SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Jain Education जगद्विलक्षणं किंवा तवान्यद्वक्तुमीश्महे ॥ यदविश्रमवीभत्सं शुभ्रं मांसमपि प्रभो ॥ ६ ॥ प्रभो भुवनाधिनाथ भगवंस्तव जगद्विलक्षणं जगदसामान्यमन्यद्रूपलवणिमबल कला कौशलदानध्यानज्ञानादिकं गुणगणं वयं स्तोतारः संभूयोपि किं कियन्मात्रं वा वक्तुं वर्णयितुमीश्महे समर्था भवामः । यद्यस्मात्त्वदेहधातुषु यन्मांसं पिशितं तदपि जगद्विलक्षणं । तथाहि मांसं विश्रं बीभत्सं लोहितं च भवति । तव तु तदप्यविश्रमदुर्गंधि परमपरिमलाढ्यमवीभत्सम जुगुप्सनीयं शुभ्रं डिंडीरपिंडपांडुरमतस्तव देहधातवोऽपि यदि जगदसामान्यास्तत्किमिवान्यलोकोत्तरं (न) भविष्यतीतिभावः ॥ तृतीयं सहजातिशयमाह ॥ जलस्थलसमुद्भूताः संत्यज्य सुमनःस्रजः ॥ तव निःश्वाससौरभ्यमनुयांति मधुत्रताः ॥ ७ ॥ जगदप्रमेयमहिमन् स्वामिंस्तव निःश्वाससौरभ्यं मुखानिलपरिमलं मधुव्रताः षट्पदाः समंततोऽनुयांति सरभसमनुसरंति । यदि पुनस्तत्र प्रसृत्वरपरिमलललितमन्यद्वस्तु जातं भविष्यतीत्याह । संत्यज्य विहाय । काः सुमनः स्रजः प्रसूनमालाः । किंविशिष्टा जलस्थलसमुद्भूता जले स्थले च प्रादुर्भूताः, तत्र पुंडरीककमलकुवलयकुमुदाद्याः सलिलसमुद्भूतास्तिलकचंपकाशोक केतकवकुलमालतीपाटलाद्याश्च स्थलसमुत्थाः । नच परिमलविशेष विचारे चंचरीकेभ्योप्यपरे चंचुरास्ततस्तेपि यदि सुमनःस्रजः संत्यज्य त्वन्मुखामोदमनुसरति ततस्तस्यैव समस्त परिमलाढ्य वस्तुषु परभाग इति । अत्र च ग्रथितान्येव कुसुमानि पृथग्शब्दाभिधेयानि तथाप्यत्यंतसंहतत्वेन सुमनसां स्रज इव स्रज इत्यदोषः ॥ चतुर्थ सहजातिशयमाह ॥ For Private & Personal Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy