________________
ह्यात्मा पुण्यापुण्यादिकं क्रमेणाचवीत युगपद्वा! क्रमेण चेत्तदा यस्मिन् क्षणे पुण्यं तदा नापुण्यमाक्रान्तम् , एवं क्षणिकत्वक्षतिः द्वितीयमपुण्यक्षणं यावदात्मनोऽनवस्थानात्। युगपत्पक्षस्तु विरोधवाधाकर एव । एवं वन्धमोक्षावप्येकान्तानित्यपक्षे विचार्यमाणो विशीर्येते अत एकान्तनित्यानित्यपक्षौन क्षेमङ्करी, तस्मान्नित्यानित्य आत्मा पुण्यपापबन्धमोक्षाद्यन्यथानुपपत्तेरिति । एवं च सत्त्वस्यैकान्तनित्यतायामेकान्तानित्यतायां च 'न' केवलं कृतनाशाकृतागमसंनिपातविनिपात एव । किश्चात्मनोऽपि तथात्वाभ्युपगमे न केवलं सुखदुःखभोगपुण्यपापबन्धमोक्षक्षतिरेव यावदखिलस्याप्यात्मादिवस्तुस्तोमस्य नित्यानित्यतायामनाद्रियमाणायामकाण्डकूष्माण्डो दसोदरमनर्थान्तरमपि निपततीत्याह ॥ | क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि। एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि॥४॥
अप्रच्युतानुत्पन्नस्थिरैकरूपाणां नित्यानां क्रमेणाक्रमेणाप्यर्थक्रियाकारित्वं न युज्यते । तथाहि-नास्ति नित्यकरूप आत्मादिरनर्थक्रियाकारित्वाद्यद्यदनर्थक्रियाकारितत्तन्नास्तीत्युपलब्धम् , यथा खपुष्पमनर्थक्रियाकारी च नित्यैकरूप आत्मादिस्तस्मानास्तीति निश्चीयते । नचानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धः । अर्थक्रियाकारित्वं हि कार्यकर्तृत्वमुच्यते । तच्चात्मादेः क्रमेण योगपद्येन वा! प्रकारान्तराभावात्। न तावत्क्रमेण घटते, क्रमो हि द्विधा देशक्रमः कालक्रमश्च, न तावद्देशक्रमेण कुर्यात्, देशक्रमो ह्यकत्र देशे कार्यमेकत्वा पुनर्देशान्तरेऽन्यकार्यकरणमुच्यते। न च नित्यैकस्वभावस्येत्थंभूतः क्रमः संभाव्यते, नित्यैकस्वभावताव्याघातप्रसङ्गात् । यदा ह्येकत्र देशे एककार्यमपरं चान्यत्र करोति तदा पूर्वस्मिन् देशे पूर्वकार्यकरणसामर्थ्यमेव नोत्तरकार्यकरणसामर्थ्यमन्यथा पूर्वस्मिन्नेव देशे तस्याप्युत्पत्तिप्रसङ्गः, तथा च पूर्वोत्तरदेशयोः
Jain Education
a l
For Private & Personal Use Only
jainelibrary.org