SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ AR हे निरुपमशक्तिसंपन्न स्वामिस्त्वत्तस्त्वद्विधात्त्वदनुगृहीताद्वा अन्यो व्यतिरिक्तः कर्मणां ज्ञानावरणादीनां कक्ष मूलोत्तरप्रकृतिजालगहनं क इव मूलादुन्मूलयति । किंविशिष्टं अनंतकालप्रचितं अनंतैः पुद्गलपरावतैरुपचयं नीतं अत एवानंतमपरिमितं कथं सर्वथा सर्वात्मनाऽपुनरुद्भवाय। एवंविधं कर्मकक्षं त्वमिवोदितोन्मूलनोपायः कः समूलोन्मूलयितुमलंभूष्णु-| न कोऽपीति भावः॥ अथ कथमेवमतिमात्रप्रचितस्य भगवता समूलोन्मूलनमकारीत्युपदर्शयन्नाह ॥ तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः ॥ यथानिच्छन्नुपेयस्य परां श्रियमशिश्रियः ॥१४॥ हेसकलसदुपायनिलय भगवस्त्वं तथा तेन लोकोत्तरप्रकारेण कर्मणां क्षयोपाये सम्यक्ज्ञानदर्शनचारित्रासेवनलक्षणे प्रवृत्तः प्रवृत्तिमकापर्यथा परां श्रियमशिश्रियः । कथं प्रवृत्त इत्याह । क्रियासमभिहारतः पौनःपुन्येन नैरंतर्येण । गृहीतमु-17 क्ता हि ज्ञानादयो न खलु स्वसाध्यसाधनायालं, ननु यदि सम्यग्ज्ञानादय एव कर्मक्षयावंध्यसाधनं तत्किं सकृन्निषेविता एव न स्वकार्य कुर्युः येन क्रियासमभिहार इत्युक्तं, उच्यते परिणामप्रकर्षाधीना हि ज्ञानादीनां कर्मक्षयहेतुता, परिणाम|श्च मंदमध्यतीव्रभेदात्रिधा, अतस्तदनुमानेन तदाराधकानां साध्यसिद्धिः। यदवाचि वाचकमुख्येन । “ आराधनास्तु तेषां तिस्रश्च जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिध्यत्याराधकास्तासां” तेषां ज्ञानादीनां मंदमध्यतीव्रपरिणामवशाजघन्यमध्यमोत्कृष्टास्तिस्रः किलाराधनाः अतस्तदाराधका यथाक्रममष्टव्येकैर्जन्मभिः सिध्यंति। एतदुक्तं भवति । मंदपरिणामेन ज्ञानाराधका अष्टभिर्जन्मभिः सिध्यंति, मध्यपरिणामेन जन्मभिस्त्रिभिस्तीव्रपरिणामेनैकेन तेनैव भवेन सि R ECASSESCREARRIGANGANGANAGARC Jain Education a II l For Private Personal Use Only MONy.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy