SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥३३॥ Jain Education L पत्तेः । यदि वा स न स्यात्तदा सुखाद्यनुभवो न भवेद्यथा मृतशरीरे १ । तथा हिताहितप्राप्तिपरिहारचेष्टा प्रयत्नपूर्विका | विशिष्टक्रियात्वात् रथक्रियावत् । यश्चास्य प्रयत्नस्य कर्त्ता सोयमस्मत्सम्मतश्चेतनः । नच निरुक्तियुक्तिप्रतिहतेन भवता इह भव एव देहातिरिक्तः कश्चिदस्ति न त्वमुष्मिन्निति विप्रतिपत्तव्यम् । जन्मान्तरागामुकस्यैवास्य प्रमाणप्रतिष्ठितत्वात् | तद्यथा तदहर्जात बालकस्याद्यस्तनाभिलाषः पूर्वाभिलाषपूर्वकः अभिलाषत्वात् द्वितीयदिवसादिस्तनाभिलाषवत् । | तदिदमनुमानमाद्यस्तनाभिलाषस्याभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्त्या परलोकागामिजीवमाक्षिपति तज्जन्मन्यभिला| षान्तराभावात् । किंच यदुक्तमेतावता धर्माधर्मावपि नभोभोजनिभौ मन्तव्याविति तदप्यपाकृतं । तदभावे सुखदुःखयोनिर्हेतुकत्वात् अनुत्पादः एव स्यात्स च प्रत्यक्षविरुद्धस्तथाहि - मनुजत्वे समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभव| न्तोऽपरे पुनस्तत्प्रेष्यभावमाविभ्राणा, एके च लक्षंभरयोऽन्ये च स्वोदरदरीपूरणेप्यनिपुणाः, एके देवा इव निरन्तरसरसमुविलाससुखशालिनः इतरे नारका इवोन्निद्रदुःखविद्राणचित्तवृत्तय इत्यतोऽनुभूयमानसुखदुःखनिबन्धनौ धर्माधर्मौ स्वीकर्त्तव्यौ । तदङ्गीकरणेन च विशिष्टयोस्तत्फलयोर्भोगभूमी स्वर्गनरकावपि प्रतिपत्तव्यावन्यथाऽर्द्धजरतीयन्यायप्रसङ्गः स्यात् । एवं च पुण्यपापकर्मक्षयोत्थमोक्षपक्षोक्तदूषणमप्यनणुगुणं गणनीयं । नच वाच्यम् यदुत बन्धः कर्मजीव संयोगलक्षणः स आदिमान् आदिरहितो वा ! तत्र यदि प्रथमो विकल्पः ततो विकल्पत्रयप्रसङ्गः किं पूर्वमात्मनः प्रसूतिः पश्चात् कर्मणः, यदि वा पूर्व कर्मणः पश्चादात्मनः, आहोस्वित् युगपदुभयस्येति किंचातः सर्वत्रापि दोषः तथाहि न ताव - दात्मनः पूर्व प्रसूतिर्निर्हेतुकत्वात् व्योमकुसुमवत्, नापि कर्मणः प्राक् प्रसूतिः कर्तुरभावात्, नचाकृतं कर्म भवति, युग For Private & Personal Use Only सविवर ॥३३॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy