________________
Jain Education Intel
वीतराग! भगवंस्तव संबन्धिन्याः सपर्याया अपि पूजायाः सकाशादाज्ञापालनं निदेशकरणं परं प्रकृष्टफलदं, द्रव्यस्तवरूपत्वात् पूजाया भावस्तवरूपत्वाच्चाज्ञाराधनस्य, तयोश्च परस्परं सुमेरुसर्षपयोरिव सुदूरमन्तरं उक्तं च "कञ्चणमणिसोवाणं थंभसहस्सूसियं सुवण्णतलम् । जो कारिज जिणहरं तओवि तवसंजमो अहिओत्ति" । सपर्यापीतिपाठे आज्ञापालनं तावदुक्तयुक्तयैव प्रकृष्टतमं परं सपर्यापि तदधिकारिणामाज्ञापालन रूपत्वेन परम्परया मुक्तिफलत्वेन च वरैव । किंचेयं भगवदाज्ञा आराद्धा त्रिकरणशुद्ध्या सम्यगाराधिता शिवाय महोदयाय, विराद्धा अज्ञानप्रमादादिभिरवधीरिता भवाय संसाराय जायते, अतः क इव सहृदयस्तदाराधनेऽवधीरणां विदध्यादिति ॥ अथ केयमाज्ञा नाम उच्यते
आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥ ५ ॥
हे भगवन् ! आकालमा संसारमतीते वर्त्तमाने भविष्यति च काले ते तव संबन्धिनी इयं वक्ष्यमाणा आज्ञा शासनं । किंविशिष्टा ! हेयोपादेयगोचरा हेयविषया उपादेयविषया च । द्वैविध्यमेव व्यनक्ति - आश्रवेत्यादि, आश्रवत्यनेनात्मनि पापमित्या| श्रवः कषायविषयदुष्टयोगप्रमादाविरतिमिथ्यात्वार्त्तरौद्रलक्षणः सच सर्वथा मनोवाक्कायैः करणकारणानुमतिभिश्च यः परित्याज्यः । तथा पूर्वोदितस्याश्रवस्य विपक्षरूपः क्षमामार्दवार्जवसन्तोषसंयम गुप्तित्रयाप्रमादविरतिसम्यक्त्वशुभध्यानलक्षणः संवर उपादेयः सर्वात्मना स्वीकार्य इति भगवदाज्ञा ॥ अथ किमर्थमाश्रवत्यागे संवरोपादाने च इयानाग्रह
इत्याह
आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमाहती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥ ६ ॥
For Private & Personal Use Only
inelibrary.org