SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Jain Education | शादयो द्रुतमविलंबितं विद्रवंति त्रस्यति । कुतः पुनस्तेषामुद्भव इत्याह । स्वराष्ट्रपरराष्ट्रेभ्यः स्वं च तद्राष्ट्रं च स्वराष्ट्रं | तस्मादितरत्परराष्ट्रं तेभ्यः अयुक्तलोभसंज्ञेभ्यो भुवि लुप्तमर्यादेभ्यः स्वदेशाधिपतिभ्यो बलाहंकृतिचलितेभ्यः प्रतिबलभूपेभ्य श्वपदे पदे सुलभा एव क्षुद्रोपद्रवाः प्राणिनां । ते च त्वत्प्रभावात्तवाचिंत्यमहिम्नो माहात्म्यात्सत्वरं विलीयंते । अत्रोपमामा| ह । सिंहनादादिव द्विपाः समदमदकलाः सिंहनादाद्विनिंद्रपारींद्ररुद्धगुंजितात्क्षणाद्दिशोदिशतामुपयति तद्वदिति । नचैतदपि त्वद्योगसमृद्धेरपरस्य व्यवसितमिति ॥ अन्यच्च ॥ यत्क्षीयते च दुर्भिक्षं क्षितौ विहरति त्वयि ॥ सर्वाद्भुतप्रभावाढ्ये जंगमे कल्पपादपे ॥ १० ॥ हेजगत्प्रतीक्ष्य क्षितौ क्षोणिमंडले गव्यूतिशतद्वयांतर्यदशेष दुर्गतगणग्रसनराक्षसं दुर्लभा भिक्षाप्यत्रेति व्युत्पत्त्या श्विताभिक्षं दुर्भिक्षं क्षीयते सकलपरगृहपिंडाददुष्कृतैः सह क्षयमुपयाति । क्व सति त्वयि विहरति विहारयोगाज्जगतीतलमलंकुर्वाणे । किंविशिष्ठे कल्पपादपे सुरभूरुहि । यद्येवं कथं तस्य विहारसंभव इत्याह । जंगमे गतागतकृति । पुनः किंविशिष्ठे सर्वाद्भुतप्र भावाढ्ये सर्वेभ्योऽद्भुतः सचासौ प्रभावश्च तेनाढ्ये अदरिद्रे । एतदुक्तं भवति । किल स्थावरोऽपि किल विटपी तथाविध| देवतादिसंनिधानादर्थितसार्थमनोरथप्रथनेन प्रभावाढ्यो भवति । भगवतस्तु सकलैहिकामुष्किसुखलक्षसंघट्टन जंगमकल्पविटपिनः स्थाने सर्वाद्भुतप्रभावाढ्यत्वं । समुचितश्च कल्पपादपप्रचारपुरस्कृतायां भुवि दुर्भिक्षक्षय इत्यहो त्वद्योगोपनिषल्लीलायितं ॥ अपरं च ॥ यन्मूः पश्चिमे भागे जितमार्तंडमंडलं ॥ मा भूद्रपुर्दुरालोकमितीवोत्पिंडितं महः ॥ ११ ॥ For Private & Personal Use Only Jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy