SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर. ॥५१॥ CAMESSASURESSESE तस्यै भुवे पृथिव्यै नमोऽस्तु, यस्यां तव पादनखाशवस्तव क्रमनखमयूखाश्चिरं चूडामणीयन्ते मौलिमणिमहिमानमुद्हन्ति । अतः परमपि वयं किमन्यद्महे । किमुक्तं भवति ? किल यदि त्वदध्यासनेन तीर्थप्रतिमापृथिव्यपि नमस्या ततः | किमन्यत्त्वद्गुणेष्वनुपादेयमिति । एवं च ___ जन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः। जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः॥ ९॥ एवं च सति स्वामिन्? अहमेव जन्मवान् सफलावतारोऽस्मि । तथा धन्यः पुण्यवानहमेवास्मि । तथा कृतकृत्यो निर्वर्तितसमस्तशस्तकर्त्तव्योऽप्यहमेवास्मि । यत्किं? यदहं मुहुरनुक्षणं त्वद्गुणग्रामरामणीयके तव गुणसमूहमनोहरत्वे लम्पटो बद्धगृद्धिर्जातोऽस्मि । अयमाशयः 'इदमेवास्य समग्रसामग्रीसङ्गतस्य जन्मनः फलमेतदेव च तत्त्वतो धन्यत्वमियमेव च निश्चिन्तता यदेकान्ताभिरामत्वद्गुणग्रामवर्णने न नैकतानं मनः समजनीति' ॥ इति वीतरागस्तोत्रे भक्तिस्तवस्य पञ्चदशस्य पदयोजना ॥ एवं स्तुतिकृद्भक्तिस्तवेन भगवतः स्वभक्तिमाविष्कृत्य साम्प्रतमात्मगर्हास्तवेन क्षीणितात्ति विज्ञापयन्नाह___ त्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ ! परमानन्दसम्पदम् ॥ १॥ हे विहितान्तरारातिप्रमाथ नाथ? इतोऽस्मिन्पक्षे त्वन्मतामृतपानोत्थास्त्वत्प्रवचनपीयूषास्वादनसमुद्भवाः शमरसोमयः | ॥५१॥ Jan Education a l For Private Personal Use Only R ainelibrary.org.
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy