SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ लक्षणाः प्रजाः प्रतिक्षणमानंदयसि परमानंदमेदुरांतःकरणाः करोषि । कुतःपुनरिदं सर्वतोमुखत्वं प्रभोरित्याह । तीर्थकृन्नामकर्मजात् परमाहत्यसहचरितात्सर्वाभिमुख्यतः सर्वाभिमुख्यत्वातिशयात् । अयमाशयः । किल सुप्रभूणां स्वाभिमुख्यमगण्यपुण्यप्राप्यं, तच्च तथाविधशुभसंभारवशोद्भवमपि द्वित्राणां पंचषाणां वा भवति । त्वं तु युगपत्कोटिसंख्याः अपि तिर्यगनरामरादिकाः पितेव स्वाः प्रजाः समदृष्टया शश्वदानंदयसीत्यहो तव योगसाम्राज्यमहिमेति । अत्र केचित्सर्वाभिमुख्यतां भगवतो देशनावसरचतुर्मुखतामाहुस्तस्याश्च सुरकृतातिशयेषु पुरस्ताद्भणिष्यमाणत्वात् कर्मक्षयातिशयेष्वमीषु भणनं न संगतिमंगति ॥ तथा ॥ | यद्योजनप्रमाणेऽपि धर्मदेशनसद्मनि ॥ संमांति कोटिशस्तिर्यग्नदेवाः सपरिच्छदाः ॥२॥ धर्मः सर्वदेशसंयमलक्षणो दशद्वादशभेदः सम्यग् दिश्यते यत्र तद्धर्मदेशनसा । तच्च भगवतः सुरासुरजनितं त्रिभुवनाभरणं समवसरणमेव, तस्मिंश्च यत्तिर्यक्नरामरा युगपत्संमांति परस्पराबाधेन सुखं निषीदंति, यदि पुनस्ते स्वल्पा एव भविष्यतीत्याह कोटिशः कोटिसंख्याः। तावतोऽपि कदाचिदेहमात्रसहाया एव स्युरित्याह । सपरिच्छदाः सपरीवाराः स्वस्वपरीवारोपेताः, तर्हि देशनासझ योजनशतादिविस्तीर्ण भविष्यतीत्याह । योजनप्रमाणेऽपि गव्यूतिद्वयमात्रविस्तारे । यच्चैतावत्यपि कोटिसंख्याः सपरीवाराश्च तिर्यग्नरामरा युगपन्निरावाधं संमांति । स सकलोऽपि तवैव योगसमृद्धिसमुदय इति । किंच॥ Jain Educat For Private & Personal Use Only
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy