SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ OCROSHDOCTOREOGRESUCCESS कल्पनाप्रसङ्गात् । एवं च सति परलोकोऽपि प्रत्युक्त एवावगन्तव्यः । परलोकयायिनोऽभावे परलोकस्यानुपपन्नत्वात् । सति हि धर्मिणि धर्माश्चिन्त्यमानाः समीचीनतामुपचिन्वन्ति । किंच ॥ परलोकयायिजीवसुखदुःखनिबन्धनौ धर्माधर्माव-18 प्याकाशकुशेशयनीकाशौ । तथा तत्फलभोगभूमिप्रतिमस्वर्गनरकादिकल्पनमप्यलीकसङ्कल्पविलसितम् । विना हि धर्माधौं कुतस्तत्फलभोगभूमिसंभवः। तथैव तवैकान्तिकपुण्यपापक्षयोत्थमोक्षपक्षपातिताशा विगलितदृशश्चित्रशालोपवर्णनमिव कस्य नाम न हास्याय स्यादिति यत्किञ्चिदेतत् । अत्र प्रतिविधीयते। योऽयमतिप्रमाणप्रवीणेन भवतात्मनिरासाय प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वादिति हेतुरुपन्यस्तः स एव तावदसिद्धः । जीवस्य संवेदनप्रत्यक्षविषयत्वात् तथाहि-सुख्यह दुःख्यहमित्यादिस्व संबद्धस्वसंवेदनप्रत्यक्षेणावगम्यते जीवः । सर्वकालं निर्वाधत्वेन च नायं प्रत्ययो भ्रान्तः । चैतन्यान्वितदेहलक्षणपुरुषगोचरत्वेपि गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययः सङ्गच्छतेऽतः कृतं कायातिरिक्तात्मकल्पनाक्लेशेनेति चेन्न भूतानां स्वसंवेदनगोचरत्वे बहिर्मुखैव स्वसंवित्तिर्भवेत् , यथा पटोऽयमिति वहिर्मुखः प्रत्ययः, तथा सुख्यहमित्यादिरपि यदि शरीरगोचरोऽयं भवेत्ततोऽयं सुखीत्येवं बहिर्मुखः स्यादन्तर्मुखश्चायमनुभूयते । नहि कोप्यहं सुखीत्यादिप्रत्ययं देहे| विधत्ते किन्तु देहातिरिक्त कस्मिंश्चिदित्यतः प्रतीयते सुख्यहमित्याद्यन्तर्मुखप्रत्ययो जीवगोचर एव न भूतगोचरो बहिर्मुखत्वेनानवभासात् । यच्चोक्तं वपूरूपपरिणतानि महद्भूतानि चैतन्यमुद्बोधयन्तीत्यादि । तदप्यविकलविकलताविल|सितं। यतो यदि हि महाभूतेभ्य एव चैतन्यमुन्मीलतीत्याद्यसङ्कतिसङ्गतमपि स्वेच्छाचलनाद्यन्यथानुपपत्तिप्रतिहतेन भवता १ मञ्चति । in Educat i onal For Private & Personal Use Only L aw.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy