________________
*AHOROSKOSARASHOREOG
परमेष्ठिनोऽर्हदादयः पञ्च तेषां परमः प्रधानभूतः परमत्वं चास्य मुक्तावस्थामधिकृत्य, परमेष्ठिनामिति षष्ठी सप्तमी चाविभागे निर्धारणे इति(२-२-१०९)सूत्रेण तथा यं वीतरागं तमसः परस्तादामनन्ति ध्यायन्ति तत्स्वरूपोपलब्धये मनीषिणः, क? परस्तात्परस्मिन्पारे, कस्य ? तमसोऽज्ञानरूपस्य, किम्भूतं? यमादित्यवर्णमादित्यस्येव वर्ण उद्योतो यस्य तं तथा भानोरुपमानमन्यस्य तथाविधस्य वस्तुनोत्राऽभावात् पुरस्तादितिपठितं तमसोऽज्ञानरूपान्धकारस्याग्रे आदित्यवर्ण भूयसां | तद्विनाशकमित्यर्थः १
सर्वे येनोदमूल्यन्त समूला: क्लेशपादपाः। मुनी यस्मै नमस्यन्ति सुरासुरनरेश्वराः॥२॥ सर्वे० येन सर्वे समस्ताः क्लेशा रागद्वेषादयस्त एव पादपा वृक्षा नरकादिकटुफलदायित्वेन समूला मिथ्यात्वमूलसहिता उदमूल्यन्त उन्मूलिताः, यस्मै मूर्धा सुरासुरनरेश्वरा नमस्यन्ति नमस्कुर्वन्ति ॥२॥
प्रावर्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः। यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥ ३ ॥ प्राव० यतो यत्सकाशाद्विद्याः शब्दविद्यादिकाश्चतुर्दश, धर्मार्थकामादिपुरुषार्थानां प्रसाधिका विधायिकाः, प्रावर्तन्त | अभूवन् , यद्वा द्वादशाङ्गीगता विद्याः सुवर्णसिद्ध्यादिप्ररूपिकाः, यस्य ज्ञानं भवद्भाविभूतभावावभासकृदतीतानागतवर्णमानवस्तुप्रकाशकमस्तीति गम्यम् ॥३॥
यस्मिन्विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः प्रपद्ये शरणं च तम् ॥ ४॥ यस्मिन् यस्मिन्विशिष्टं ज्ञानं विज्ञानं केवलज्ञानमानन्दमकृत्रिममुखं ब्रह्म च परमपदं त्रीण्यप्येकात्मतामैक्यं गतानि
Jain Educatio
For Private & Personel Use Only
Rww.jainelibrary.org