SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ AHAR O KARUCHARACHAR जग० हेवीतराग! वाऽथवा तव जगद्विलक्षणं जगतः सुरनरादेर्विसदृशं अन्यत्प्राकारत्रयच्छत्रचमरेन्द्रध्वजासङ्ख्यसुराखण्डलपादलुठनादिकं किं वक्तुं वदितुं ईश्महे समर्था भवामः! अपितु न भवामः यद्यस्मात्कारणात् हे प्रभो! तव मांसमप्यविसमकलुषमबीभत्समजुगुप्सनीयं, शुभ्रं गोदुग्धधारानुकार्यस्ति द्वितयेन द्वितीयः ॥६॥ जलस्थलसमुद्भूताः संत्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः॥७॥ जल० हे वीतराग? जलस्थलसमुद्भूता जलस्थलोद्भवाः सुमनःस्रजः कुसुममालाः संत्यज्य विमुच्य तव निःश्वाससौरभ्यं वदनामोदं मधुव्रता भ्रमरा अनुयान्ति अभिमुखीभवन्तीति तृतीयः॥७॥ | लोकोत्तरचमत्कारकरी तव भवस्थितिः। यतो नाहारनीहारौ गोचरश्चर्मचक्षुषाम् ॥ ८॥ __ लोका. हे वीतराग? तव भवस्थितिस्तीर्थकरजन्ममर्यादा लोको० लोकशब्देन लोकमध्यस्थिता हरिहरादिदेवा ज्ञायन्ते तेभ्य उत्तीर्णस्तैः कदाचिन्न कृत इति लोकोत्तरः सचासौ चमत्कारश्च तत्करणशीला। यतः कारणात्तवाहारनीहारौ भोजनोत्सर्गविधी, चर्मरूपाणि चक्षुषि येषां ते (तथा) तेषां मनुष्याणामित्यर्थः।न गोचरो न विषयो न दृश्यत इति तात्पर्यमाविष्टलिङ्गत्वादेकवचनं गोचर इति ॥८॥ इति द्वितीयप्रकाशावचूर्णिः ॥२॥ सर्वाभिमुख्यतो नाथ! तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः ॥१॥ कर्मक्षयजातिशयान्विशेषयन्त आहुः सर्वा० हे नाथ! तीर्थकृन्नामकर्मजात् नामकर्मण एकाशीतितमभेदात्तीर्थकर Jain Educat i onal For Private & Personel Use Only O w .jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy