________________
वीतराग.
॥ ५ ॥
Jain Education
प्रतिहता इव न तदंगे रोगभुजंगमाः समाविशंति । समुचितश्चामृतपानादामयाशीविषविषविकारविश्लेष इति ॥ तथा ॥ त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके ॥ क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ॥ ४ ॥
हे भगवंस्त्वद्वपुषस्तवातुल्यकल्याणगेहस्य देहस्य क्षरत्स्वेदविलीनत्वकथापि कुतः। तथाविधतरणितापादिसंपर्कतः क्षरत्स्यंदमानो यः स्वेदो घर्मजलं तस्माद्विलीनत्वं पिच्छलत्वं तस्यास्तां तावदनुभवः कथापि वार्त्तापि कुतः सर्वथैवासंभविनीत्यर्थः ॥ कथंभूते त्वयीत्याह । आदर्शतलालीनप्रतिमाप्रतिरूपके आदर्शो दर्पणस्तस्य तलं मध्यं तस्मिन्नालीना प्रतिबिंबिता या प्रतिमा देहच्छंदस्तत्प्रतिरूपके तदनुकारिणि । किमुक्तं भवति । यथा मुकुरसंक्रांतस्य रूपस्य भीष्मग्रीष्मादिसानिध्येपि स्वेदविलीनत्वं न स्यादेवं निसर्गत एव भगवदंग इति । एवं च प्रियंगुस्फटिकेत्यादिना निरुपचिताद्भुतरूपत्वं, मंदारदामेत्यनेन स्वभावसुरभित्वं दिव्यामृतेत्यनेन निसर्गनीरोगत्वं त्वय्यादर्शेत्यनेन स्वाभाविकस्वेदमलोन्मुक्तत्वमभिदधानेन स्तुतिकृता श्लोकचतुष्टयेन भगवतः सहजातिशयेषु प्रथमो देहातिशयः प्रोक्तः । सांप्रतं श्लोकद्वयेन द्वितीयं सहजातिशयमाह ॥
न केवलं रागमुक्तं वीतराग मनस्तव ॥ वपुः स्थितं रक्तमपि क्षीरधारासहोदरं ॥ ५ ॥
हे वीतराग भगवंस्तत्र वीतराग इत्यन्वर्थेन नाम्नैव यशः पटहघोषेणेव सर्वत्र निरंकुशं प्रसर्पता मनसो गतरागत्वं सुप्रसिद्धमेव केवलं न खलु तव मनोऽतःकरणमेव रागमुक्तं विषयाभिष्वंगरहितं किंतु वपुः स्थितं देहांतर्गतं रक्तं शोणितमपि रागमुक्तं लौहित्योज्झितमत एव क्षीरधारासहोदरं मुग्धदुग्धप्लवप्रतिमं । इयमत्रभावना । सहजातिशयमहिम्नैव भगवद्वपुषि क्षीरधाराघवलं शोणितं, परं रागनिग्रहाग्रहिणं विगणय्यैव भगवंतमंतश्चकितेनेव किल रक्तेन रागस्तत्यज इति ॥
For Private & Personal Use Only
सविवर. =
॥ ५ ॥
ainelibrary.org