SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥१०॥ Jain Education ध्यंतीति क्रियासमभिहार इत्युक्तं । अतस्त्वं स्वामिंस्तीत्रशुभाध्यवसायसहचरितस्तथाकर्मक्षयोपाये सम्यग्ज्ञानाद्यासेवने प्रवृत्तिमकृथाः यथाऽक्षेपेणैव परां सर्वोत्कृष्टामनुत्तरसुरादिभिरपि प्रार्थनीयां श्रियं परमार्हत्यलक्षणामशिश्रियः प्राप्तवान् । किं कुर्वन् उपेयस्यानिच्छन्नपि सम्यग्ज्ञानाद्यासेवनं ह्युपायः परमपदलाभस्तूपेयः । अतस्त्वं समे मोक्खे भवे तहा इत्यादि - श्रुतेरुपेयं परमपदमनिच्छन्नप्यप्रार्थयन्नपि कृतकृत्योऽभूरित्यहो तव फलोदयव्यवसायिता ॥ कर्मक्षयात्कृतकृत्यं परमात्मानं स्तुतिकृत्परिणिनंसुराह ॥ मैत्रीपवित्र पात्राय मुदितामोदशालिने ॥ कृपोपेक्षाप्रतीक्षाय तुभ्यं योगात्मने नमः ॥ १५ ॥ हे भगवंस्तुभ्यमेवंविधाय नमोस्तु त्रिकरणशुद्ध्या त्वां प्रणतोऽस्मि । किंविशिष्टाय मैत्रीपवित्रपात्राय पापानि कोपि मा कार्षाद्दुःखितः कोऽपि माभूत् जगदपि दुष्कर्मभ्यो मुच्यतां एवंविधा मतिमैत्री तस्याः पवित्रपात्राय पुण्याश्रयाय । तथा मुदितामोदशालिने निरस्तसमस्तदोषाणां वस्तुतत्त्वावलोकतत्पराणां च गुणेषु यः प्रमोदः सा मुदिता तयाऽ । मोदशालिने सदानंदोपनिषण्णाय । तथा कृपोपेक्षाप्रतीक्षाय दीनार्त्तभीतादिप्राणिगणप्रतीकारानुचिंतनं कृपा नास्तिकनिस्त्रिंशादिनिर्गुणजनमाध्यस्थ्यमुपेक्षा ताभ्यां कृपोपेक्षाभ्यां प्रतीक्षाय जगत्पूज्याय तुभ्यं नमः । कुतः पुनरयं मैत्र्यादियोगप्रकारः प्रभोरभूदित्याह । योगात्मने सिद्धाद्भुतयोगसंपदे । एवंविधाय तुभ्यं त्वत्स्वरूपप्राप्तिनिमित्तमहं प्रणतोऽस्मीति । इति वीतरागस्तोत्रे तृतीयस्य कर्मक्षयजातिशयवर्णनस्तवस्य पदयोजना ॥ For Private & Personal Use Only सविवर. ॥१०॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy