SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥६६॥ Jain Education नामकर्मणो जातात् सर्वतः सर्वासु दिक्षु सम्मुखत्वात् परमार्हन्त्यपदवी सहचरितात् सर्वाभिमुख्यतातिशयात् सर्वथा सम्मुखीनः केवलालीकरोचिषापि सर्वतोमुखस्त्वं प्रजा नरामरादिकाः यदानन्दयसि प्रीणयसि तीर्थङ्करा हि सर्वतः सम्मुखा एव नतु पराङ्मुखाः क्वापि, यदिति वक्तुमुपक्रान्त एकादशश्लोकैः स एष सर्वोऽपि तवैव योगसाम्राज्यमहिमेति द्वादशमश्लोके सम्बन्धः ॥ १ ॥ यद्यजनप्रमाणेऽपि धर्मदेशनसद्मनि । संमान्ति कोटिशस्तिर्यग्नृदेवाः सपरिच्छदाः ॥ २ ॥ प्र० हे वीतराग? यद्योजनप्रमाणेऽपि चतुर्गच्यूतमात्रेऽपि धर्मदेशनसद्मनि समवसरणे तिर्यग्नृदेवाः तिर्यञ्चो गजादयः | नरा नरेन्द्रादयः सुराः सुरेन्द्रादयः सपरिच्छदाः सपरिवाराः कोटिशः बहुकोटिमिताः संमान्ति बाधारहितमुपविशन्ति॥२॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं यत्ते धर्मावबोधकृत् ॥ ३ ॥ तेषां हे वीतराग ? यत्ते तवैकरूपमप्येकश एकभाषया उक्तमपि वचनं तेषां त्रयाणां तिर्यग्नृदेवानामेव, स्वस्वभा० निजश्वाक् तथा श्रवणेन रम्यं धर्मावबोधकृत्पुण्यप्ररूपकं भवति ॥ ३ ॥ ग्रेप योजनशते पूर्वोत्पन्ना गदाम्बुदाः । यदञ्जसा विलीयन्ते त्वद्विहारानिलोम्मिभिः ॥ ४ ॥ सा० हे वीतराग ? यत्तव विहारानिलोर्मिभिः पादावधारणसमीरणकल्लोलैरयं चतुर्थभागः साग्रेपि सपञ्चविंशतियोजनशतेऽपि पूर्वोत्पन्नाः प्राग्जीवाः उपलक्षणादग्रे षण्मासान् यावदुत्पित्सवोऽपि गदाम्बुदा रोगमेघा अञ्जसा वेगेन सामस्त्येन वा विलीयन्ते क्षयं यान्ति ॥ ४ ॥ For Private & Personal Use Only अवचू. ॥६६॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy