॥ आका० हे वीतराग! ते तवाकालमासंसारमियमाज्ञा शिक्षास्ति कथंभूता? हेयो० हेयं त्याज्यमुपादेयं ग्राह्यं ते एव द्वे गोचरो विषयो यस्याः सा । तामेव दर्शयति-आश्रवः० आश्रवत्यात्मन्यनेन पापमित्याश्रवः कषायविषयप्रमादादि । स च हेयः संवरणं सावधव्यापारेभ्यो निवर्त्तनं संवरः सत्यशौचक्षमामार्दवादिरुपादेयः स्वीकार्यो विवेकिभिः॥५॥
आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमाहेतीमुष्टिरन्यदस्याः प्रपश्चनम् ॥६॥ आश्र० आश्रवः संसारकारणःस्यात्संवरो मुक्तिनिमित्तं स्यादितीयमाहत्यर्हत्संबन्धिनी मुष्टिः समस्तोपदेशसारसङ्घहरू|पा मूलग्रन्धिर्वर्त्तते । यच्चान्यदङ्गोपाङ्गादिरूपं दरीदृश्यते तदस्या भगवदाज्ञायाः प्रपश्चन विस्तारणमेव विज्ञेयम् ॥ ६॥
इत्याज्ञाराधनपरा अनन्ताः परिनिवृताः । निर्वान्ति चान्ये कचन निर्वास्यन्ति तथापरे ॥७॥ । इत्या० इति आश्रवः सर्वथा हेय इत्यादिरूपा या त्वदाज्ञा तदाराधनोद्यता अनन्ता जीवाः परिनिर्वृताः प्राक्काले मोक्षं गताः, अन्ये वचन महाविदेहादौ निर्वान्ति सम्प्रति मोक्षमाप्नुवन्ति तथाऽपरे जीवा निर्वास्यन्ति आगामिकाले मोक्षं यास्यन्ति ॥७॥
-CREA
CELORDCROCHRONE
C
Jain Education
For Private
Personel Use Only
ainelibrary.org
RE
Page #190
--------------------------------------------------------------------------
________________
अवच.
वीतराग.
हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया। सर्वथैव विमुच्यन्ते जन्मिनः कर्मपचरात् ॥८॥
हित्वा० हे वीतराग! प्रसादनायै प्रसन्नताविधये यदैन्यं चाटु तद् हित्वा त्यक्त्वा एकयैवैकाकिन्यैव त्वदाज्ञया जन्मि-4 ॥८८॥ नो जीवाः कर्मपञ्जरात्कर्मरूपकाष्ठपञ्जरात् सर्वथैव निःशेषतया विमुच्यन्ते मुक्ता भवन्तीत्यर्थः॥८॥
इत्येकोनविंशतितमाज्ञास्तवप्रकाशावचूरिः ॥ १९॥ पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥१॥ विविधैः प्रकारैः प्रभु प्रसाद्य मनोभिप्रेतं प्रार्थयन्ति । पाद० हे वीतराग ! पदासनलुठन्मस्तके मयि गङ्गाया घोष इति | वल्लक्षणया ललाटे तव पादरजश्चिरमासंसारं निवसतां स्थिरीभवतु रजः कथम्भूतं? पुण्यपरमाणुक० पुण्यस्य ये परमाणवः पुद्गलास्तषां ये कणास्तदुपमं तत्सदृशं कोऽर्थः येषां भक्त्या भूलग्ने शिरसि प्रभुपादाग्ररजो विश्रान्तं तैः पुण्यं प्राप्तमेव ॥१॥
__ महशौ त्वन्मुखासक्ते हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात्क्षालयतां मलम् ॥२॥ | मह० हे वीतराग!मम नयने त्वद्वदननिरीक्षके अप्रेक्ष्याणि प्रेक्षितुमयोग्यानि परस्त्रीकुदेवादीनि तेषां प्रेक्षणेन निभालनेन सुजातं मलं पापं हर्षाश्रुजलकल्लोलैः क्षणाक्षालयतामपनयताम् ॥२॥
त्वत्पुरो लुठनैर्भूयान्मालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किणावलिः ॥३॥ त्वत्पु० हे वीतराग! मम ललाटस्य तपस्विनः पूर्व त्वत्प्रणामवञ्चितत्वेन कृपास्पद (स्य) कृतोऽसेव्यानां प्रणामो येन स| तस्य तवाग्रे नमनैः किणावलिश्चिह्नपङ्किः प्रायश्चित्तनिष्पादनाहेतुर्भूयाद्भवतु ॥३॥
SACROGRAMCASTROGRAMMALS
Jain Educatie
For Private Personal Use Only
w.jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
मम त्वदर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः । नुदन्तां चिरकालोत्थामस दर्शनवासनाम् ॥ ४ ॥ म० हे वीतराग ! मम त्वदर्शनप्रमदोद्भवा रोमाञ्चकण्टका हर्षोत्कर्षेण चिरं स्थिरा इति गम्यं चिरं० अनन्तभवभ्रमणोपचितां कुशासनदुर्वासनां नुदन्तां व्यथोत्पादनेन निर्वासयतां, चिरोपचितो रोगश्चिरौषध सेवनेनैव विनश्यतीतिस्थितिः ॥४॥ त्वकान्तिज्योत्स्नासु निपीतासु सुधाखिव । मदीयैर्लोचनाम्भोजैः प्राप्यतां निर्निमेषता ॥ ५ ॥ त्वद्वऋ० हे वीतराग ! तव वदनेन्दोः कान्तिर्लवणिमा तस्य ज्योत्स्नासु स्पष्टतासु सुधास्विवामृतेष्विव निपीता वर्तमानकाले केति निपीयमानासु मत्सम्बन्धिभिर्नयननलिनैर्निर्निमेषता निष्पन्दता निश्चलता प्राप्यतामनुभूयतां योग्या ह्यमृतपायिनां निर्निमेषताऽमरत्वमित्येवं त्वलावण्यामृतपायिनोऽन्तरङ्गाया ज्ञानदृशः (अ) प्रतिपातित्वं भवत्वित्युक्तिलेशः॥५॥
त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥ ६ ॥ वदा० हे वीतराग ! मम नेत्रे त्वन्मुखविलोकन सुखलालसे भूयास्तां, पाणी त्वत्पूजापरौ, त्वद्गुणश्रवणपरायणौ कण भूयास्तामिति क्रिया सर्वदेति क्रियाविशेषणं ममेति सर्वत्र योज्यानि ॥ ६॥
कुण्ठापि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि स्वस्त्येतस्यै किमन्यया ॥ ७ ॥ Mar! भारती वाकुण्ठापि सर्वत्र स्खलन्त्यपि यदि त्वद्गुणवर्णनं प्रति सोत्कण्ठा स्पृहयालुरस्ति तचें तस्यै भारत्यै स्वस्ति कल्याणमस्तु । अन्यया त्वगुणपराङ्मुखया किं ? न किञ्चिदित्यर्थः ॥ ७ ॥
*
jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
वीतराग.
॥८९॥
CREARRORORSCANCINGC AUGARCAN
तव प्रेष्योऽलिम दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यख नाथ नातः परं ब्रुवे ॥८॥ तव० स्वामिना स्वार्थसिद्धये यत्र तत्र प्रेष्यत इति प्रष्योऽहं तव प्रेष्योऽस्मि, दासः क्रयक्रीतस्त्रिशूलाद्यऽङ्कितोस्मि, सेवकः सम्यक्स्वामिसेवायां निपुणोऽस्मि, तथा किङ्करः समादिशत किङ्करोमीति वचश्चतुरोऽस्मि। एते हि स्वपरिचर्यानु*सारेण फलमिच्छन्त्यतस्त्वमोमित्यक्षरमात्रमुदीर्य मदीयोऽयमिति मां प्रतिपद्यस्व स्वीकुरु, हे नाथाऽतस्त्वद्वचनादपरं धन-1 | स्वर्णादि न ब्रुवे न याचेऽनेकार्थत्वाद्धातूनामित्यर्थः ॥ ८॥
श्रीहेमचन्द्रप्रभवादीतरागस्तवादितः । कुमारपालभूपालः प्रामोतु फलमीप्सितम् ॥९॥ श्रीहे. अयं प्राग्व्याख्यात एवेति ॥९॥
विंशतितमाशी:प्रकाशावचूरिः समाप्ता ॥२०॥ चश्चच्चन्द्रकुलं सदोदिततपापक्षाख्यबिम्बोल्लसन्मार्तण्डोपमसोमसुन्दरगुरोः शिष्याग्रणीः सूरिराट् ॥ श्रीमानस्ति वि४|शालराजसुगुरुर्विद्यानदीसागरस्तत्पादप्रणतोऽस्म्यलंस्तुतिसखा जैनस्तुतेः पञ्जिकाम् ॥१॥ सह पञ्चविंशदक्षरसपादषट्शत-18| मिताजनिष्ट सुगमेयम् । वर्षे तिथिरविसङ्खये १५१२ शितिपक्षे तपति गुरुपुष्ये॥इति विंशतिप्रकाशानां पञ्जिका समाप्ता॥
P८९॥ ॥ समाप्तोऽयं ग्रन्थः॥
Jan Educat
For Private
Personel Use Only
w.jainelibrary.org
Page #193
--------------------------------------------------------------------------
________________
M. इदं पुस्तकं मुंबय्यां शाह नगीनभाइ घेलाभाई जव्हेरीबजार इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां
२३ तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् ।
Published by Shah Naginbhoy Ghelabhoy Javeri-Bazar No. 326,
Printed by B. R. Ghanekar, at the N. S. Press, 23, Kolbhat Lane, Bombay.
Jain Education
on
For Private Personal Use Only
jainelibrary.org
Page #194
--------------------------------------------------------------------------
________________ SVESVEINSSESSIESVS SESALSES __॥इति श्रीवीतरागस्तोत्रं समाप्तम् //