SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ROCESSORRC-ECORRECIRCLECTEX प्रशमामृतवीचयो मां परमानन्दसम्पदं चिदानन्दश्रियं पराणयन्ति प्रापयन्ति । भवत्येव परमप्रशमामृतसुहितस्यात्मनः किञ्चिच्चिदानन्दानुरूपं सुखमिति ।। ___इतश्चानादिसंस्कारमूर्छितो मूर्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥ | हे भगवन् ? इतश्चास्मिन्पक्षे अनादिसंस्कारमूर्छितः प्रचुरतरभवोपलालनोपचितोरागोरगविषावेगोरागभुजङ्गगरलोद्गारोsलमत्यर्थ मां मूर्छयति मुकुलितसदसद्विचारं विधत्ते । एवंच सति किमहं हताशो विगलितप्रत्याशः करवाणि किं प्रतिविधानं विदधे? स्थाने च हताशत्वं यतो यस्यामृतमापिवतोऽप्युरगविषावेगः प्रसरति तस्य तन्निग्रहे किमपरमापयिक ? यस्य च परमवैराग्यप्रधानं जिनप्रवचनं परिशीलयतो रागावेगःस्फुरति स तदपरं तन्निग्रहोपायमपश्यन् भवत्येव विहताशः। रागवैकृतमेव व्यनक्तिरागाहिगरलाघ्रातोऽकार्ष यत्कर्म वैशसम् । तद्वक्तुमप्यशक्तोऽस्मि धिग्मे प्रच्छन्नपापताम् ॥३॥ हे स्वामिन्? अहं रागाहिगरलाघ्रातो रागोरगविषावेगास्कन्दितो यद्वैशसमसमञ्जसं कर्म व्यापारमकार्पमकरवम् तदधुना तेनैव स्वकर्मणा लज्जितस्तवापि विश्ववत्सलस्य पुरतो वक्तुं प्रकाशयितुं न शक्तोऽस्मि ततो धिगिति निन्दायां, मे मम, इमां प्रच्छन्नपापतां परोक्षदुष्कृतकारितां धिक्, युक्तः स्वात्मनि धिक्कारो यतः कृत्वापि दुष्कृतं यदि सत्पात्रे प्रकाश्यते तदा तदुचितप्रायश्चित्तादिना भवत्येवैनसः शुचिः, अप्रकाशितं तु दुष्कृतं नष्टशल्यमिवामरणान्तं व्यथयति भवान्तरं च सङ्क्रामतीति।। न च राग एव केवलः प्रतिपन्थी किन्तु मोहादयोऽपीति व्यनक्ति Join Education anal For Private & Personal Use Only N ow.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy