SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Jain Education एवं कर्मक्षयजातिशयानभिधाय सुरकृतातिशयांश्चतुर्थप्रकाशे प्रस्तावयन्नाह ॥ मिथ्यादृशां युगांतार्कः सुदृशाममृतांजनं ॥ तिलकं तीर्थकुलक्ष्म्याः पुरश्चकं तवैधते ॥ १ ॥ धर्मचक्रंस्तव धर्मदेशनसदनोपासीनस्य भव्यलोकानुग्रहाय महीं विहरतः पुरः पुरोभागे गगनगतं विचित्रारकराजि - | विराजितं प्रसृमरोल्बणतेजःपटलजटलितांतरिक्ष कुक्षिकुहरं प्रतिहतसमस्तविक्रांतपरमतचक्रं धर्मचक्रमेधते । किंविशिष्टं विभिन्नलिंगनिर्देशान्मिथ्यादृशां युगांतार्कः मिथ्या तर्कार्थदर्शनं प्रति विपरीता इग् विचारो येषां ते मिथ्यादृशः प्रथमगुणस्थानस्थास्तेषामत्यंत दुरालोकत्वेन युगांतार्कः प्रलयकालकरालमार्त्तडमंडलप्रतिमः । तथा सुदृशाममृतांजनं शोभना तत्त्वार्थदर्शिनी इग्येषां ते सुदृशस्तेषां श्रद्धानचक्षुः सविशेष निर्मलीकरणेनामृतांजनं सुधांजनमित्र । तथा तिलकं तीर्थकुलक्ष्म्याः तीर्थ चतुर्वर्णः संघस्तत्कुर्वतीति तीर्थकृतस्तेषां लक्ष्मीः परमार्हत्यसंपत्तस्याः सद्वृत्तत्त्वादिकलितत्वेन तिलकं भालभूपणमिव । एवं धर्मचक्रादयो वक्ष्यमाणातिशयास्तीर्थकृतां न सहभुवो नापि कर्मक्षयजाः किंतु तत्प्रभावप्रेरितैस्त्रिदशैरेव विधीयंत इति ॥ तथा ॥ एकोऽयमेव जगति स्वामीत्याख्यातुमुच्छ्रिता ॥ उच्चैरिंद्रध्वजव्याजात्तर्जनी जंभविद्विषा ॥ २ ॥ किल भगवतामर्हतां विहारादौ सदैव योजनसहस्रोच्छ्रितः कांत कार्त्तस्वरदंडाधारः सुरपथावतरदमरतरंगिणीप्रवाहपेशलः परिसरस्फुरदनेकदिव्यांशुकपताकापरिकरिताक्वणन्मणिकिंकिणीगणारवमुखरिताशेषहरिन्मुखः सुरासुरैः पुरः संचार्यमाणो महेंद्रध्वजः प्रसर्पति । तमेव स्तुतिकृदुत्प्रेक्षते किल नायमिंद्रध्वजः किं त्वस्य व्याजादियं जंभारिणा तर्जनी समुच्छ्रिता । For Private & Personal Use Only ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy