SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सविवर. वीतराग. |किमर्थ आख्यातुंकथयितुं । किं तदित्याह यदुतास्मिन् जगत्ययं प्रणयप्रणमदमरनरप्राग्रहरशिरःकिरीटप्रतीष्ठशासनो भगवा दानहन्नेव स्वामी नान्यः।कथमुच्छ्रिता उच्चैर्जगतोऽपि समक्षं भगवतस्त्वद्वितीयत्वेन एवमुत्प्रेक्षाऽपि स्वभावोक्तिरेवेति ॥ अन्यच्च॥ ॥११॥ यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः॥ किरंति पंकजव्याजाच्छ्रियं पंकजवासिनीं ॥३॥ तीर्थकृतो हि किल केवलोत्पत्तेश्चलनाभ्यामिलातलं न स्पृशति । केवलभमरगणोपतृप्तेषु नवसु कनककमलेषु क्रम न्यासं विदधति । इदमेव स्तुतिकृद्भग्यंतरेणाह ॥ हे भगवन् यत्र यस्मिन् प्रदेशे तव पादौ चरणौ पदमवस्थानं धत्तः कुरुतः तत्र सुरासुरा देवदानवाः श्रियं विकिरति विक्षिपंति । कामित्याह पंकजवासिनी नलिननिलयां । कस्मात्पंकजव्याजात् चामीकरारविंदव्यपदेशात् । भवति च त्रिभुवनलक्ष्मीनिवासस्य भगवतश्चरणन्यासादवनेः सश्रीकतेति ॥ अपरं च ॥ दानशीलतपोभावभेदाद्धमं चतुर्विधं ॥ मन्ये युगपदाख्यातुं चतुर्वक्रोऽभवद्भवान् ॥४॥ भुवनबांधवे हि धर्मोपदेशनिमित्ततः समवसरणममरकल्पितमलंकृत्य मृगेंद्रासनमुपविष्टे प्राङ्मुखे दक्षिणापरोत्तरासु तिसृष्वपि दिक्षु तथास्थितेरेव विरचयंति व्यंतरसुराः स्वामिप्रतिच्छंदानि । इदमेव स्तुतिकृदुत्प्रेक्षते हे भुवनस्वामिन्नहमेवं ६ मन्ये यद्भवानेतदर्थ चतुर्वक्रोऽभवत् । किमर्थमित्याह आख्यातुं कथयितुं किं तद्धर्म प्रथमपुरुषार्थ । किंविशिष्टं चतुविधं चतुःप्रकारं । चातुर्विध्यमेवाह । दानशीलतपोभावनारूपं । नन्वेकरूपोपि भगवांश्चतुर्विधमपि धर्म पर्यायेण प्ररूपय ति किं चतुर्मुखत्वेनेत्याह । युगपत्समकालं एतच्चतुर्वक्रत्वमंतरेण नोपपद्यत इति ॥ सांप्रतं भगवतः परमार्हत्यप्रभावप्रेपरितैः सुरासुरैः या प्राकारत्रयरचना भत्तया विधीयते तस्या एव स्तुतिकृत् कारणांतरमुद्भावयन्नाह ॥ HEREMIERECTALSOCISM SCORRECECARELCREALMORACK ॥११॥ Jan Education For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy