SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ SEASOS SORRISO ROSSA न वाक्कायमनसामगोचरत्वेनाचिन्त्यस्तस्मिन् एवंविधे, त्वयि विश्वजनीने, मया आत्मा सर्वात्मना समर्पितस्त्व-181 दायत्तः कृत इति ॥ एवमात्मानं स्वामिनः स्वाधीनं विधाय किञ्चिदुचितं प्रार्थयन्नाह फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किंकर्त्तव्यजडे मयि ॥ ८॥ हे जगच्छरण्य? त्वं मयि प्रसीद, किंविशिष्टस्त्वं? फलमात्रतनुः फलमात्रा तनुर्यस्य स तथा, किल सङ्गत्यागदुस्तपतपोवि-| धानकर्मनिर्मूलनकेवलोत्पादतीर्थप्रवर्तनादीनां सिद्धत्वमेव फलं, साम्प्रतं च त्वं फलमात्रतनुः केवलज्ञानदर्शनानन्दवीर्या त्मा, अहं तु फलरूपस्य तवानुध्यानवन्ध्यो विफलप्रयत्नः ‘अनुध्यानं दृष्टश्रुतानुभूतस्यैव वस्तुनो भवति' त्वं तु निरद जनपदस्थः परमात्मखरूपः सर्वथैवाविषयो दर्शनादीनां, अतः किङ्कर्त्तव्यतायां जडे अप्राप्तोपाये, मयि कृत्यविधौ यन्मया | विधेयं तस्मिन्विधौ प्रकारे प्रसीद । किमुक्तं भवति ? 'अहं तावदवधीरितापरविधेयस्त्वदनुध्यान एव निलीनमानसस्त्वं तु फलमात्रतनुः, फलं च सिद्धत्वं, तच्च मनोनुध्यानस्यागोचरं, अतस्तथा मयि प्रसीद यथा फलमात्रतर्नु त्वामहमालोकयामि, तच्च केवलिन एव सुलभ, केवलं च कर्मक्षयायत्तं, तस्मात्तथा सानुग्रहो भव यथा सकलकर्मजालमहमपित्वमिव लीलयोन्मूलयामीति भावः॥ इति वीतरागस्तोत्रे त्रयोदशस्य हेतुनिरासस्तवस्य पदयोजना ॥ १३ ॥ Jain Education N iral For Private Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy