________________
वीतराग
॥१४॥
Jain Education
भुवननीय दिवा पवनानुकूल्यतरुप्रणामादिकं कियदेतत् । यतः सुरा ऊर्द्धाधस्तिर्यग्लोकवासिनोऽपि त्वां सरभसं सेवते । कियंत इत्याह । कोटिसंख्याः परिमिताः कथं जघन्यतः सामान्यतोऽपि विशेषे तु कोटाकोटिप्रमिता अयमत्त्र्यास्त्वामुपासते । अत्रैवार्थातरमाह । भाग्यइत्यादि भाग्यसंभारलभ्ये अगण्यपुण्यप्रचयप्राप्ये अर्थे प्रयोजने तावदास्तामतिनिपुणमतयः किंतु मंदाः स्वल्पमेधसोऽपि नोदासते । विरचितसुकृतसंततिप्राप्यं च भगवदुपासनमतस्तत्र भावि - भूरिभद्रः क इवोदास्ते इति ॥
इति वीतरागस्तोत्रे सुरकृतातिशयवर्णनस्य चतुर्थप्रकाशस्य पदयोजना |
एवं कतिचित्सुकृतातिशयानभिधाय पुनः प्रातिहार्यरूपांस्तानेवाभिधित्सुः पंचमप्रकाशं प्रस्तावयन्नाह ॥ गायन्निवालिविरुतैर्नृत्यन्निव चलैर्दलैः ॥ त्वगुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥ १ ॥ किल त्रिविष्टपसदो विष्टपत्रयपतेः पूजार्थमष्टौ प्रातिहार्याणि संपूरयंति तेषु चाशोकतरुः पुरःसरः स च जंबूरिव जंबूद्वीपस्य भवभयार्त्तसत्त्वशरणस्य समवसरणस्य मध्येऽर्हद्देहायामात् द्वादशगुणायामः, परिमंडलाकारेणायोजनं विष्वक् | विस्तृतः समवसृतिलक्ष्मीलीलानीलातपत्रमिव व्यंतरामरैर्विरच्यते । तमेवाह । हे समुद्धृतसंश्रितसत्त्वास्तोकशोक स्वामिंस्त्वदुपरि सुरविरचितोऽसावशोकपादपः किंकिल्लितरुर्मोदते । कुतः । किलायमेव भगवांस्तावत्कषायतपनोपतप्तदुरंत संसृतिकांतारपरिभ्रांतिश्रांतानां भव्य सत्त्वानामाश्रमतरुर्यदि वाऽहमस्यापि क्षणमाश्रमतरुतामाकलयामि ततः किमितोऽधिकं
tional
For Private & Personal Use Only
सविवर.
॥१४॥
w.jainelibrary.org