SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥२५॥ स्वभावभेदान्नित्यैकरूपताव्याघातो भवेदेव । ननु नित्यैकस्वभावस्य पदार्थस्यैकत्र देशे सर्वकार्योत्पादनसामर्थ्य सद्भावेऽपि नोत्तरोत्तरदेशभाविकार्यं भवेत्सहकारिकारणाभावादिति चेदुच्यते, सहकारिणः किं तस्योपकारित्वेनैकार्थकारित्वेन वा ! । प्रथमपक्षे किमसावुपकारस्ततो व्यतिरिक्तोऽव्यतिरिक्तः कथंचिद्व्यतिरिक्तो वा गत्यन्तराभावात् ! । यद्यव्यतिरिक्तस्तदा नित्यताहानिर्न खलूपकारादनित्यादभिन्नस्य भावस्य नित्यत्वं नाम, तत्स्वरूपवत् । भेदैकान्तताभावश्च योगस्य । अथ व्यतिरिक्तो | विधीयते तर्हि तस्येतिव्यपदेशाभावः, संबन्धाभावात् । न च संबन्धाभावोऽसिद्धः । स हि संयोगलक्षणस्तादात्म्यलक्षणः समवायलक्षण उपकार्योपकारकलक्षणोऽदृष्टलक्षणो वा । न तावत्संयोगः, तस्य गुणत्वेन द्रव्यवृत्तित्वाद्रव्ययोरेव संयोग इति वचनात् । नापि तादात्म्यं, तस्यानभ्युपगमादन्यथा नैकान्तवादप्रवेशो योगस्य । नापि समवायलक्षणः, स ह्येकः सर्वगतश्च परैरिष्यते । कथं तद्वशात्तत्रैव तस्य भावो नान्यत्रेति । अथ समवायस्य सर्वगतत्वाविशेषेऽपि समवायिनां प्रतिनियमः प्रत्यासत्तिविशेषसद्भावादिष्यते, स कोऽन्योऽन्यत्र कथंचित्तादात्म्यात् । नाप्युपकार्योपकारकलक्षण उपकारकेण ह्युपकार्यस्योपकारः क्रियमाणो व्यतिरिक्तोऽव्यतिरिक्तो वा ! अव्यतिरेके नित्यत्वमपि कार्यत्वं, व्यतिरेके संबन्धासिद्धिः । अथोपकारेणाप्युपकारान्तरं विधीयते, तर्हि तेनाप्यपरमित्यनवस्था । नाप्यदृष्टलक्षणस्तस्य संबन्धरूपताभावात् । तन्न व्यतिरेकपक्षोऽपि घटते । कथञ्चित्पक्षोऽपि न श्रेयान् उभयपक्षनिक्षिप्तदोषानुषङ्गात्। तन्नोपकारकत्वेन सहकारिणः स्युः, नाप्येकार्थकारित्वेन, न खलु स्वरूपेणाकारकं पररूपेण कारकम्, स्वयमकारकस्य पररूपेणाप्यकारकत्वान्न हि गोधूमबीजं स्वयं यवाङ्कुरस्याकारकं यवसहितमपि तस्य कारकं नाम । किंच । यदि सहकारिभिर्नित्यस्य न किञ्चित्क्रियते तर्हि कथं तेषामपेक्षा, अनुपकारिणा Jain Education International For Private & Personal Use Only सविवर. ॥२५॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy