________________
RECEMAD
SGARCASRASAIRICIC
नाविर्भवन्ति यद्भूमौ मूषकाः शलभाः शुकाः।क्षणेन क्षितिपक्षिप्ता अनीतय इवेतयः ॥५॥ नावि० हे वीतराग! यद् त्वयि विहरति मूषकाः शलभाः शुकास्तिस्र ईतयो भूमौ भुवि नाविर्भवन्ति न प्रकटीभवन्ति, इव यथाऽनीतयोऽन्यायाः क्षितिपक्षिप्ता राज्ञा निरस्ताः क्षणेन वेगेन दूरीभवन्ति ॥५॥
स्त्रीक्षेत्रपद्रादिभवो यद्वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले ॥६॥ स्त्रीक्षे० हे वीतराग? यत् स्त्रीक्षेत्रपद्रादिभवो वैराग्निर्वैरदहनो भुवस्तले प्रशाम्यति इवोत्प्रेक्षायां । त्वत्कृपा० तव कृपारूपपुष्करावर्त्तः सर्वोत्कृष्टो मेघविशेषस्तद्वर्षाद्वष्टेरिव ॥६॥
त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेडिण्डिमे । सम्भवन्ति न यन्नाथ मारयो भुवनारयः॥७॥ त्वत्प्र० हे नाथ? यत्त्वत्प्रभावेऽचिन्तितमाहात्म्ये भुवि भ्राम्यति प्रसरति सति भुवनारयोऽनिष्टत्वेन जगद्वैरिरूपा मारयो दुष्टव्यन्तरशाकिन्यादिजनिता न सम्भवन्ति नोत्पद्यन्ते। यतस्त्वत्प्रभाव किंविशिष्टे? अशि० अशिवानामुपद्रवाणामुच्छेदो विनाशनं तत्र डिण्डिमे पटहसदृशेऽन्योपि यश्चौरादिरुच्छेद्यते स पटहवादनेन सकललोकसमक्षं, विशेषणरूपो हेतुः॥७॥
कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा भवेद्यन्नोपतापकृत् ॥८॥ सूचिकटाहनयेन वैरमारिद्वयं सुखसाध्यत्वादल्पदेशस्थितत्वाच्च प्रथमं निरस्य शेषमीतिचतुष्टयक्षयमाहुः-का० हे वीतराग? त्वयि विश्वै० निष्कारणकरुणापरे लोकानां काम मनोभीष्टदायिनि विजयिन्यतिवृष्टिवृष्टेराधिक्यमवृष्टिरवहर्षणं वोपतापकृत् सन्तापकारी यन्न भवेत् ॥८॥
AMROGREATEOCOM
JanE-१२ ।
For Private Personel Use Only
w
.jainelibrary.org