SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर. मयूखमालामिनोऽपि योगसमजयति हेसकलातिशायिमुनिजनमूर्धन्य यत्तव मूर्ध्नः पश्चिमे भागे उत्तमांगमनु महसां पटलमुन्मीलति । किंविशिष्टं जितमातडमंडलं निजतेजस्तृणीकृतसूर्यांशुमंडलं। भामंडलं च भुवनभर्तु_तिकर्मक्षयसहचरितमपि स्तुतिकृदुत्प्रेक्षते। किल परिमितमयूखमालिनोऽप्यंशुमालिनो मंडलं यथा दुरालोकं दुर्दर्श तथा अनंतविमलकेवलालोकनिलयस्य सकललोकलोचनस्पृहणीयस्य स्वामिनोऽपि वपुरचक्षुष्यं मा भूदिति सुरासुरादिभिरिदं मूर्धानमनु देहस्यैव महोमंडलमुत्पिडितमेकत्र पिंडीकृत्यावस्थापितमित्यहो तव योगसमृद्धेरतिशयः । एवमतिशयानभिधाय प्रकृते योजयति ॥ स एष योगसाम्राज्यमहिमा विश्वविश्रुतः ॥ कर्मक्षयोत्थो भगवान् कस्य नाश्चर्यकारणं ॥१२॥ हेभगवन् स एष पूर्वोपवर्णितस्तव योगसाम्राज्यमहिमा योगो ज्ञानदर्शनचारित्ररूपरत्नत्रयसमवायः स एव त्रिभुवनसनातनसंपदुत्पादकत्वेन साम्राज्यमिव तस्य महिमा स्फूजितं कस्य नाम विचारचातुरीधुरीणस्य प्रेक्षापूर्वकारिणो नाश्चर्यकारणमलौकिकविस्मयहेतुः । नचायं स्वगृहकोणमात्रप्रवृत्त एव किंतु विश्वविश्रुतश्चराचरेऽपि जगति विख्यातः । कुतः पुनरस्याप्रमेयस्य योगमहिम्नः समुत्थानमित्याह । कर्मणां घातिकर्मणां क्षयेनात्यंताभावेनोत्थानं यस्य स तथा न पुनः परपरिगृहीतस्य सदाशिवादेरिव महिम्नस्तस्याप्रमाणिकत्वादिति ॥ न चायमीपत्करः क्षयः कर्मणामित्युपदर्शयन्नाह । अनंतकालप्रचितमनंतमपि सर्वथा ॥ त्वत्तो नान्यः कर्मकक्षमुन्मूलयति मूलतः ॥ १३ ॥ For Private Personal use only Dirjainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy