SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पक्षस्तहि नाम कर्मापि प्रवाहत द्वितीयपक्षेऽसिन्ततिगतोऽपि दोषः । अथाह जीवन तथा निमादिविक पत्प्रसूतिरप्ययुक्ता कारणाभावात् । नचानादिमत्यात्मनि बन्धो घटामटाव्यते बन्धकारणाभावात् गगनस्येव इत्थं चैतदङ्गीकर्त्तव्यमन्यथा मुक्तस्यापि बन्धप्रसंगो विशेषाभावात्, तथा सति नित्यमुक्तत्वात् मोक्षानुष्ठानवैयर्थ्यमिति । | अथ द्वितीयः पक्षस्तर्हि नात्मकर्मवियोगो भवेदनादित्वादात्माकाशसंयोगवदिति मोक्षानुपपत्तिरिति । यतो जीवोऽनादिनिधनः सर्वे सत्यहेतुत्वात्, कर्मापि प्रवाहतोऽनादिमत्ततो जीवकर्मणोरनादिमानेव संयोगो धर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तदूषणाऽनवकाशः । योऽपि द्वितीयपक्षेऽभिहितोऽनादित्वात्संयोगस्य वियोगाभाव इति सोऽप्यसमीचीनस्तथाऽदर्शनात् यथाच काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटमानो दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद्दोषः । अथ यद्यनादि सर्व कर्म ततस्तस्य जीवकृतत्वानुपपत्तिर्जीवकृतत्वेऽनादित्वविरोधात् । तदसम्यक् । वस्तुगत्यनवबोधात् तथाहि-जीवेन तथा मिथ्यादर्शनादिसव्यपेक्षेण तदा तदुपादीयते कर्म यथा तेन जीवेन कृतमित्युच्यते । तच्च तथाप्रवाहापेक्षया चिन्त्यमानमादिविकल|मित्यनादि । निदर्शनं चात्र कालो यथाहि यावत् अतीतकालस्तेनाशेषेण वर्तमानत्वमनुभूतमथचासौ प्रवाहतोऽनादिरेवं कर्मापीति । मुक्तस्यापि बन्धप्रसंगो विशेषाभावादिति तदप्ययुक्तं । विशेषाभावासिद्धेः तथाहि संसारी जीवः कषायादियुक्तस्तद्युक्तस्य कर्मणो योग्यान पुद्गलानादत्त इति कर्मबन्धोपपत्तिर्मुक्तस्तु कषायादिपरिणामविकलः शुक्लध्यानमाहाम्यतस्तेषां समूलमुन्मूलितत्वात् ततो मुक्त्यवस्थायां कर्मबन्धाप्रसङ्गः । नच वाच्यमेवं सति तर्हि निरन्तरमुक्तिगमनतो १ सत्त्वे । २ तथा तथा । MAROSECREDICALORSCORGADCHCRACK JainEducation For Private Personal use only w .jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy