SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Jain Educatio अथ श्रीवीतरागस्तोत्रस्यावचूर्णिः । ॥ ॐ ॥ जयति श्रीजिनो वीरः सर्वज्ञः सर्वकामदः । यस्याङ्गियुगलं कल्पपादपैर्युग्मजातकम् ॥ १ ॥ नत्वा निजगुरून् सारसारस्वतविभाद्भुतान् । वीतरागस्तवान्वर्थे बालगम्यं करोम्यहम् ॥ २ ॥ तथाहि - पूर्व स्वर्गसहोदरे पत्तननगरे निजसहजपराक्रमाक्रान्तराजचक्रः परमप्रभुतानुकृतशको दुर्द्धरविरोधिसिन्धुरभयकरकरालकरवालः दशदिमण्डपाखण्डमण्डनकीर्तिव्रततिवितानालवालः प्रजापालश्रीकुमारपालश्चतुः सागरावधि धात्रीधवतां दधातिस्म, सच कलिकालसर्वज्ञश्वेता|म्बरादिषड्दर्शनाखण्डिताज्ञस्वप्रज्ञापराभूतसुरसूरिश्री हेमसूरिवचनामृतेन गलितमिथ्यात्वगरलः सरलतर श्रीजिनमार्ग प्रतिपन्नवान्, श्रीजिनोत्तनवतत्त्वानि श्रद्धधानः प्रथमत्रतेऽष्टादशदेशेष्वमारिप्रवर्तनं मारिशब्दश्रवणेऽपि क्षपणकरणं, द्वितीये विपर्ययेणाऽसत्यवचने आचाम्लं, तृतीये द्विसप्ततिलक्षनिवींराधनमोचनं, चतुर्थे धर्मप्रात्यनन्तरं पाणिग्रहणनियमः | चतुर्मास के त्रिधा शीलपालनं, भोपलदेवाद्यष्टभार्यामरणे प्रधानप्रभृतिभिर्वहु कथनेऽपि पाणिग्रहणाकरणं, पञ्चमे पडष्टौ कोव्यः सुवर्णरूप्ययोः दशशततोलका महार्घ्यमणिरत्नानां द्वात्रिंशत् २ सहस्रमणानि तैलघृतयोः त्रीणि २ लक्षाणि शाल्यादिधान्यपुटकानामेकादश शतानि गजानां पञ्चाशत्सहस्रा रथानामेकादशलक्षास्तुरङ्गमानां सर्वसैन्यमीलनेऽष्टादश लक्षा अष्टा विंशतिलक्षाः सुभटानां सहस्रमुष्ट्राणामशीतिसहस्रा गवां पञ्च २ शतानि गृहासभायानपात्र शकटवाहिन्यादीनां षष्ठे चतुमसके पत्तनपरिसरादधिकदिग्गतिनिषेधः, सप्तमे मद्यमांसम धुम्रक्षणत्रहुवीजपञ्चोदुन्वरानन्तकाय घृतपूरादिनियमः । tional For Private & Personal Use Only w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy