SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ वीतराग. क्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी। मोहायैः क्रीडयेवाहं कारितः कपिचापलम् ॥४॥ द सविवर. हे मोहद्रोहकारिन् ? त्वकिङ्करोह मोहाद्यैः कपिचापलं प्रापितः। कथमित्याह-क्षणं क्षणमात्रं मनोज्ञेषु शब्दादिषु साक्षा॥५२॥ कान्निबद्धरतिस्तिष्ठामि, क्षणं च दुरन्ततद्विपाकाम्बु (कवि) चिन्तनेन मुक्तो मुक्तरूप इव भवामि, क्षणं च केनापिक्वचिद्वाञ्छिते8 हस्खलिताभिलाषस्तं प्रति क्रुद्धः क्रोधवानस्मि, क्षणं च क्रोधफलोपभोगेन विलीनौदयिकभावो भावयन्वस्तुतत्त्वं क्षमी क्षमा वान् भवामि । एवं मोहादिभिः क्रीडया मनोविनोदार्थम वेश्वरैरहं कपिचापलं कापेयं कारितः यथा सहजनिजचापलेन क्षणे २ कोऽपि विसदृशचेष्टो भवति तथाहमपि मोहादिभिरिति । यदि वा मुधैव मोहादयो मयोपालभ्याः यतः स्वकृतमेवेदं दुश्चेष्टितं (इति) दर्शयन्नाह| प्राप्यापि तव सम्बोधि मनोवाकायकर्मजैः । दुश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः॥५॥ हे सम्यक्शुभशक्तिसनाथ? तव सम्बधिनी सत् सम्यगृपां बोधि ज्ञानश्रद्धानलक्षणां पुण्ययोगात् प्राप्य लब्ध्वापि मनोवाक्कायकर्ममनोवचनतनुसमुद्भवैः पापानुवन्धिभिर्दुश्चेष्टितैमया स्वयमेव स्वशिरसि अनलः प्रचालितः। किमुक्तं भवति? यथा केनापि कृपालुना ज्वालितादालयादाकृष्टोऽप्यात्मवैरितया पुनः स्वमुनि दहनं दीपयति तथा मयापि भवशतसहस्रदुर्लभां निवृतिपुरीप्रस्थाननिरुपहतवर्तिनी तव बोधि लब्ध्वापि निरर्गलदुष्टयोगविचेष्टितैर्दुर्गतिदुःखान्यात्मन्युपचयता शिरस्यनल इव ज्वालितः, तत्त्वतस्त्वेतदपि भावारिविलसितमेव ॥ ॥५२॥ १ कपिः. Jain Educatio n al For Private & Personel Use Only O w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy