SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ वीतराग सविवर ॥३२॥ SSIRSAKSSSCROSSACROSAXS8 कल्पनीयम्, तदा चैतन्यमेव जन्मान्तरादुत्पत्तिस्थानमागतं चतुर्भूतभ्रमाध्यायिदेहमुत्पादयेद्भूयो भवान्तरागामुकं सत्तत्यजेत् , तेन चाधिष्ठितं स्वेच्छाविहारादिक्रियां कुर्यात्तद्विनिर्मुक्तं भूयो दारुवदासीतेत्यात्मजन्यमेव वपुर्न पुनरात्मा भूतसमुदयसंयोगजन्यदेहजन्य इत्यकाल्पनिकमेवादरीतुमुदारतरं विभावयामः । सचेतनस्यात्मनः कर्मावष्टब्धतयान्यान्यभवभ्रमान्यान्यदेहसंपादनयोर्घटनाघटितत्वात् । अथेत्थमभिदधीथाः । जन्मान्तरादुत्पत्तिप्रदेशमागच्छन्नात्मा न प्रत्यक्षेण लक्ष्यते ! नन्वेवं वपूरूपधारणद्वारेण भूतान्यपि चैतन्यमुन्मीलयन्ति न साक्षालक्ष्यन्त इति भवत्पक्षेऽपि पक्षपातं विना साम्यं । भूतेषु वपूरूपपरिणतेष्वेव चैतन्यमुपलभामहे नान्यदेत्यन्यथानुपपत्त्या भूतजन्यमेव चैतन्यं कल्पयाम इति चेत् तर्हि कथं मृतावस्थायां भूतेषु तदवस्थेष्वेव चैतन्यं नोपलभ्यते । वपूरूपविवर्त्तश्च कादाचित्कत्वान्यथानुपपत्त्या कारणान्तरापेक्षीत्यतस्तत्संवादनसमर्थ जन्मान्तरायातात्मलक्षणं चैतन्यमेव मन्महे । अन्यच्च ॥ आत्मा तावत्पूर्वशुभाशु| भचैतन्ययोगादेहसम्पादनायोत्तिष्ठत इति सौष्टवप्रष्ठमेव । महद्भूतानि चैतन्यं कर्तुमारभेरन् चैतन्यवन्ति तद्विनाकृतानि वा? । यदि प्रथमपक्षस्तदा विकल्पद्वयमुदयते तेभ्यस्तञ्चैतन्यं व्यतिरिक्तमव्यतिरिक्तंवा व्यतिरिक्तं चेत्ततो न शरीरेष्विव |महद्भूतेष्वप्यवस्थितम् भूतविसदृशमेव स्वहेतुमवस्थापयति इति स्ववचसैवात्मानं मन्यमानः किमिति कुविकल्पनेन |स्वं क्लेशयसि । अथाव्यतिरिक्तमेवं सति सर्वमहद्भूतान्यकतां धारयन्ति, एकचैतन्याभिन्नत्वान्निजस्वरूपवत् । अथ पृथक्स्वस्वचैतन्याभिन्नानां तेषां नायं प्रमेयावकाश इति मन्येथास्तदपि न । यतस्तजन्यनरशरीरेऽपि भूतोत्पाद्यश्चैतन्यचतुष्टय १ पादनत्यजनयोः । ॥३२॥ in Eduentan For Private & Personel Use Only GONainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy