________________
प्रसङ्गः॥ अथ चत्वार्यप्येकीभूय वहवस्तन्तव इव पटं महत्तरचैतन्यमुत्पादयेयुरिति ब्रूषे । तदा तच्चैतन्यं किं भूतसंयोग उत तज्जन्यमन्यदेव किञ्चिदिति वाच्यं । भूतसंयोगश्चेत्तदयुक्तं चैतन्यानामन्योन्यसयोगासिद्धेरन्यथा प्रचुरतरचैतन्यान्येकीभूय महत्तमचैतन्यं जनयेयुः । नचैतदृष्टमिष्टं वा । अथ भूतोत्पाद्यमन्यदेव किञ्चिदित्येतस्मिन्नपि किं तेषामन्वयोऽस्ति नवा? अस्ति चेत्तदा पूर्ववत् भूतजन्यचैतन्यचतुष्टयतापत्तिरथ नास्ति तदप्यसङ्गतं निरन्वयोत्पत्तेयुक्तिरिक्तत्वात् तस्मा
न्न चैतन्यमुत्पादयेयुर्भूतानि । नच तद्विनाकृतानि, तेषामत्यन्तविसदृशत्वेन चैतन्योत्पत्तिविरुद्धत्वादन्यथा सिकताभ्योऽपि है तैलमुत्पद्यते। अन्यच्च । भूतनिचयमात्रजन्यं चैतन्यं तत्परिणतिविशेषजन्यं वा स्याद् ? न तावत्प्रथमः पक्षः क्षोदक्षमोऽवनि
जीवनपवनदहनयोजनेऽपि चैतन्यानुपलंभात् । द्वैतीयिकपक्षे पुनः कः परिणामविशेष इति पृच्छामः । वपूरूपपरिणतिरिति चेत्ततः सा सर्वकालं कस्मान्न स्यात् । किमपि कारणान्तरमाश्रित्योत्पद्यत इतिचेत्तदा तत्कारणान्तराजन्मान्तरागतात्मचैतन्यमिति वितर्कयामः तस्यैव वपूरूपपरिणतिजन्यचैतन्यानुरूपोपादानकारणत्वात्तदभावे वपूरूपपरिणतो सत्यामपि मृतदशायां भूतसद्भावे (न) चलनादिक्रियाऽनुपलंभात्तन्न वपूरूपपरिणतिजन्यं चैतन्यं किं तु सैव तज्जन्येति क्षोदक्षम |लक्षयामः । अथ न प्रत्यक्षादन्यत् प्रमाणं । नच तेनागमनगमनादिकं भवान्तराच्चैतन्यस्योपलभामहे तेन तल्लक्ष्याण्येव भूतानि तद्धेतुतया निर्दिशाम इति । तदप्यसत् । यतः केवलप्रत्यक्षाश्रयेण देशकालस्वभावविप्रकृष्टानां मेरुभवत्पितामहपरमाण्वादीनामप्यभावप्रसङ्गस्तेन च भवदादीनामप्यनुपपत्तिरित्यतो बलात्कारेणैवानुमानादीनि प्रमाणानि प्रतिपत्तव्यानि।सन्ति चानुमानान्यनेकशस्तथाहि-अस्ति कश्चिद्देहे तदतिरिक्तश्चेतनः सुख्यहं दुःख्यहमित्याद्यनुभवस्यान्यथानुप
in Eduelan HDZ
For Private & Personel Use Only
ainelibrary.org