SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर. ॥३४॥ भव्यानामुच्छेदप्रसङ्गोऽनन्तानन्तसङ्खयोपेतत्वात् । इह यद्यदनन्तसङ्ख्योपेतं तत्तत्प्रतिसमयमेकद्वित्रादिसङ्ख्ययापगच्छदपि न कदाचन निर्लेपीभवति यथा अनागतकालस्तथाचानन्तानन्तसङ्ख्योपेता भव्या इत्यनुच्छेदः । एवं च सत्प्रमाणप्रति-दू ष्ठितेऽप्यात्मतत्त्वे तदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गादिषु कुग्रहग्रहिलतयैवाप्रतिपद्यमानं चार्वाकमवज्ञोपहतमेव कुर्वाणः स्तुतिकृदाह ॥ विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥ ११॥ | तस्य सर्वापलापलोलुपस्य चार्वाकस्य विप्रतिपत्तिः सम्प्रतिपत्तिर्वा न विलोक्यते । यस्य परभवभवभृदपुनर्भवेषु सर्वम|तसम्मतेष्वपि मतिर्मुह्यति । मीमांसामांसलमतिमीमांसकोऽपि सर्वज्ञापलापं प्रलपन संशयज्ञानमेकमनेकाकारं प्रतिजानानो नानेकान्तं प्रतिक्षिपति । नास्तिकश्च महापापी तत्कथयाप्यलं कलाकौशलशालिनाम् ॥ अधुना सर्वमतप्रपन्नानकान्तयुत्तया वस्तुनः परमार्थसत्त्वमाह ॥ तेनोत्पादव्यवस्थेमसंभिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तु वस्तुसत् ॥ १२ ॥ १ ननु ताथागतादीनामुपपत्त्या सांमत्त्यं चार्वाकस्य तु वराकस्योपेक्षामुपक्षिप्तवान् तदत्र मीमांसामांसलमतेमीमांसकस्य किमिति कामपि चर्चा नाकरोदाचार्यः । उच्यते । समस्तमतविक्षेपेण खयमेव प्रकारान्तरेणानेकान्तमतं प्रतिष्ठमानं तं प्रति प्रतिपत्त्युपपत्तिः पिष्टमेव पिनष्टीति नास्ति पर्यनुयोगावसरः । ततः सिद्धं सर्वमतमनेकान्तं । यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षमं ततस्तत्सत्त्वमप्यनेकान्तात्मकमेवेत्युत्पादयन् । CROSARORESCAUSA ॥३४॥ Jain Education For Private & Personel Use Only Dhjainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy