SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ वीतराग. अवचू. ॥६३॥ CACHECRROCACARRECRUARCASSES | अष्टमे त्वाज्ञामध्ये सप्तव्यसननिषेधः, नवमे उभयकालयोः प्रतिक्रमणं सामायिके गृहीते श्रीहेमसूरिपादान्विनाऽन्येन | सहाजल्पनं, दशमे वर्षासु कटकाकरणमेकादशेऽष्टमीचतुर्दश्योःपौषधग्रहणं कायोत्सर्गे पादलग्नस्य मर्कोटकस्य दयया स्वतन्वा सह परतःकरणं, द्वादशे सीदन्साधर्मिकाणां द्वासप्ततिलक्षकरमोचनं प्रतिवर्ष साधर्मिकोद्धारायैककोटिदीनारदा नं पारणकदिने पर शतानामपि दृष्टिप्राप्तश्राद्धानामात्मना सह भोजनं चेत्यादिनियमानङ्गीकृत्य प्रभुपार्थे प्राकृतदुष्कृतप्रक्षालनाय प्रायश्चित्तं प्रार्थितवान् , नैश्च समयरहस्यं हृदि विमृश्य दत्तं तच्चेदं-चतुश्चत्वारिंशदुत्तरचतुर्दशशतं १४४४ नव्यप्रासादनिर्मापणं, पोडशशतजीर्णोद्धारविधापनं, सप्त महायात्रा एकविंशतिर्ज्ञानकोशा इत्यादि । विशेषतो विहिताभक्ष्य| भक्षणद्वात्रिंशद्दशनविशुद्धये एकस्मि व पीठे दशनसङ्ख-यप्रासादा विधाप्याः, प्रत्यहं प्रातर्द्वात्रिंशत्प्रकाशाः चकाचैदी|प्तौ प्रकर्षण काश्यन्ते दीप्यन्ते आन्तरमलापनयनेन दशना एभिरिति प्रकाशा गुणनीयाः इति तं प्रतिपाद्य श्राद्धविधिप्रवृत्तिप्ररूपका द्वादशयोगशास्त्रस्य वीतरागभक्तिमया विंशतिश्चामी श्रीप्रभुभिराम्नाता इति मूलसम्बन्धस्तेपूत्तराणां विंशतेः प्रकाशानामर्थमात्रं लिख्यते-प्रभुश्रीहेमचन्द्रसूरयः शिशुशिष्यशेमुषीविशेषोन्मेषाय प्रथमस्तवे यत्तच्छब्दयोः सप्तविभक्त्येकवचनव्युत्पत्तिं प्रदर्शयन्तो निजभक्ति प्रकटयन्ति यथा यः परात्मा परंज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्ण तमसः परस्तादामनन्ति यम् ॥१॥ यः परात्मेति परश्चासावात्मा च परात्मा सर्वसंसारिजीवेभ्यः प्रकृष्टस्वरूपः, पुनः किंविशिष्टः ? परंज्योतिः परं सकलकर्ममलकालुष्यरहितत्वेन केवलं ज्योतिर्ज्ञानमयं यस्य स तथा परमिति केवलार्थेऽव्ययं, परमे सदानन्दरूपे पदे तिष्ठन्तीति ARCHICAGRECAREER Jan Education 11 For Private Personel Use Only Jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy